सरसिजम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरसिजम्, क्ली, (सरसि जायते इति । जन + डः । सप्तम्या अलुक् ।) पद्मम् । इति राजनिर्घण्टः ॥ (यथा, शाकुन्तले १ अङ्के । “सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥” सरोवरजाते, त्रि । यथा, सुश्रुते । १ । ४६ । “अधस्ताद्गुरवो ज्ञेया मत्स्याः सरसिजाः स्मृताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सरसिजम्&oldid=175167" इत्यस्माद् प्रतिप्राप्तम्