समास

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समासः, पुं, (सम् + अस् + घञ् ।) संक्षेपः । (यथा, मनुः । ७ । २०२ । “सर्व्वेषान्तु विदित्वैषां समासेन चिकीर्षितम् । स्थापयेत् तत्र तद्बंश्यं कुर्य्याच्च समयक्रियाम् ॥”) समर्थनम् । इति मेदिनी ॥ समाहारः । इति हलायुधः ॥ एकपद्यम् । इति हेमचन्द्रः ॥ सम- सनं पदयोः पदानां वा एकपदीकरणं समासः । इति संक्षिप्तसारव्याकरणम् ॥ स च षड्विधः । द्वन्द्बः १ बहुव्रीहिः २ कर्म्मधारयः ३ तत्पुरुषः ४ द्विगुः ५ अव्ययीभावः ६ । तेषां लक्षणं यथा । भिन्नान्यैकार्थद्व्यादिसंख्याव्यादीनां च-ह- य-ष-ग-वाः । इति मुग्धबोधव्याकरणम् ॥ * ॥ अपि च । “नाम्नां समासो युक्तार्थस्तत्स्था लोप्या विभ- क्तयः ॥” इति वैयाकरणाः ॥ तस्य समान्यलक्षणं यथा । अभिधानाश्रितलोपाभाववदन्यमध्यवर्त्तिविभक्ति- शून्यनाम-समुदायत्वं समासत्वम् । तत्र कर्म्म- धारय-द्बिगुतत्पुरुष-बहुव्रीहि-द्बन्द्बाव्ययीभावाः षट् समासा भवन्ति । तत्र कर्म्मधारयत्वं समास- नियतलक्षणाशून्यासंज्ञास्थसंख्यावाचक पूर्व्वपद- कान्यमध्यवर्त्तिविभक्तिशून्यतुल्याधिकरणपदसमु- दायत्वम् । यथा नीलोत्पलमित्यादि ॥ १ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समास¦ पु॰ सम् + अस--घञ्।

१ संक्षेपे

२ समर्थने मेदि॰।

३ समाहारे

४ व्याकरणोक्ते द्व्यादिपदानामेकपदतासम्पादकेपदसाधुतार्थके

५ संस्कारभेदे च यथा
“समर्थः पदविधिः” पा॰
“समर्थः संसृष्टार्थः सङ्गतार्थ इति यावत्। सामर्थ्यञ्च द्विविघम् व्यपेक्षावत्त्वमेकार्थीभावश्च। तत्र स्वार्थव-र्य्यवसायिपदानामाकाङ्क्षादिवशात् यः परस्परं सम्बन्धः साव्यपेक्षा। राज्ञः पुरुषैत्यादौ वाक्ये सत्यामाकाङ्क्षायांयो यो यस्मिन् सन्निहितो योग्यश्च स तेन तेन सम्ब-ध्यते यथा राज्ञः पुरुषोऽश्वश्च राज्ञो देवदत्तस्य च पुरुषःऋद्धस्य राज्ञोऽश्वो धनञ्चेत्यादि। वृत्तौ तु नैवम् वृत्तीना-[Page5233-a+ 38] मेकार्थीभावात्। एकार्थीभावश्च विशेष्यविशेषणभावाव-नाह्येकोपस्थितिजनकत्वम्। तथा च राजपुरुषादिश-ब्देन विशिष्टैकार्थबोधकतया न तदैकदेशे ऋद्धादेरन्वयःपुरुषांशे विशेषणतयोपस्थितस्य नाश्वादिसम्बन्धिता रा-जादीनाम् जनितान्वयाच्च निराकाङ्क्षतया न देवदत्तादेःस्वामितया पुरुषादावन्वय इति द्रष्टव्यम्। देवदत्तस्य गु-रुकुलमित्यादौ देवदत्तादेस्तु प्रधानीभूतकुलादिनैवान्वयःसम्बन्धस्तूपस्थितगुरुद्वारक एव षष्ठ्यर्थः यथोक्तं हरिणा
“समुदायेन सम्बन्धो येषां गुरुकुलादिना। संस्पृशाव-यवास्ते तु युज्यन्ते तद्वता सह” इति। यद्वा सम्बन्धि-शब्दार्थस्य पदार्थैकदेशत्वेऽपि भवत्येव केषाञ्चित् सम्ब-न्धान्वयः तदुक्तं तेनैव
“सम्बन्धिशब्दः सापेक्षो नित्यंसर्वं समस्यते। वाक्यवत् सा व्यपेक्षापि वृत्तावपि नहीयते”। अतएव वार्त्तिककृता
“सविशेषणानां वृत्तिर्नवृत्तस्य वा विशेषणं न प्रयुज्यत इति वक्तव्यमिति” सा-मान्यतो वृत्तिमतो विशेषणस्य स्वातन्त्र्येण प्रयोगाभाव-मभिधाय
“अगुरुकुलपुत्रादीनां वक्तव्यम्” इत्यनेन गुरु-कुलगुरुपुत्रादीनां विशेषणत्वेऽपि पृथक्प्रयोगाय नञापर्युदासः कृतः। समानाधिकरणविशेषणस्य तु
“समा-नाधिकरणमसमर्थवद्भवतीत्यनेन सर्वथा स्वातन्त्र्येणसामर्थ्याभावात् प्रयोगाभावो भङ्ग्याऽभिहितः। एत-न्मूलकमेव प्राचां गाथा
“सापेक्षे प्रत्ययो न स्यात्समासो वा कथञ्चन। सापेक्षं तद्विजानीयादसमस्तवि-शेषणम्। प्रतियोगिपदादन्यत् यदन्यत् कारका-दपि। वृत्तिशब्दैकदेशस्य सम्बन्धस्तेन नेष्यते” इति। अत्रायं विशेषः भवति प्रघानस्य सापेक्षत्वेऽपि समासइत्युक्तेः प्रधानस्य वृत्त्युपस्थाप्यविशेष्यस्य राजपुरुषादेःसुन्दरादिविशेषणापेक्षायामपि समासः। समासे चाव-यवशक्त्यैव तत्तदर्थपदार्थोपस्थित्या विशेष्यविशेषणभावा-द्यभ्युपगमे सापेक्षत्वादौ समासाभावादिकं वाचनिकंकल्प्यम् तथान्याप्यधिककल्पना स्यादतः समुदायशक्ति-कल्पनम् यथोक्तं हरिणा
“बहूनां वृत्तिधर्माणां वचनैरेवसाधने। स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः। चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम्। कर्त्तव्यं तेन्यायसिद्धं त्वस्माकं तदिति स्थितमिति”। तथाहि द्व-णादिविग्रहवाक्ये चकारादि प्रयुज्यते समस्ते तु नतत्र वचनैरेव तन्निषेधः कल्पनीयः समुदायशक्तिपक्षे तुउक्तार्थानामप्रयोग इत्युक्तन्यायादेव सिद्धम्। नामार्थयो-[Page5233-b+ 38] रमेदान्वयः कॢप्तः स च राजपदादुपस्थापितराजादेःपुरुषे स्वस्वामिभावसम्बन्धेनान्वये परित्यक्तः स्यात्। सम्बन्धलक्षणायान्तु किमपराद्धम् विशिष्टलक्षणया। प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थः प्रधानमिति नियमश्च कॢप्तःस च प्राप्तानन्दादौ भज्येत आनन्दकर्तृकप्राप्तिकर्मेत्यर्थ-बोधस्योभयसम्मतत्वेन कर्तृविहितक्तान्तार्थस्य कर्त्तुर्विशेष्यतौचित्येन प्रकृते तद्वैपरीत्यात् आनन्दसम्बन्ध्यादिलक्ष-णास्वीकारे समुदायशक्तिपक्षे एव प्रवेशः। तथा प्राप्तआनन्दो यमिति विग्रहे आनन्दादौ अत्यन्तादिविशेषण-योगवत् समासे तद्वारणाय वृत्तस्य न विशेषणयोग इतिवाचनिकत्वकल्पनाऽधिका एतन्मते न्यायसिद्धा इत्यादिबहुविप्लवापत्तिरतः समुदाये शक्तिरित्यन्यत्र विस्तरः। वार्त्तिककृता तु अवश्यं कस्यचित् नञ्समासस्यासमर्थ-समासस्य गमकस्य साधुत्वं वक्तव्यमित्युक्तत्वात् असूर्यम्-पश्येत्यादौ असमर्थेन नञा बाणेन हतमारीचो रामइत्यादौ वाणादेर्विग्रहार्थस्य गमकवृत्तौ सापेक्षत्वेऽपितदर्थबोधकतयैव समास इति द्रष्टव्यम्” मत्कृतसरला
“पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः” सि॰ कौ॰
“पदस्य पदयोः पदानां वा विधिः पदविधिरिति वचन-विशेषस्याविवक्षितत्वं द्योतयन्नाह पदसम्बन्धीति। तत्रपदेति किम् वर्णाश्रये कार्य्येऽसमर्थेऽपि यथा स्यात् तथाच तिष्ठतु दधि आनयान्नमित्यत्र दध्यानयेति पदयोःसामर्थ्याभावेऽपि वर्णाश्रयं यणादिकं भवत्येव। मूत्रेसमर्थपदं साक्षणिकमिति द्योतयन्नाह समर्थाश्रित इतिसमर्थेति किं पश्यति कृष्णं श्रितो राममित्यादौ समासोमा भूत् वस्त्रं कृष्णस्य अपत्यं देवदत्तस्येत्यादौ मा भूच्चकृष्णशब्दादपत्यार्थकतद्धितः। इयञ्च परिभाषा समासकृत्-तद्धितादिवृत्तिमात्रे प्रवर्त्तते इति बोध्यम्” मत्कृतसरला। स च समासः षड्विधः।
“सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा। सुबन्तेनेति च ज्ञेयः समासः षड्विघो बुधैः” (सुपांसुपा) पदद्वयमपि सुबन्तम्। राजपुरुष इत्यादिः। (सुपां तिङा)। पूर्वषदं सुवन्तमुत्तरं तिङन्तम्। पर्य्य-भूषयत्।
“गतिमतोदात्तवता तिङापि समासः” इतिवार्त्तिकात् समासः। (सुपां नाम्ना) कुम्भकार इत्यादि।
“उपपदमतिङि” ति समासः। स च
“गतिकारकोपपदानांकृद्भिः समासवचनं पाक् सुबुत्पत्तेरिति” परिभाषयाभवति सुबुत्पत्तेः प्राक्। अत्रोत्तरपदे सुबत्पत्तेः प्रागि-[Page5234-a+ 38] त्यर्थः। अन्यथा चर्मक्रीतीत्यादौ नलोपानुपपत्तेः। (सुपां धातुना) उत्तरपदं धातुमात्रं न तिङन्तम्। कटप्रूः आयतस्तूः।
“क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजु-श्रीणां दीर्घश्चेति” वार्त्तिकात् समासः।
“तिङां तिङा” पिवतखादता। पचतभृज्जतेत्यादि।
“आख्यातमाख्या-तेन क्रियासातत्ये” इति मयूरव्यंसकाद्यन्तर्गणसूत्रात्समासः
“तिङां सुवन्तेन” पूर्वपदं तिङन्तमुत्तरं सुबन्तम्। जहिस्तम्बः।
“जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्त्तार-ञ्चाभि दधातीति” मयूरव्यं सकाद्यन्तर्गणसूत्रात् समासः। अयं षड्विधोऽपि समास,
“सह सुपा” इत्यत्र योगवि-भागेन भाष्ये व्युत्पादितः स्पष्टः शब्दकौस्तुभादौ। स्वयंभाष्यादिसिद्धतद्भेदं व्युत्पाद्य प्राचीनवैयाकरणोक्तविभाग-स्याव्याप्त्यादिभिस्तल्लक्षणस्य प्रायिकत्वं दर्शयति”।
“समासस्तु चतुर्द्धेति प्रायोवादस्तथाऽपरः। योऽयं पूर्व-पदार्थादिप्राधान्यविषयः स च। भौतपूर्व्यात् सोऽपिरेखागवयादिवदास्थितः”। चतुर्धा अव्ययीभावतत्पुरुष-द्वन्द्वबहुब्रीहिभेदात्। अयं प्रायोवादः। भूतपूर्वःदृन्भूः अयतस्तूः वागर्थाविवेत्याद्यसंग्रहात्। तथा पूर्व-पदार्थप्रधानोऽव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषःसर्वपदार्थप्रधानो द्वन्द्वः। अन्यपदार्थप्रधानो बहुव्रीहि-रित्यादि लक्षणमपि प्रायिकम्। उन्भत्तगङ्गं सूपप्रतिअर्द्धपिप्पली द्वित्राः कुशपलाशमित्यादौ परस्परव्यभि-चारात्। तथाहि उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थ-प्रधान्याद्बहुब्रीहिलक्षणातिव्याप्तिरव्ययीभावलक्षणाव्या-प्तिश्च।
“अन्यपदार्थे च संज्ञायामिति” पा॰ समासः। सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्राधान्यात् तत्पुरुषलक्ष-णातिव्याप्तिरव्ययीभावाव्याप्तिश्च।
“सूपः प्रतिना मा-त्रार्थे” पा॰ समासः। अर्द्धपिप्पलीति तत्पुरुषे पूर्व-पदार्थप्राधान्यसत्त्वादव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च
“अर्द्धं नपुंसकमिति” पा॰ समासः। एवं पूर्वकायइत्यादौ द्रष्टव्यम्। द्वित्रा इति बहुव्रीहावुभयपदार्थ-प्राधान्यात् द्वन्द्वातिव्याप्तिः बहुव्रीह्यव्याप्तिश्च। शशकुशप-लाशमित्यादिद्वन्धे समाहाराव्यपदार्थप्राधान्याद्वहुव्रीह्य-तिव्याप्तिर्द्वन्द्वाव्याप्तिश्च स्यादिति भावः। सिद्धान्ते त्वव्ययी-मावाधिकारपठितत्वमव्ययीभावत्वमित्यादि द्रष्टव्यम्। असम्भवश्चैषामित्याह भौतपूर्व्यादित्यादि। रेखागवया-दिनिष्ठलाङ्गूलादेर्वास्तवपश्वलक्षणत्ववदेतेषामपि न समास-लक्षणत्वम्। बोधकता तु तद्वदेव स्यादिति भावः” वैया॰। [Page5234-b+ 38] शब्दशक्तिप्रकाशिकायाम् अन्यथा समासलक्षणादिकमुक्तंयथा
“यादृशस्य महावाक्यत्यान्तस्त्वादिर्निजार्थके। यादृ-शार्थस्य धीहेतुः स समासस्तदर्थकः”।
“यादृशमहावाक्यो-त्तरस्त्वतलादिः स्वार्थस्य यादृशार्थावच्छिन्नविषयताशालि-बोधे हेतुस्तावृशं तद्वाक्यं तथाविधार्थे समासः। पाच-कादिकन्तु पाककर्त्राद्यर्थकं वाक्यमपि स्वघटकालेकनामल-र्भ्यतादृशार्थकत्वविरहान्न महावाक्यं प्रकृत्यर्थमात्रावच्छि-न्नप्रत्ययार्थस्यान्वयबोर्ध प्रत्ययोग्यत्वं वा प्रकृते वाक्यस्यमहत्त्वं वाच्यं तेन उपकुम्भादौ नाव्याप्तिर्न वा नील-घटत्वत्वमित्यादौ नीलघटत्वादिभागेऽतिप्रसङ्गः। क्षीर-पायीत्यादिकस्तु प्रकृत्यर्थावच्छिन्नकृदर्थस्यान्वयबोध समर्थोऽपि न प्रकृत्यर्थमात्रावच्छिन्नस्य ततः पानशीलसामान्य-स्याप्रत्ययात्। राजन्येव पुरुषभावः प्रतीयते न तु राज-पुरुषस्य भावः तद्धितानां प्रकृत्यर्थमात्रान्वितस्वार्थबोधक-त्वादतो राज्ञः पुरुषेत्यादिभागे न प्रसङ्गः। पायं पाय-मित्यादिणमन्तभागस्तु स्वार्थावच्छिन्नस्य धात्वन्तरार्थ-स्यैवान्वयबोधको न तु त्वादिप्रत्ययार्थस्य प्रस्थायेत्यादौसमासव्यपदेशोल्यवादिशब्दसंस्कारप्रयोजनको गौणः” विभजते
“स चायं षड्विधः कर्मधारयादिप्रभेदतः। यश्चोपपदसंज्ञोऽन्यस्तेनासौ सप्तधा मतः।
“स चार्यःनिरुक्तसमासः कर्मधारयद्विगुतत्पुरुषाव्ययीभावबहुव्री-हिद्वन्द्वभेदात् षड्विधः यश्च कुम्भकारादिरप्युपपदसंज्ञकःसमासोऽस्ति तेन समं समासः सप्तविधः। सङ्काशनिभ-नीकाशादीनामिव कारादीनामपि शब्दानामुपपदार्था-न्वितस्यैव स्वार्थस्य बोधकतया तथाविधनामान्तत्वमेवचैतस्य समासान्तराद्विशेषः। ननु यदि षड्विधः सप्त॰विधो वा समासस्तदास्य पञ्चविधत्वोक्तिः प्राचामसङ्गतेत्यत-स्तामुपपादयति”।
“पूर्वमध्यान्तसर्वान्यपदप्राधान्यतःपुनः। प्राच्यैः पञ्चविधः प्रोक्तः समासो वाभटादिभिः।
“कश्चित्समासः पूर्वपदार्थधर्मिकान्वयबोधजनकतया पूर्व-पदप्रधान उच्यते यथा प्राप्तजायार्द्धपिप्पलीपूर्वकायादि-कस्तत्पुरुषः यथा वा उपकुम्भाद्यव्ययीभावः पुरुषसिं-हादिकर्मधारयश्च। कश्चिन्मध्यपदार्थधर्मिकधीजनकतयैवमध्यपदप्रधानो यथा पटानधिकरणप्रतियोगिताभवच्छेद-केत्यादिकस्तत्पुरुषः पटस्य नाधिकरणमित्यादिविग्रहेमध्यपदार्थस्यैव विशेष्यत्वात् बहुपदे बहुव्रीहिरेवेत्यस्ततत्पुरुषादेर्बहुनामगर्भत्वाभावे तात्पर्य्यमित्यग्रे व्युत्पाद्य-त्वात्। कश्चिदन्त्यपदार्थधर्मिकधीहेतुत्वादन्त्यपदप्रधानः[Page5235-a+ 38] यथा राजपुरुषादिकस्तत्पुरुषो नीलोत्पलादिकः कर्मधा-रयो द्विगार्ग्यादिरव्ययीभावश्च। कश्चित् सर्वपदार्थधर्मि-कबुद्धिहेतुत्वात् सर्वपदप्रधानः यथेतरेतरद्वन्द्वो द्वन्द्वमात्रंवा। कश्चित् स्वघटकान्यपदार्थधर्मिकज्ञानजनकत्वादन्य-पदार्थप्रधानः यथा बहुव्रीहिः{??}यवाद्यव्ययीभावम्। तदेवं पञ्च भेदानादायैव पञ्चविधत्वं प्राच्यैरुक्तमतो नविरोधः। नित्यानित्यभेदेन समासस्य द्वैबिध्यमप्यस्तियदुक्तं जयादित्येन
“विभक्तिमात्रप्रक्षेपान्निजान्तर्गतनामसु। स्वार्थस्याबोधवोधाभ्यां नित्यानित्यौ समासकाविति। ” स्वान्तर्गतनामसु विभक्तिमात्रप्रक्षेपेण यल्लभ्यार्थस्थाबोधःस नित्यः समासः यथा कृष्णसर्पनिर्मक्षिकासुराढिः कृष्णःसर्पो मक्षिकाया निः न सुर इत्यादितस्तल्लभ्यस्य वैजा-जात्यादेरग्रहात्। यल्लभ्यस्य च बोधः सोऽनित्यो यथाराजपुरुषपूर्वकायादिः तल्लभ्यार्थस्य राज्ञः पुरुषः पूर्वंकायस्येत्यादिवाक्यादपि प्रतीतेः। स्कुरद्वाणी चलच्चैत्रइत्यादिकः कर्मधारयोऽप्यनित्य एव समासः स्फुरन्तीवाणीत्यादिविग्रहस्य वाण्यादौ स्फुरदादिविधेयकबोधा-जनकत्वेऽपि स्फुरदभिन्नवाण्यादावेकत्वादिबोधकत्वमादा-यैव तदर्थप्रकाशकत्वात् स्फुरन्तीं बाणीमित्यादिवाक्य-स्यैव तत्र विग्रहत्वसम्भवाच्च। विग्रह एव समासलभ्यार्थस्यमोधकत्वं तन्त्रं न तु समासे विग्रहार्थस्य। विग्रहलभ्य-योर्लिङ्गसङ्ख्ययोर्व्यञ्जकवैधुर्य्येण प्रायशः समासाबोध्य-त्वात्। अतएव यत्र समासे तयोर्व्यञ्जकसद्भावस्तत्राव-नमोऽपि यथा जरतीचित्रगुर्जनः प्रियतिसा पुरुष इ-त्वादौ स्त्रीत्वस्य स्त्राप्रत्ययति{??}देशयोस्तदभिव्यञ्जकयोःसत्त्वात् तथा भक्षपरि{??} हस्त्यश्वमित्यादावेकत्वादेः अक्षशलाकयारेकत्व एवान्ययीभावस्य युष्मदस्मदो-र्द्वित्व एव युवाद्यादेश{??} सेनाङ्गानां बहुत्व एव समा-हारद्वन्द्वस्य विधानात्। तदुक्तमभियुक्तैः
“लङ्ख्या तुव्यञ्जकाभावादव्यक्ता प्रातरादिवत्। यत्र तु व्यञ्जककिञ्चित्तत्र सङ्ख्या प्रकाशते। शलाकापरि हस्त्यश्वं पूर्व-कायोऽर्द्धपिप्पलीति”। पूर्वादेरर्द्धस्य च ङसर्थैकत्वमन्त-र्भाव्यैवावयविना तत्पुरुषस्य व्युत्पन्नत्वात् सरसिजादौकण्ठेकालादौ चालुक् समासे सुपः सङ्ख्यावगमेऽपिन क्षतिः तत्र व्यञ्जकसुपः सत्त्वेऽपि सङ्ख्या न बुध्यतेइति समानशक्तिवादिनः पातञ्जलाः”। अधिकं तत्र दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समास¦ m. (-सः)
1. Contraction, abridgment, conciseness.
2. Composition of words, formation of compound terms, (in grammar.)
3. Com- position of differences, reconciling quarrels.
4. Aggregation. assemblage, collection.
5. Whole. E. सम् together, अस् to throw or direct, aff. घञ् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समासः [samāsḥ], 1 Aggregation, union, composition.

Composition of words, a compound; (the principal kinds of compounds are four: द्वन्द्व, तत्पुरुष, बहुव्रीहि, and अव्ययीभाव q. q. v. v.).

Reconciliation, composition of differences.

A collection, an assemblage; यद्वविज्ञात- मिवाभूदित्येतासामेव देवतानां समासः Ch. Up.6.4.7.

Whole, totality.

Contraction, conciseness, brevity; एष समासः । सर्वथा प्रवेष्टव्यं कुन्तिभोजस्य कन्यापुरम् Avimārakam 2; एष समासः, अद्यास्मि महासेनः Pratijñā.2.

Euphonic combination (संधि).

Completion, end; L. D. B. (समासेन, समासतः means 'in short', 'briefly', 'succinctly'; एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता Ms.2.25;3.2; इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः Bg.13.18; समासतः श्रूयताम् V.2.)-Comp. -अध्याहारः supplying an ellipsis in a compound.-अर्था a part of a stanza proposed to be completed (= समस्या q. v.). -उक्तिः f. a figure of speech thus defined by Mammaṭa: परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः K. P.1.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समास/ सम्-आस m. (for 2. See. सम्-आस्)throwing or putting together , aggregation , conjunction , combination , connection , union , totality( एन, " fully , wholly , summarily ") Br. S3rS. Mn. etc.

समास/ सम्-आस m. succinctness , conciseness , condensation( ibc. and -तस्, " concisely , succinctly , briefly ") KaushUp. Mn. MBh. etc.

समास/ सम्-आस m. (in gram.) composition of words , a compound word (of which there are accord. to native grammarians , 6 kinds , viz. द्वंद्व, बहु-व्रीहि, कर्म-धारय, तत्-पुरुष, द्विगु, and अव्ययor अव्ययी-भाव[qq. vv.] ; an improper compound is called अस्थान-समास) Pra1t. Pa1n2. etc.

समास/ सम्-आस m. euphonic combination(= संधि) VPra1t.

समास/ सम्-आस m. (in astron. ) a partic. circle Su1ryas.

समास/ सम्-आस m. composition of differences , reconciliation( -समर्थन) L.

समास/ सम्-आस m. the part of a श्लोकgiven for completion(= समस्या) L.

समास/ सम्-आस (for 1. See. under सम्-अस्) m. abiding together , connection MW.

"https://sa.wiktionary.org/w/index.php?title=समास&oldid=398202" इत्यस्माद् प्रतिप्राप्तम्