सम्बन्धी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्बन्धी, [न्] त्रि, (सम्बन्धोऽस्यास्तीति । इनिः ।) सम्बन्धविशिष्टः । तत्पर्य्यायः । गुणवान् २ संयुक् ३ । इति त्रिकाण्डशेषः ॥ (यथा, मनुः । ८ । ६४ । “नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टदोषाः कर्त्तव्या न व्याध्यार्त्ता न दूषिताः ॥” पुं, मातृपक्षीयः । श्वशुरादिः । जामाता । श्यालकादिः । यथा, मनुः । २ । १३२ । “विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्धियोषितः ॥” “ज्ञातयः पितृपक्षाः पितृव्यादयः । सम्बन्धिनो मातृपक्षाः श्वशुरादयश्च तेषां ज्येष्ठानां या स्त्रियः ।” इति कुल्लूकभट्टः ॥ * ॥ तथाच मनुः । ४ । १७९ । “बालवृद्धातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः ॥” “ज्ञातयः पितृपक्षाः । सम्बन्धिनो जामातृश्याल- कादयः ।” इति तट्टीकायां कुल्लूकः ॥ * ॥ वैवाहिकः । यथा, उत्तरचरिते । ४ अङ्के । “स सम्बन्धी श्लाघ्यः प्रियसुहृदसौ तच्च हृदयं स चानन्दः साक्षादपिच निखिलं जीवितपदम् ॥” मित्रम् । इति मल्लिनाथः ॥ यथा, रघुः । २ । ५८ । “तद्भूतनाथानुग नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सम्बन्धी&oldid=175008" इत्यस्माद् प्रतिप्राप्तम्