सामग्री पर जाएँ

समाधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधिः, पुं, (समाधीयतेऽस्मिन् मनो जनैरिति । सम् + आ + धा + “उपसर्ग धोः किः ।” इति किः ।) समर्थनम् । नीवाकः । नियमः । इत्य- मरः ॥ (यथा, कुमारे । ५ । ६ । “अयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ॥”) समर्थनं अशक्ये अध्यवसायः दुर्घटस्य घटनत्वं वा । नीवाको वचनाभावः । इति स्वामी ॥ धान्यादिषु मूल्योत्कर्षपूर्ब्बको जनादरः । इति सुभूतिः ॥ नियमः अङ्गीकारः । एते समा- धयः । समाधीयतेऽस्मिन् मनो जनैरिति किः । इति भरतः ॥ ध्यानम् । काव्यगुणविशेषः । इति मेदिनी ॥ (अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ७४० । “समाधिः सुकरे कार्य्ये दैवाद्बस्त्वन्तरागमात् ॥” यथा, -- “मानमस्या निराकर्त्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम् ॥” समाधीयतेऽनेनेति करणे किः । कारणसामग्री । यथा, रघुः । १ । २९ । “तं वेधा विदधे नूनं महाभूतसमाधिना । तथाहि सर्व्वे तस्यासन् परार्थैकफला गुणाः ॥”) इन्द्रियनिरोधनम् । इति शब्दरत्नावली ॥ * ॥ समाधिलक्षणं यथा, गारुडे ४४ अध्याये । “नित्यं शुद्धं बुद्धियुक्तं सत्यमानन्दमद्वयम् । तुरीयमक्षरं ब्रह्म अहमस्मि परं पदम् । अहं ब्रह्मेत्यवस्थानं समाधिरिति गीयते ॥” वस्त्वनवलम्बनेनापि चित्तवृत्तेः सविकल्पानन्दा- स्वादनं रसास्वादः । समाध्यारम्भसमये सवि- कल्पानन्दास्वादनं वा । ४ । अनेन विघ्नचतु- ष्टयेन रहितं चित्तं निर्व्वातदीपवदचलं सद- खण्डचैतन्यमात्रमवतिष्टते यदा तदा निर्व्वि- कल्पकः समाधिरित्युच्यते ॥ * ॥ तदुक्तम् । “लये सम्बोधयेत् चित्तं विक्षिप्तं शमयेत् पुनः । सकषायं विजानीयात् शमप्राप्तं न चालयेत् ॥ नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत् ॥” इत्यादि । यथा दीपो निवातस्थो नेङ्गते इत्यादि च । इति श्रीसदानन्दयोगीन्द्रविरचित- वेदान्तसारः ॥ (स्वनामख्यातवैश्यविशेषः । अयं हि महामायामाराध्य परं ज्ञानमलभत् । अस्य विशेषवृत्तान्तस्तु देवीमाहात्म्यतो द्रष्टव्यः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधि पुं।

अङ्गीकारः

समानार्थक:संविद्,आगू,प्रतिज्ञान,नियम,आश्रव,संश्रव,अङ्गीकार,अभ्युपगम,प्रतिश्रव,समाधि,अभ्युपपत्ति,अनुग्रह

1।5।5।2।4

संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रयाः। अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

समाधि पुं।

मनोनिग्रहः

समानार्थक:समाधि

3।3।98।1।1

स्युः समर्थननीवाकनियमाश्च समाधयः। दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

समाधि पुं।

समर्थनम्

समानार्थक:समाधि

3।3।98।1।1

स्युः समर्थननीवाकनियमाश्च समाधयः। दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे॥

पदार्थ-विभागः : , गुणः, शब्दः

समाधि पुं।

धान्यादिसञ्चयः

समानार्थक:नीवाक,प्रयाम,समाधि

3।3।98।1।1

स्युः समर्थननीवाकनियमाश्च समाधयः। दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे॥

पदार्थ-विभागः : समूहः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधि¦ पु॰ सम् + आ + धा--कि।

१ समाधायां ध्येयवस्तुनिएकाग्रतया मनसःस्थापनरूपे

२ ध्यानभेदे

२ वचनाभावे

४ नियमे च अमरः। ध्यानभेदश्च समाधिः यथोक्तं पात॰सू॰
“तत्र प्रत्ययैकतानता ध्यानम्” सू॰
“तस्मिन् देशेध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशप्रवाहः प्रत्ययान्त-रेणापरामृष्टो ध्यानम्” भा॰
“तदेवार्थमात्रनिर्भासं स्वरू-पशून्यमिव समाधिः” सू॰
“ध्यानमेव ध्येयाकारनिर्भासंप्रत्ययात्मकेन स्वरूपेण शृन्यमिव यदा भवति ध्येयस्व-भावावेशात्तदा समाधिरित्युच्यते” भा॰
“व्यानसाध्यंसमाधिं लक्षयितुं व्याचष्टे ध्यानमेवेति। ध्येया-कारनिर्भासमिति ध्येयाकारस्य निर्भासो न ध्याना-कारस्येति अतएवाह शून्यमिति। ननु शून्यं चेत्कथं ध्येयप्रकाशक इत्यत आह इवेति। अत्रैव हेतु-माह ध्येयस्वभावावेशादिति। अत्रापि पुराणम्
“तस्यैवकल्पनाहीनं स्वरूपग्रहणं हि यत्। मनसा ध्याननि-ष्पाद्यं समाधिः सोऽभिधीयते” इति। ध्येयात् ध्यानस्यभेदकल्पना तद्धीनमित्यर्थः” विवर॰। एकाग्रतात्मकसमाधिलक्षणं पुराणान्तरोक्तं यथा
“नित्यं शुद्धं बुद्धियुक्तं सत्यमानन्दमद्वयम्। तुरीय-मक्षरं ब्रह्म अहमस्मिपरं परं पदम्। अहंब्रह्मेत्यव-स्थानं समाधिरिति गीयते” गारुडे

४४ अ॰।
“द्वादश-ध्यानपर्य्यन्तं मनो ब्रह्मणि यो नरः। तुष्येत संयतोमुक्तः समाधिः सोऽभिधीयते। ध्येयमेव हि सर्वत्रध्याता तल्लयतां गतः। पश्यति द्वैतरहितं समाधिःसोऽभिधीयते”

२४

० अ॰।
“इमं गुणसमाहारमनात्मत्वेनपश्यतः। अन्तःशीतलता यस्य समाधिरिति कथ्यते” योगवाशिष्ठे उपशमप्रक॰।

५ अर्थालङ्कारभेदे अलङ्का-रशब्दे

४०

६ पृ॰ दृश्यम्।

६ इन्द्रियनिरोधे शब्दर॰।

७ काव्यगुणभेदे मेदि॰
“श्लेषः प्रसादः समता माधुर्य्यंसुकुमारता। अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः। इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः। एषां विपर्य्ययः प्रायो दृश्यते गौडवर्त्मनि” काव्याद॰तस्यौजस्यन्तर्भावः सा॰ द॰ उक्तो यथा
“श्लेषः समाघिरौ-दार्य्यं प्रसाद इति ये पुनः। गुणश्चिरन्तनैरुक्ता ओज-स्यन्तभवन्ति ते”। समाधिरारोहावरोहक्रमरूपः। [Page5232-a+ 38] आरोह उत्कर्षः। अवरोहीऽप्रकर्षस्तयोः क्रमो वैर-स्यानावहो विन्यासः। यथा
“चञ्चद्भुजेत्यादि”। अत्रपादत्रये क्रमेण बन्धस्य गाढता। चतुर्थपादे त्रपकर्षः”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधि¦ m. (-धिः)
1. Deep and devout meditation, restraining the senses and confining the mind to contemplation on the true nature of spirit, &c.
2. A religious vow or obligation.
3. Silence.
4. Promise, assent, engagement.
5. Composing or reconciling differences, put- ting a stop to a dispute.
6. Requital, return, retaliation.
7. At- tempting impossibilities; exertion or perseverance in extreme difficulties.
8. Storing corn on account of a dearth.
9. A Jaina saint of a future age.
10. A figure of rhetoric; connection or proximity of two events accidentally connected, and expressed by a common verb and the government of the verb by a double nominative, as उत्कण्ठिता च कुलटा जगामास्तञ्च भानुमान् the disloyal woman went sorrowfully, and the sun (went) down.
11. Collection, combination.
12. Demonstrated conclusion.
13. The joint of the neck.
14. A tomb, a grave. E. सम् together, धा to have or hold, with आङ् prefix, and कि aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधिः [samādhiḥ], 1 Collecting, composing, concentrating (as mind).

Profound or abstract meditation, concentration of mind on one object, perfect absorption of thought into the one object of meditation, i. e. the Supreme Spirit, (the 8th and last stage of Yoga); व्यवसायात्मिका बुद्धिः समाधौ न विधीयते Bg.2.44; आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति Ku.3.4,5; Mk.1.1; Bh.3.54. R.8.79; Śi.4.55.

Intentness, concentration (in general), fixing of thoughts; यथा भानुगतं तेजो मणिः शुद्धः समाधिना । आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥ Mb.12.298.12; तस्यां लग्नसमाधि (मानसम्) Gīt.3; अहःसु तस्या हृदि ये समाधयः Rām. ch.2.41.

Penance, religious obligation, devotion (to penance); अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् Ś1; तपः- समाधि Ku.3.24; अथोपयन्तारमलं समाधीना 5.24;5.6;1.59; सर्वथा दृढसमाधिर्भव Nāg.5.

Bringing together, concentration, combination, collection; union, a set; सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यम् Rām.4.33.5; तं वेधा विदधे नूनं महाभूतसमाधिना R.1.29.

Reconciliation, settling or composing differences.

Silence.

Agreement, assent, promise.

Requital.

Completion, accomplishment.

Perseverance in extreme difficulties.

Attempting impossibilities.

Laying up corn (in times of famine), storing grain.

A tomb.

The joint of the neck; a particular position of the neck; अंसाववष्टब्धनतौ समाधिः Ki.16.21.

(In Rhet.) A figure of speech thus defined by Mammaṭa; समाधिः सुकरं कार्यं कारणान्तरयोगतः K. P.1; see S. D.614.

One of the ten Guṇas or merits of style; अन्यधर्मस्ततो$न्यत्र लोकसीमानुरोधिना । सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ Kāv.1.93.

A religious vow or self-imposed restraint.

Support, upholding. -Comp -भङ्गः interruption of meditation. -भृत् a. absorbed in meditation.

योगः employment of meditation.

the efficacy of contemplation. -विग्रहः embodiment of meditation. -स्थa. absorbed in meditation or contemplation.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समाधि/ सम्-आधि m. putting together , joining or combining with( instr. ) La1t2y.

समाधि/ सम्-आधि m. a joint or a partic. position of the neck Kir.

समाधि/ सम्-आधि m. union , a whole , aggregate , set R. Hariv. Ragh.

समाधि/ सम्-आधि m. completion , accomplishment , conclusion Kum.

समाधि/ सम्-आधि m. setting to rights , adjustment , settlement MBh.

समाधि/ सम्-आधि m. justification of a statement , proof Sarvad.

समाधि/ सम्-आधि m. bringing into harmony , agreement , assent W. RPra1t.

समाधि/ सम्-आधि m. intense application or fixing the mind on , intentness , attention( धिं-कृ, " to attend ") MBh. R. etc.

समाधि/ सम्-आधि m. concentration of the thoughts , profound or abstract meditation , intense contemplation of any particular object (so as to identify the contemplator with the object meditated upon ; this is the eighth and last stage of योग[lW. 93] ; with Buddhists समाधिis the fourth and last stage of ध्यानor intense abstract meditation [ MWB. 209 ] ; in the कारण्ड-व्यूहseveral -S समाधिare enumerated) Up. Buddh. MBh. etc.

समाधि/ सम्-आधि m. intense absorption or a kind of trance MBh. Ka1v. etc.

समाधि/ सम्-आधि m. a sanctuary or tomb of a saint W. RTL. 261

समाधि/ सम्-आधि m. (in rhet. )N. of various figures of speech (defined as आरोहा-वरोहक्रम, अर्थ-दृष्टि, अन्य-धर्माणाम् अन्यत्रा-धिरोहणetc. ), Ka1vya7d. Va1m. Kpr. etc.

समाधि/ सम्-आधि m. N. of the 17th कल्प(See. ) , of the 17th अर्हत्of the future उत्सर्पिणीL.

समाधि/ सम्-आधि m. of a वैश्यCat. ( accord. to L. also " silence ; a religious vow of intense devotion or self-imposed abstraction ; support , upholding ; continuance ; perseverance in difficulties ; attempting impossibilities ; collecting or laying up grain in times of dearth ")

समाधि/ सम्-आधि m. attentive R.

समाधि/ सम्-आधि m. making a promise or assent or permission W.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--honourable or आर्यम्, explained by ययाति to अष्टक; फलकम्:F1: M. ४१. 4: वा. १०४. २५.फलकम्:/F भृगु in समाधि. फलकम्:F2: M. १९३. २६.फलकम्:/F

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAMĀDHI : The state when the soul (ātmā) and the mind become one. When the soul and the mind mingle with each other as salt and water, it is Samādhi (contemplation). (For more details see under Yoga.


_______________________________
*2nd word in left half of page 676 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=समाधि&oldid=505355" इत्यस्माद् प्रतिप्राप्तम्