सर्प

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पः, पुं, (सृप्यते इति । सृप + घञ् ।) नाग- केशरः । इति रत्नमाला ॥ (सृप + भावे घञ् ।) गमनम् । इति सृपधात्वर्थदर्शनात् । (सर्पति इतस्ततो गच्छतीति । सृप + अच् ।) श्मश्रु- धारी म्लेच्छजातिविशेषः । पुरा अयं क्षत्त्रिय आसीत् । सगरराजेन अस्य वेदयागादौ अन- धिकारित्वं कृत्वा वेशान्यत्वं धर्म्मनाशञ्च चकार । यथा, महाभारते हरिवंशे २४ अध्याये । “सगरः स्वां प्रतिज्ञान्तु गुरोर्व्वाक्यं निशम्य च । धर्म्मं जघान तेषां वै वेशान्यत्वं चकार ह ॥ अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । यवनानां शिरः सर्व्वं काम्बोजानां तथैव च ॥ पारदान् मुक्तकेशांस्तु पह्नवान् श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ शका यवनकाम्बोजाः पारदाः पह्नवास्तथा । कोलिसर्पा माहिषका दार्व्वाश्चोलाः सकेरलाः ॥ सर्व्वे ते क्षत्त्रियास्तात धर्म्मस्तेषां निराकृतः । वशिष्ठवचनाद्राजन् सगरेण महात्मना ॥” हिंस्रजन्तुविशेषः । साप इति भाषा । तत्- पर्य्यायः । पृदाकुः २ भुजगः ३ भुजङ्गः ४ अहिः ५ भुजङ्गमः ६ आशीविषः ७ विषधरः ८ चक्री ९ व्यालः १० सरीसृपः ११ कुण्डली १२ गूढपात् १३ चक्षुःश्रवाः १४ काकोदरः १५ फणी १६ दर्व्वीकरः १७ दीर्घपृष्ठः १८ दन्द- शूकः १९ विलेशयः २० उरगः २१ पन्नगः २२ भोगी २३ जिह्मगः २४ पवनाशनः २५ । इत्य- मरः । १ । ८ । ३ ॥ विलशयः २६ कुम्भीनसः २७ द्विरसनः २८ भेकभुक् २९ श्वसनोत्सुकः ३० फणाधरः ३१ फणधरः ३२ फणावान् ३३ फणवान् ३४ फणाकरः ३५ फणकरः ३६ सम- कोलः ३७ व्याडः ३८ दंष्ट्री ३९ विषास्यः ४० गोकर्णः ४१ उरङ्गमः ४२ गूढपादः ४३ विल- वासी ४४ दर्व्विभृत् ४५ हरिः ४६ । इति शब्द- रत्नावली ॥ प्रचलाकी ४७ द्बिजिह्वः ४८ जल- रुण्डः ४९ कञ्चुकी ५० चिकुरः ५१ भुजः ५२ । इति जटाधरः ॥ अस्योत्पत्तिव्युत्पत्ती यथा, “अप्रियेणास्य तान् दृष्ट्वा केशाः शीर्य्यन्त वेधसः । हीनाः स्वशिरसो भूयः समरोहन् ततः शिरः । सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः ॥” इति वह्निपुराणे सर्गकथननामाध्यायः ॥ * ॥ सर्पाणामुत्सवतिथिर्यथा, -- सुमन्तुरुवाच । “पञ्चमी दयिता राजन् नागानां नन्दिवर्द्धिनी । पञ्चम्यां किल नागानां भवतीत्युत्सवो महान् ॥ वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः । ऐरावतो धृतराष्ट्रः कर्क्कोटकधनञ्जयौ ॥ एते प्रयच्छन्त्यभयं प्राणिनां प्राणजीविनाम् । पञ्चम्यां स्नापयन्तीह नागान् क्षीरेण ये नराः ॥ तेषां कुले प्रयच्छन्ति अभयं प्राणदक्षिणम् । शप्ता नागा यदा मात्रा दह्यमाना दिवानिशम् । संददात्येव संयुक्तो भूतेजोव्यत्ययात् स्थितः ॥ भूवायुव्यत्ययान्मन्त्रो विषं संक्रामयत्यसौ । अन्तस्थो निजवेश्मस्थो बीजाग्नीन्दुजलाम्बुभिः ॥ एतत् कर्म्म नयेन्मन्त्री गरुडाकृतिविग्रहः । तार्क्ष्यवारणगेहस्थस्तर्जनान्नाशयेद्विषम् ॥ जानुदण्डीन्दुमुदितं स्वधाश्रीबीजलाञ्छितम् । स्नानपानात् सर्व्वविषजरारोगापमृत्युजित् ॥ पक्षि पक्षि महापक्षि महापक्षि विवि स्वाहा । पक्षि पक्षि महापक्षि महापक्षि क्षीक्षी स्वाहा ॥ द्वावेतौ पक्षिराड्मन्त्रौ विषघ्नावभिमन्त्रणात् । पक्षिराजाय विद्महे पक्षिदेवाय धीमहि तन्नो गरुडः प्रचोदयात् ॥ वह्निस्थौ पार्श्वतत्पूर्व्वौ दन्तश्रीकौ च दन्तिनौ । सकलो लाङ्गली चेति नीलकण्ठाद्यमीरितः ॥ वक्षःकण्ठशिखाश्वेतं न्यसेत् स्तम्भे सुसंस्कृतौ । हर हर हृदयाय नमः कपर्द्दिने च शिरसे नील- कण्ठाय वै शिखाम् ॥ कालकूटविषभक्षणाय स्वाहार्थर्व्व वर्म्म च । कण्ठिनेत्रं कृत्तिवासं नेत्रैः प्रत्येकशस्त्रिभिः । पूर्व्वाद्यैराननैर्युक्तं श्वेतपीतारुणासितैः ॥ अभयं वरदञ्चापं वासुकिञ्च दधद्भजः । यज्ञोपवीतपार्श्वन्तु गौरी रुद्रोऽस्य देवता ॥ पादजानुगुहानाभिहृत्कण्ठाननमूर्द्धसु । मन्त्रार्णान्न्यस्य करयोरङ्गुष्ठाद्यङ्गुलीषु च ॥ तर्ज्जन्यादितदन्तासु सर्व्वमङ्गुष्ठयोर्न्यसेत् । ध्यात्वैवं संहरेत् क्षिप्रं बद्धया मूलमुद्रया ॥ कनिष्ठा ज्येष्ठया बद्ध्वा तिस्रोऽन्याः प्रसृतिर्जवः । विषनाशो वामहस्तमन्यस्मिन् दक्षिणं करम् ॥ नमो भगवते नीलकण्ठाय चिः । अमलकण्ठाय चिः सर्व्वज्ञकण्ठाय चिः क्षिप ओम् स्वाहा ॥ नमो नीलकण्ठाय नैकसर्व्वविषापहाय । नमस्ते रुद्रमन्यव इति सम्मार्ज्जनाद्विषं विनश्यति ॥ न सन्देहः कर्णजाप्या उपनेत्रा विधानतः । यजेद्रुद्रविधानेन नीलग्रीवं महेश्वरम् । विषव्याधिविनाशः स्यात् कृत्वा रुद्र विधानतः ॥” इत्याग्नेये महापुराणे दष्टचिकित्सा नाम २९५ अध्यायः ॥ * ॥ * ॥ यात्राकाले तस्य शुभा- शुभसूचकत्वं यथा, -- “गोनासदर्व्वीकरराजिलाद्या जात्यैव सर्व्वे भयदा भुजङ्गाः । विलोक्य सर्पं यदि निर्व्विकल्प्या निवृत्तविप्रस्य शुभं विचिन्त्यम् ॥ पाषाणसंस्तम्भितकण्टकेषु दत्त्वा पदं यान्ति विनण्टविघ्नाः । सर्पेच्छया पञ्चनखाभिधेयः प्रयाणकाले स तु वामभागे । दृष्टः शुभैः सिद्धिकृदुन्नताग्र- स्तिष्ठेत् पथार्द्ध यदि राज्यलाभः ॥” इति सर्पः । इति वसन्तराजशाकुने १५ वर्गः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्प पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।6।2।1

मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः। सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्प¦ पु॰ सृप--अच्।

१ नागकेशरे उणा॰।

२ भुजङ्गमे पुंस्त्री॰अमरः स्त्रियां ङीष्।

३ सर्पदैवते अश्लेषानक्षत्रे ज्यो॰ त॰
“सर्पणादऽभवन् सर्पा हीनत्वादहयः स्मृताः” वह्निपु॰तन्नामनिरुक्तिः। भावे घञ्।

४ गमने सुश्रुतोक्तं तद्-भेदादिकम् अहिशब्दे

५८

१ पृ॰ दृश्यम्। तद्दंशने तस्यदंष्ट्र भेदेन विषादिकं च भविष्यपु॰ उक्तं यथा
“दष्ट्रा शुक्ला च कृष्णा च रक्ता पीता च दक्षिणा। समासेन तु वक्ष्यामि यथा वै वर्णतः स्मृताः। शुक्ला तुब्राह्मणी ज्ञेया रक्ता तु क्षत्रिया स्मृता। वैश्या तुपीतिका ज्ञेया कृष्णा शूद्रा तु कथ्यते। अतापरं प्रव-क्ष्यामि दंष्ट्राणां विषलक्षणम्। दंष्ट्रायान्तु विषं नास्तिनित्यमेव भुजङ्गमे। दक्षिणं नेत्रमासाद्य विषं सर्पस्यतिष्ठति। संक्रुद्धस्यैव सर्पस्य विषं गच्छति मस्तके। मस्तकाद्धमनीं याति ततो नाडीषु तिष्ठति। नाडीभ्योगच्छते दंष्ट्रे विषं तत्र प्रवर्त्तते। तत्सर्वं कथयिष्यामियथावदनुपूर्वशः। अष्टमिः कारणैः सर्पो दशते नात्रसंशयः। आक्रान्तो दशते पूर्वं द्वितीयं पूर्ववैरिणम्। तृतीयं दशते भीतश्चतुर्थं मददर्पितः। पञ्चमन्तु क्षुधा-विष्टः षष्ठञ्चेह विषोल्वणः। सप्तमं पुत्ररक्षार्थम् अष्टमंकालचोदितम्। यस्तु सर्पो दशित्वा तु उदरं परिवर्त्त-येत्। बलभुग्नाकृतिर्दंष्ट्रा आक्रान्तं तं विनिर्दिशेत्। यस्य सर्पेण दष्टस्य गम्भीरं दृश्यते व्रणम्। वैरदष्टंविजानीयात् कश्यपस्य वचो यया। एकदंष्ट्रा पदे यस्यअव्यक्तं न च कोपितम्। भीतदष्टं विजानीयात् यथो-वाच प्रजापतिः। यस्य सर्पेण दष्टस्व रेखा दण्डस्य जा-यते। मददष्टं विजानीयात् कश्यप्रस्य वचो यथा। [Page5251-b+ 38] द्वे च दंष्ट्रापदे यस्य दृश्येते च महाक्षतम्। क्षुघाविष्टंवि जानीयात् यथोवाच प्रजापतिः। द्वे दष्ट्रे यस्यदृश्येते क्वचिद्रुधिरसंकुले। विषोल्वणं विजानीयाद्वंशंतं नात्र संशयः। द्यपत्यरक्षणार्थायं जानीयान्नात्रसंशयः। यत्तु काकपदाकारं त्रिभिर्दन्तैर्विछिद्रितम्। महानाग इति प्रोक्तः कालदष्टं विनिर्दिशेत्। द्विविधंदष्टजातेस्तु लक्षणं समुदाहृतम्। दष्ट दष्ट्वा तु पीतञ्चदष्ट्वोद्धृतं तथैव च। यस्तु सर्पो दशित्वा तु पिबते तुविचक्षणः। दष्ट्वा तु पीतं विज्ञेयं कश्यपस्य वचो यथा। विषभागो तु सर्पस्य त्रिभागस्तत्र संक्रमेत्। उदरं दर्श-येद् यस्तु उद्धृत तं विनिर्दिशेत्। छर्दितं विषपेगेननिर्विषः पन्नगो भवेत्। अमाध्यश्चापि विज्ञेयश्चतुर्दंष्ट्राभिपीडितः। पीवाभङ्गो भवेत् किञ्चित् सदष्टो विषयो-गतः। आर्द्राऽश्लेषामघायाम्यकृत्तिकासु विशेषतः। विशाखासु त्रिपूर्वासु मूलास्वातिशतात्मके। सर्पदष्टान जीवन्ति विषं पीतञ्च यैस्तथा। शून्यागारे श्मशानेच शुष्कवृक्षे तथैव च। न जीवन्ति नरा दष्टा नक्षत्रेतिथिसंयुते। हतो दंशस्ततः शुद्वोव्यन्तरः परिकीर्त्तितः” भविष्यपु॰
“अतःपरं प्रवक्ष्यामि कालदष्टस्य लक्षणम्।
“जिह्वाभङ्गो हृदिशूलं चक्षुर्भ्याञ्च न पश्यति। दशञ्चदग्धसङ्काशं पक्वजम्बूफलोपमम्। वैवर्ण्यं चैव टलानांश्यामो भवति वर्णतः। सर्वेष्वङ्गेषु शैथिल्यं पुरीषस्य चभेदनम्। भग्नस्कन्धकटिग्रीव ऊर्द्ध्वदृष्टिरयोमुखः। दह्यते वेपते चैव स्वपते च मुहुर्मुहुः। शस्त्रेण छिद्य-सानस्य रुधिरं न प्रवर्चते। दण्डेन ताड्यमानस्य दण्ड-राजी न जायते। दंशे काकपदे सुनीलमसकृज्जम्बू-फलाभं घनम् घच्छूनं रुधिराङ्गसेकबहुलं कृच्छ्रान्नि-रोधो भवेत्। हिक्काश्वासगलग्रहस सुमहान् यादुस्त्वचा दृश्यते संस्थानं प्रवदन्ति शास्त्रनिपुणास्तं काल-दष्टं पिदुः। दंशे य{??}थ शोथः प्रचलितवडितं मण्डलंवा सुनीलं प्रस्वेदो णात्रमेदः स्रयांत च रुधरं सानु-नासञ्च जल्पेत। दलोष्ठाभ्यां वियोसो म्रसति च हृदयंसन्निरोधश्च तीज्ञो दिव्यानामेव दशरथलविपुलमयो किद्धितं कालदष्टम। दलैर्दन्तान् स्पृशति बहुलो दृष्टि-रायासखिन्ना स्थूलो दंष्ट्रः स्रवति रुधिरं केकरंचक्षुरेकम्। प्रत्वादिष्टः श्वसिति सततं सानुनासञ्च भाषेत्यद् यद् ब्रूते सकलनदितं कालदष्टं तमायुः। वेपतेवेदनातस्तु रक्तनेत्रश्व जायते।{??}प्तीयाभङ्गश्च लालाभि[Page5252-a+ 38] कालदष्टं विनिर्दिशेत्। दर्पणे सलिले वापि आत्म-च्छायां न पश्यति। मन्दरश्मि तथा दीपं तेजोहीनंदिवाकरम्। वेपते वेदनातस्तु रक्तनेत्रश्च जायते। सयाति निधनं जन्तुः कालदष्ट विनिर्दिशेत्। अष्टम्याञ्चनवम्याञ्च कृष्णपक्षे चतुर्दशीम्। नागपञ्चमीदष्टानां जी-वितस्य च संशयः। आर्द्राऽश्लेषामथायाम्यकृत्तिकासुविशेषतः। विशाखासु त्रिपूर्वासु मूलास्वातिशता-त्मके। सर्पदष्टा न जीवन्ति विषं पीतञ्च यैस्तथा। शून्यागारे श्मशाने च शुष्कवृक्षे तथैव च। न जीवन्तिनरादष्टा नक्षत्रे तिथिसंयुते। अष्टोत्तर मर्मशतं प्राणिनांसमुदाहृतम्। तेषां मध्ये तु मर्माणि दश द्वे चापिकीर्त्तिते। शङ्खे नेत्रे भ्रुवोर्मध्ये वस्तिभ्यां वृषणान्तरे। कक्षे स्कन्धे हृदिमध्ये तालुके चिवुके गुदे। एषुद्वादशकर्मसु दष्टः शस्त्रेण वा हतः। न जीवन्तिनरा लोके कालदष्टान् विनिर्दिशेत्”। दूतो वादण्डहस्तो भवति च युगलं पाशहस्तस्तथा वा रक्तंवस्त्रञ्च कृष्णम् ह्यथ शिरसि गतम् चैकवस्त्रश्च दूतः। तैलाभ्यक्तश्च तद्वत् त्वरितगतियुतो युक्तकेशश्च याति, यःकुर्य्यात् घोरशब्दं करचरणयुगैः प्राप्तकालस्य दूतः। नागोदयं प्रवक्ष्यामि ईशानेन तु भाषितम्। ब्रह्मणातु पुरा सृष्टा ग्रहा नागास्त्वनेकशः। अनन्त भास्करविद्यात् सोम विद्यात्तु वासुकिम्। तक्षकं भूमिपुत्रन्तुकर्कोटञ्च बुधं विदुः। पद्म वृहस्पतिं विद्यान्महा-पद्मञ्च भार्गवम्। कुलिकः शङ्खपालश्च द्वावेतौ तु शनै-श्चरः। पूर्वपादः शङ्खपालो द्वितीयः कुलिकोऽस्य च। नेत्रभागे यमौ दिष्टौ दिनरात्री तथैव च। शुक्रसोमौच सध्याह्ने उदये तु क्षमासुतम्। प्राणः प्राग{??} भागेदिवासन्धाविहोच्यते। ग्रहाश्च भुञ्जते॰ राजन्! पथिमृत्यु व्रजत्यधः। अधो गत्वा भवेत् सर्पो निर्विषोनात्र संशयः” भविष्यपु॰
“मास्याषादे तथा ज्यैष्ठे प्रमा-द्यस्ति भुजङ्गमाः। ततो नागो नागिनी च मैथुनंसंप्रपद्यो। चतुरो वार्षिकान् मासान् नागी गर्भमधा-रयत्। ततः कार्त्तिकमासे तु अण्डकानि प्रसूयते। अण्डकानान्तु विज्ञेयं द्वे शते द्वे च विंशती। तान्येवभक्षयेत् सा तु भागैकं घृणया त्यजेत्। सुवर्णार्कवर्ण-निभात् पुमात् संजायतेऽण्डकात। तानेव खदतेसपी अहोरात्राणि विशतिम्। अर्कोदकसुवर्णाभात्दीर्घराजीवसन्निमात्। तस्मादुत्पाद्यते स्त्री वै अण्डाद्[Page5252-b+ 38] व्राह्मणसत्तम!। शिरीषपुष्पवर्णाभादण्डकात्स्यान्नपुसकम्। ततो भिनत्ति चाण्डानि षणमासेन तु गौ-तम!। ततस्ते प्रीतिसम्बन्धात् स्नेहं वध्नन्ति बालकाः। ततोऽसौ सप्तरात्रेण कृष्णो भवति यत्नतः। आयुःप्रमाणंसर्पाणां शतं विंशोत्तर स्मृतम्। मृत्युश्चाष्टविधो ज्ञेयःशृणुष्यात्र यथाक्रमम्। मयूरात् मानुषाद्वापि चकोराङ्गो-खुरात्तथा। विडालान्नकुलाच्चैव वराहाद्वृश्चिकात्तथा। एतभ्यो यदि मुच्येत जीवेद्वि शोत्तरं शतम्। सप्ताहे तु ततःपूर्णे दंष्ट्राणान्तु विरोहणम्। विषस्यागमनं तत्र विक्ष-पश्च पुनः पुनः। एव ज्ञात्वा तु तत्त्वेन विषकर्म समा-रभेत्। एकविंशतिरात्रेण विषं दंष्टासु जायते। नागीपार्श्वसमावर्त्ती बालसर्पस्तु उच्यते। पञ्चविंशतिरात्रस्तुसद्यः प्राणहरो भवेत्। षण्मासाज्जातमात्रस्तु कञ्चुकंवै प्रमुञ्चति। पादानाञ्चापि विज्ञेया द्वे शते द्वे चविंशती। गोलोमसदृशाः पादाः प्रविशन्ति क्रमन्ति च। सन्धीनां चास्य विज्ञेयं द्वे शते विंशती तथा। पांशुल्यश्चापि विज्ञेया द्वे शते विंशतिस्तथा। अकालजाता येसर्पा निर्विषास्ते प्रकीर्त्तिताः। पञ्चसप्ततिवर्षाणि आ-युस्तेषां प्रकीर्त्तितम्। रक्तपीतशुक्लदन्ता आनीला म-न्दवेगिनः। एते अल्पायुषो ज्ञेया अल्पाहाराश्च भी-रवः। एकञ्चास्य भवेद्वक्त्रं द्वे जिह्वे च प्रकीर्त्तिते। दंष्ट्राश्चतस्रो विज्ञेया प्रजापतिवचो यथा। प्रथमा ब्रह्म-दैवत्या द्वितीया विष्णुदैवता। तृतीया रुद्रदैवत्याचतुर्थी यमदैवता। हीना प्रमाणतः सा तु वामनेत्रंसमाश्रिता। नास्यां मन्त्राः प्रयोक्तव्या नौषधं नैव भे-षजम्। वैद्यः पराङ्मुखो याति मृत्यु स्तस्या विलेखनात्। चिकित्सा न बुधैः कार्य्या तदन्तं तस्य जीवितम्। मकरीं मासिकीं विद्यात् करालीञ्च द्विमासिकीम्। काल-रात्री भवेत् त्रीणि चतुरो यमदूतिका। मकरीं शस्त्रकंविद्यात् कराली काकपादिका। ढककाकृतिः काल-रात्री याम्या कूपाकृतिः स्मृता। मकरी वातुला ज्ञेयाकराली पैत्तिकी स्मृता। कफात्मिका कालरात्री यम-दूती त्रिदोषिका। शुक्ला तु मकरी ज्ञेया करालीरक्तसन्निभा। कालरात्री भवेत् पीता कृष्णा च यम-दूतिका” भविष्यपु॰। कश्यप उवाच
“सविषा दंष्ट्रयो-र्मध्ये यमदूती तु चेद्भवेत्। न चिकित्सा बुधैः कार्य्यातं गतासुं विनिर्दिशेत्। प्रहरार्द्धं दिवारात्रौ एकैकंभुञ्जते त्वहिः। एकस्य च समानञ्च द्विताय षोडशं[Page5253-a+ 38] तथा। नागोदये य उद्दष्टो हतो विद्धो विदारितः। काल-दष्टं विजानीयात् कश्यपस्य वचो यथा। यन्मात्रः पतते-बिन्दुर्वालाग्रसलिलोद्धृतः। तन्मात्रं स्रवते दंष्ट्राविषंसर्पस्य दारुणम्। ज्वालाशते तु संपूर्णे देहे संक्रमतेविषम्। यावत् संक्रामयेदबाहुं कुञ्चितं वा प्रसारयेत्। अनेन क्षणमात्रेण विषं गच्छति मस्तके। एधते विष-वेगस्तु शतशोऽथ सहस्रशः। वर्द्धते रक्तमासाद्य ततोवाते शिखी यथा। तैलबिन्दुर्जलं प्राप्य यथा वेगेन वर्द्धते। शिखण्डी आश्रयं प्राप्य मारुतेन समीरितः। ततस्ता-लाशतं प्राप्य त्वचास्थानं विचेष्टितम्। त्वचासु द्विगुणंविद्याच्छोणितेषु चतुर्गुणम्। पित्ते तु त्रिगुणं यातिष्मेष्मे वै षोडशं भवेत्। वायौ त्रिंशद्गुणञ्चैव मज्जेषष्टिगुणं तथा। प्राणे चैकार्णवीभूते सर्वस्रोतो निरो-धयेत्। स्नातसा रुध्यमानेन याति साध्यमसाध्यताम्। ततोऽसौ म्रियते जन्तुर्निश्वासाच्छ्वासवर्जिनः। निष्क्रान्तेतु ततो जीवे भूते पञ्चत्वमागते। तानि भूतानि गच्छन्तियस्य यस्य यथालयम्। पृथिव्यापस्तथा तेजो वायुराकाश-मेव च। इत्येषामेव संक्षातः शरीरमभिधीयते। पृथिवीपृथिवीं याति आपस्तीयेषु लीयते। तेजो गच्छति चा-दित्य मारुतो मारुतं व्रजेत्। आकाशञ्चैव आकाशेसह तेनैव गच्छति। स्वस्थानं ते प्रपद्यन्ते परस्परनि-योजिताः। न जीवेदागतः कश्चिदिह जन्मनि सुव्रव!। विषाथ न उपेक्षेत त्वरितं तु चिकित्सयेत्। एकमस्तिविषं लोके द्वितीयञ्चोपपद्यत। यथा चलविषञ्चैव स्था-वरन्तु तथैव च। प्रथमे विषयेगे तु रोमहर्षः प्रजायते। द्वितीये विषवेगे तु स्वेदो गात्रेषु जायते। तृतीये विष-येगे तु कम्पो गात्रेषु जायते। चतुर्थे विषवेगे तुश्रोत्रान्तरनिरोधकृत्। पञ्चमे विषवगे तु हिक्का गात्रेषुजायते। षष्ठे तु विषवेगे तु ग्रीवाभङ्गस्तु जायते। सप्तमे विषवेगे तु प्राणभ्यो विप्रमुच्यते सप्तधातुवहाह्येते वैनतेयेन भाषिताः। त्वचास्थाने विषप्राप्ते तस्यरूपाणि मे शृणु। अङ्गानि तिमिरायन्ते यतन्ते चमुहुर्मुहुः। एतानि यस्य चिह्नानि तस्य त्वचगतं वि-षम्। तस्यागदे प्रवक्ष्यामि येन सम्मद्यते सुखम्। अर्क-मूलसपामार्गं प्रियङ्गुं तगर तथा। एतदालोड्यदातव्यं ततः सम्पद्यते सुखम् ततस्तस्मिन् कृते विप्र! ननिवर्त्तेत चेद्विषम्। त्वचःस्थानं ततो भित्त्वा रक्तस्थानंप्रधावति। विषे च रक्तसप्राप्ते तस्य रूपाणि मे शृणु। [Page5253-b+ 38] दह्यते मुह्यते चैव शीतलं बहुमन्यते। एतानि यस्यरूपाणि तस्य रक्तं गत विषम्। तत्रागदं प्रवक्ष्यामियेन सम्पद्यते सुखम्। उशीरं चन्दनं कुष्ठमुत्पलंतगरं तथा। कहाकालस्य मूलानि सिन्धुवार-मृगस्य च। हिङ्गुञ्च मरिचञ्चैव पूर्वयेगे तु दापयेत्। वृहती वृश्चिकाली च इन्द्रवारुणिमूलकम्। सर्पगन्धाघृतं चैव द्वितीये परिकीर्त्तितम्। सिन्धुवारं तथा हिङ्गुतृतीये कारयेद्बुधः। नस्यं पानञ्च कूर्वीत अञ्जनंलेपनं तथा। एतेनैवोपचारेण ततः सम्पद्यते सुखम्। रक्तस्थानं ततो गत्वा पित्तस्यानं प्रधावति। पित्त-स्थानगते विप्र! विषे रूपाणि मे शृणु। उत्तिष्ठते नि-पतते दह्यते मुह्यते तथा। गात्रतः पीतता स्याद्वै दिशःपश्यति पीतिकाः। धवलाश्च भवेन्मूर्च्छा न चात्मानंविजानते। विषक्रियां तस्य कुर्य्यात् यथा सम्पद्यतेसुखम्। पिप्पलं मधुकं चैव मधुखण्डघृतं तथा। मधुसारमलाबूञ्च जातिशर्करबालुकाम्। इन्द्रवारुणिमूलञ्च गवां मूत्रेण पेषयेत्। नस्यं तस्य प्रयुञ्जीत पान-मालेपमञ्जनम्। एतेनैवोपचारेण ततः सम्प्रद्यते सुखम्। पित्तस्थानमतिक्रम्य श्लेष्मस्थानञ्च गच्छात। श्लेष्मस्थानेततः प्राप्ते तस्य रूपाणि मे शृणु। गात्राणि तस्यरुध्यन्ते निश्वासश्च न जायते। लाला च स्रवते तस्यकण्टो घुरघुरायते। एतानि यस्य रूपाणि श्लेष्मस्थान-गतं विषम्। तस्यागदं प्रवक्ष्यामि येन सम्पद्यत सुखम्। त्रिकटुकं कोशातकी लोध्रञ्च म{??}सारकम्। एतेषां सप्त-भागानि गवां मूत्रेण पेषयेत्। नस्यं पानञ्च कुर्वीतअञ्जनं लेपनं तथा। एतेनैवोपचारेण ततः सम्पद्यतेसुखम्। श्लेष्मस्थान्मतिक्रम्य वायुस्थानञ्च गच्छति। तत्र रूपाणि वक्ष्यामि वायुस्थानगते विषे। आध्मायतेच जठरं यत्नवांश्च न पश्यति। ईदृशं कुरुते रूपं दृष्टि-भङ्गश्च जायते। एतानि यस्य रूपाणि तस्य वायुगतंविषम्। तस्यागद प्रवक्ष्यामि येन सम्पद्यते सुखम्। शोणभूलं पियालञ्चा रक्ता च गजपिप्पली। हिङ्गुञ्चपिष्ट्वा गुडिकाञ्च कुर्य्याद्दद्याच्च तस्याञ्जनलेपादीन्। एषो-ऽगदः सर्वविषाणि हन्यात् स्वयम्भुवा देववरेण सृष्टः। अञ्जनञ्चैव नस्यञ्च क्षिप्रं दद्याद्विषान्विते। वायुस्थानंततो मुक्त्वा मज्जस्थानं प्रधावति। विषे मज्जगते विप्र!तस्य रूपाणि मे शृणु। दृष्टिश्च हीयते तस्य भृश-मङ्गानि मुञ्चति। एतानि यस्य रूपाणि तस्य मज्जगत[Page5254-a+ 38] विषम्। तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम्। वृत मधु शर्कराञ्च उशीरं चन्दनं तथा। एतदालाड्यदातव्यं प्रानं तस्य च सुव्रत!। ततः प्रणश्यते दुःखंततः सम्पद्यते सुखम्। अथ तस्मिन् कृते योगे विषंतस्य निवर्त्तते। मज्जस्थानं ततो गत्वा मर्मस्थान प्र-धावति। विषे च मर्मसंप्र प्ते शृणु रूपं यथा भवेत्। नि-श्चेष्टः पतते भूमौ कर्णाभ्यां वधिरो भवेत्। वारिणासिच्यमानस्य रामहर्षो न जायते। दण्डेन हन्यमानस्यदण्डराजी न जायते। शस्त्रेण छिद्यमानस्य रुधिरं नप्रवर्त्तते। केशेषु लुच्यमानेषु नैव क्त्र शंप्रवेदने। यस्यकर्णौ च पार्श्वौ च हनूप्रादौ च सन्धयः। शिथिलानिभवन्तीह स गतासुरिति श्रुतिः। एतानि यस्य{??}पाणिविपरीतानि गौतम!। मृतन्तु तं विजानीयात् कश्य-पस्व वचो यथा। वैद्यास्तस्य न पश्यन्ति ये पश्यन्तिकुशिक्षिताः। विचक्षणास्तु पश्यन्ति मन्त्रौषधिसम-न्विताः। तस्यागदं प्रवक्ष्यामि स्वयं रुद्रेण भाषितम्। मयूरपित्तं मार्ज्जारपित्तं नकुलपित्तकम्। मत्स्य-महिषपित्तञ्च धानालीमूलमेव च। कुङ्कुमं भार्गवंकष्ठं काश्मरी च त्वचं तथा। उद्पलस्य च किञ्जल्कंपद्मस्य कुमुदस्य च। एतानि समभागानि गामूत्रेण चपेषयेत्। एषोऽगदो यस्य हस्ते दष्टेन म्रियते न वै। कालाहिनापि दष्टोऽपि क्षिप्रं भवति निर्विषः। क्षिप्र-मेव प्रदातव्यं मृतसञ्जीवबौषधम्। अञ्जनञ्चिव नस्वञ्चक्षिप्रं दद्यात् विचणणः” भविष्यपु॰। कश्यप उवाच
“अतःपर प्रवक्ष्यामि नानानां रूपलक्षणम्। सर्पदष्टस्वच तथा सनामाद्द्विजपुङ्गव!। अथ सर्पेण दष्टस्यऊर्ध्वा वृष्टिः प्रजायते। सर्प्पादष्टस्य च तथा व्यधो-दृष्टिः प्रजायते। नपुंसकेन दष्टस्य अद्गमर्दः प्रजा-यते। रुपा दष्टख वा साम्या दृष्टिर्व्विजवरोत्तम!। कुमारेणापि दष्टस्य दक्षिणा एव जायते। गुर्विण्यावाथ दष्टस्य तथा स्वेदश्च जायते। रोसाञ्चःस्यात् हूति-कया वेपयुश्चापि जायते। पत्रनी प्रमवदात्नौ दिवासर्पो विवाघिकः। नपुंसकस्वु मख्यायां कश्यपेन तुभापितम्। चन्धकारे तु दष्टानामुदके गहने वने। सप्तस्य वै प्रमत्तख पदे सर्पो न दृश्यते। दष्ट{??}पाण्य-जानन् वै कयं वैद्यश्चिकित्सति चतुविंघास्तु सपोक्ताःपन्नगास्तु महात्मना। दर्वीकरा मण्डतिनो राजिलाव्यन्तरास्तथा। दर्वीकरा वातविपा मण्डलाः मैत्तिकाः[Page5254-b+ 38] स्मृताः। श्लेष्मला राजिला ज्ञेया व्यन्तराः सान्निपा-तिकाः। रक्तं परीक्षयेद्गाढं सर्पाणान्त पृथक् पृथक्। कृष्णं दपींकराणान्तु जायते वातमुल्वणम्। रक्तं घनञ्चबहुशः शोणितं मण्डलिक्षते। पिच्छिलं राजिले स्वल्पंतद्वद्व्यन्तरके तथा। ज्ञेयाः सर्पास्तु चत्वारः पञ्चमीनोपलायते। ब्रह्मणः क्षक्षित्रो वैश्यः शूद्रश्चैव चतु-र्थकः। ब्राह्मणे मधुरं दद्यात् तिक्तं दद्यात्तथोत्तरे। वैश्यं कर्षफलं दद्यात् शूद्रे त्रिफलमेव वा। व्राह्मणेनतु द्रष्टस्य दाहो गात्रेषु जायते। मर्च्छा च प्रबलास्याद्वैन ज्ञानमभिजायते। श्यामवर्णं मुखञ्च स्यान्मन्या-स्तम्भश्च जायते। तस्य कुर्य्यात् प्रतीकारं येन सम्पद्यतसुखम्। अश्वगन्धामपामार्गं सिन्धुवारं सुरालयम्। एतत् सर्पिः समायुक्तं पानं नस्यञ्च दापयेत्। एतेनै-वोपचारेण सुखी भवति मानवः। क्षत्रियेण तु दष्टस्यकम्पो गात्रेषु जायते। मूर्च्छा मोहस्तथा स्याद्वै नज्ञानमभिजायते। जायते वेदना तस्य ऊर्ध्वञ्चेवनिरीक्षते। तस्य कुर्य्यात् प्रतीकारं येन सम्पद्यते सुखम्। अर्कमूलमपानार्गं प्रियङ्गुमथ वारुणीम्। एतत् सर्पिः-समायुक्तं पानं तस्य प्रदापयेत्। एतेनैवोपचारेण मुखीभवति मानवः। वैश्येनापि हि दष्टस्य शृणु रूपाणियानि तु। श्लेष्ममकोपो लाला च नवोद्वहति वेदना। मूर्च्छा च प्रबला यस्य आत्मानं नाभिनन्दति। तस्यकुर्य्यात् प्रतीकारं येन सम्पद्यते सुखम्। अश्वगन्धां सगोमूत्रां गृहधूभं सगुग्गुलम्। शिरीषार्कपलाशञ्चश्वेतां च गिरिकर्णिकाम्। गोमूत्रेण समायुक्तं पानंनस्यञ्च दापयेत्। एष वैश्येन दष्टानामगदः परिकी-र्त्तिवः। शूद्रेणापि हि दष्टस्य शृणु तत्त्वेन गोतम!। कुप्यते वेपते चैव ज्वरः शीतञ्च जायते। अङ्गानि चुलु-चुलायन्ते शूद्रदष्टस्य लक्षणम्। तस्यागदं प्रवक्ष्यामियेन सम्पद्यते सुखम्। पद्मञ्च लोध्रकञ्चैव क्षौद्रं पद्मस्यकेसरम्। मधु मधूकसारञ्च श्वेता च गिरिकर्णिका। एतानि सममागानि पेषयेत् शीतवारिणा। पान लेपा-ञ्जनं नस्यं सुखी भवति मानवः। पूर्वाह्णे चरते विप्रोमध्याह्णे क्षत्रियश्चरेत्। अपराह्णे चरेद्वैश्यः शूद्रःक{??}याचरो भवेत्। व्याहारश्चात्र पुष्पाणि ब्राह्मणानांविवुर्वुदाः। मूषिकाः क्षत्रियाणाञ्च आहारो द्विज-सत्तम!। वैश्या मण्डूकमक्ष्याश्च शूद्राः सर्वाशिनकथा। अग्रतो दशते विप्रः क्षत्रियो दक्षिणेन तु। वामपार्श्वे[Page5255-a+ 38] सदा वैश्यः पश्चाद्वै शूद्र आदशेत्। मदकाले तु संप्राप्तेपीड्यमाना महाविषाः। अवेलाया दशन्ते वै मैथुनार्त्ताभुजङ्गमाः। पुष्पगन्धाः स्मृता विप्राः क्षत्रियाश्चन्दना-बहाः। वैश्याश्च घृतगन्धा वै शूद्राः शूर्मस्य गन्धिनः। वासं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः। नदीकूप-तडागेषु गिरिप्रस्रवणेषु च। आरामेषु पवित्रेषु शुचि-ष्वायतनेषु च। वसन्ति ब्राह्मणाः सर्पा ग्रामद्वारेचतुष्पथे। क्षत्रियो वसते नित्यं तोरणेषु पुरेषु च। गोशालास्वश्वशालासु पलालेषु तटेषु च। गोष्ठेषु पथिवृक्षेषु विप्र! वैश्या वसन्ति च। अविविक्तेषु स्थानेषुनिर्झरेषु वनेषु च। शून्यागारे श्मशाने च शूद्रा विप्र!वसन्ति च। श्वेताश्च कपिलाश्चैव ये सर्पास्त्वनलप्रभाः। मनस्विनः सात्त्विका ये ब्राह्मणास्ते बुधैः स्मृताः। रक्तवर्णसुवर्णाभाः प्रबालमणिसन्निभाः। सूर्य्यप्रभास्तथाविप्र! क्षत्रियास्ते भुजङ्गमाः। नानाविचित्रराजीभि-रतसीवर्णसन्निभाः। माणपुष्पसुवर्णाभा वैश्यास्ते चभुजङ्गमाः। काकोदरनिभाः केचित् ये च अञ्जन-सन्निभाः। काकवर्णा धूम्रवर्णास्ते शूद्राः परिकीर्त्तिताः। यस्य सर्पेण दष्टस्य दंशमङ्गुलमन्तरम्। बालदष्टं विजा-नीयात् कश्यपस्य वचो यथा। यस्य सर्पेण दष्टस्य दंशंद्व्यङ्गुलमन्तरम्। योवनस्थेन दष्टस्य एतद्भवति लक्षणम्। यस्य सर्पेण दष्टस्य सार्द्धद्व्यङ्गुलमन्तरम्। वृद्धदष्टं वि-जानीयात् कस्यपस्य वचो यथा” भविष्यपु॰।
“स्थाना-म्यादौ प्रवक्ष्यामि नद्यां दष्टो न जीवति। चितावल्-मीकशैलादौ कूपे च विवरे तरोः। दंशे रेखात्रयं यस्यप्रच्छन्नं स न जीवति। षष्ठ्याञ्च कर्कटे मेषे मूलाश्लेषामघादिषु। कक्षाश्रोणिगले सन्धौ शङ्खकर्णोदरादिषु। दण्डी शस्त्रधरो भिक्षुर्नग्नादिः कालदूतकः। वक्त्रेवाहौ च ग्रीवायां पृष्ठे च न हि जीवति। पूर्वंदिनपतिर्भुङ्क्ते ह्यर्द्धयामन्ततो परे। शेषाः ग्रहाःप्रतिदिनं षट्संख्यापरिवर्त्तनैः। नागभोगक्रमो ज्ञेयारात्रौ बाणविवर्त्तनैः। शेषोऽर्कः फणिप्रश्चन्द्रस्तक्षकोभौम ईरितः। कर्कोटोज्ञो गुरुः पद्मो महापद्मश्चभार्गवः। शङ्खः शनैश्चरो राहुः कुलिकश्चाहयो ग्रहाः। रात्रौ दिवा सुरगुरोर्भोगे स्यादमरान्तकः। पङ्गोःकालो दिवा राहुः कुलिकेन सह स्थितः। यामार्द्ध-सन्धिसंस्थः स वेलां कालयतीञ्चरेत्। बाण द्विषड्वह्निवाजियुगभूरेकभागतः। दिवा मड्वेदनेत्रादि-[Page5255-b+ 38] पञ्चत्रिवसुखांशकैः। पादाङ्गुष्ठे पादपृष्ठे गुलफेजानुनि लिङ्गके। नामौ हृदि स्तनतटे कण्ठे नासा-पुटेक्षणे। कर्णयोश्च भ्रुवोः शङ्खे मस्तके प्रतिपत्क्रमात्। तिष्ठेच्चन्द्रश्च जीवेन पुंसो दक्षिणभागके। का-यस्य वामभागे तु स्त्रिया वायुवहक्रमात्। अमवत्त्व-कृतो मोहो निवर्त्तेत च मर्दनात्” गारुडे

१९ अ॰।
“आषाढादित्रिमासैः स्याद् गर्भो मासचतुष्टये। अण्ड-कानां शतेद्वे च चत्वारिंशत् प्रसूयते। सर्पा ग्रसन्ति सूतौतान विना स्त्रीं, पुंनपुंसकान्। उन्मीलतेऽक्षि सप्ताहात्हृष्टो मासाद्भवेद्बहिः। द्वादशाहात् सुबोधः स्याद्दन्ताःस्युः सूर्य्यदर्शनात्। द्वात्रिंशद्दिनविंशत्या चतरस्रस्तेषुदंष्ट्रिकाः। कराली मकरी कालरात्री च यमदूतिका। एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः। षण्मा-सान्मुञ्चते कृत्तिं जीवेत् षष्टिसमाद्वयम्। नागाःसूर्य्यादिवारेशाः सप्त उक्ता दिवानिशि। तेषां षट्प्रतिवारेषु कुलिकः सर्वसन्धिषु। शङ्खेन वा महाब्जेनसह तस्योदयोऽथ वा। द्वयोश्चैव नाडिकयोरन्तरंकुलिकोदयः। दुष्टः सकालः सर्वत्र सर्वदंशे विनि-र्दिशेत्। कृत्तिका भरणी स्वातिर्मूलं पूर्वत्रयाश्विनी। विशाखार्द्रा मघाश्लेषा चित्रा श्रवणरोहिणी। हस्ता म-न्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः। षष्ठी रिक्ता शिवानिन्द्या पञ्चमी च चतुर्दशी। सन्ध्याचतुष्टयं दुष्टंदग्धयोगश्च राशयः। एकद्विबहवो दंशा दष्टविद्धञ्चखण्डितम्। अदंशमवगुप्तं स्याद्दंशमेवं चतुर्विधम्। त्रयो द्व्येकक्षता दंशा वेदना रुधिरं नृणाम्। नक्तंद्व्येकाङ्घ्रिकूर्माभा दंशाश्च यमचोदिताः। दाहीपिपीलिकास्पर्शी कण्ठशोषरुजान्वितः। सतोदो ग्र-न्थितो दंशः सविषो न्यस्तनिर्विषः। देवालये शून्यमृहेवल्मीकोद्यानकोटरे। सथ्या सन्ध्या रमशाने च शुष्कद्रौसिन्धुसङ्गमे। द्वीपे चतुष्पथे सौष्ठे गृहेऽब्जे पर्वता-ग्रतः। बिलद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके। शिग्रुश्लेष्मातकाक्षेषु जम्बूडुम्बरकेषु च। वटे चजीर्णप्राकारे खास्यहृतकक्षजत्रुणि। तालौ शङ्खे गलेमूर्ध्नि चिवुके नाभिपादयोः। दंशोऽशुभः” अग्निपु॰। सुश्रुते तद्दंशलक्षणभेदादिर्दर्शितो यथा
“तत्र सर्वेषां सर्पाणां सामान्यत एव दष्टलक्षणं वक्ष्यामः। किं कारणं विषं हि निशितनिस्त्रिंशाशनिहुतवहदेश्य-कारि मुहूर्त्तमप्युपेक्षितमातुरमतिपातयति। न चाव-[Page5256-a+ 38] काशोऽस्ति वाक् समूहमनुसर्तुम्। प्रत्येकमपि दष्ट-लक्षणेऽभिहिते सर्वत्र त्रैविध्यं भवति। तस्मात्रैविध्यमेव वक्ष्यामः। एतद्धातुरहितमसम्मोहकरञ्च। अपिचात्रैव सर्वसर्पव्यञ्जनावबोधः। ( तत्र दर्वीकरविषेण त्वङ्नयननखदशनमूत्रपुरीषदंश-कृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धिवेदनाकटीपृष्ठ-ग्रीवादौर्बल्यं जृम्भणं वेपथुः स्वरावसादो घुर्घुरकोजडता शुष्कोङ्गारः कासश्वासौ हिक्का वायोरूर्ध्वगमनं शूलोद्वेष्टनं तृष्णा लालास्रावः फेनागमनं स्रोतो-ऽवरोधस्तास्ताश्च वातवेदना मवन्ति। ( मण्डलिविषेण त्वगादोनां पीतत्वं शीताभिलाषः परि-धूपनं दाहस्तृष्णा मदो मूर्च्छा ज्वरः शोणितागमनमूर्ध्व-मधश्च मांसानामवशातनं श्वयथुर्दंशकोथः पीतरूपदर्शन-माशुकोपस्तास्ताश्च पित्तवेदना भवन्ति। ( राजिमद्विषेण शुक्लत्वं त्वगाटीनां शीतज्वरो रोमहर्ष-स्तब्धत्वं गात्रानामोदंशशोफः सान्द्रकफप्रसेकश्छर्दिर-भीक्ष्णमक्ष्णोः कण्डूः कण्ठे श्वयथुर्घुर्घुरक उच्छासनिरो-धस्तमःप्रवेशस्तास्ताश्च कफवेदना भवन्ति। ( पुरुषाभिदष्ट ऊर्ध्वं प्रेक्षतेऽधस्तात् स्त्रिया सिरा-श्चोत्तिष्ठन्ति ललाटे। नपुंसकाभिदष्टस्तिर्य्यक्प्रेक्षीभवति। गर्भिण्या पाण्डुमुखोध्मातश्च। सूतिकयाशूलार्त्तो रुधिरं मेहत्युपजिह्विका चास्य भवति।{??}सार्थिनान्नं काङ्क्षति। वृद्धेन मन्दा वेगाश्च। बालेनाशु मृदवश्च निर्विषेणाविषलिङ्गम्। अन्धा-हिकेनान्धत्वमित्येके। ग्रसनादजगरः शरीरप्राण-हरो न विषात्। तत्र सद्य प्राणहराहिदष्टः पततिशस्त्राशनिहत इव भूमौ स्रस्ताङ्गः स्वपिति। तत्र सर्वेषां सर्पाणां विषस्य सप्त वेशा भवन्ति तत्रदर्वीकराणां प्रथमे वेगे विष शोणितं दूषयति तत् प्र-दुष्टं कृष्णतामुपैति तेन कार्ष्ण्यं पिपीलिकापरिसर्पणमिवचाङ्गे भवति। द्वितीये मांसं दूषयति तेनात्यर्थं कृष्णताशोफो ग्रन्थयश्चाङ्गे भवन्ति। तृतीये मेदो दूषयति तेनदंशक्लेदः शिरोगौरवं स्वेदश्चक्षुर्ग्रहणञ्च। चतुर्थेकीष्ठमनुप्रविश्य कफप्रधानान् दोषान् दूषयति। तेनतन्द्राप्रसेकसन्धिविश्लेषा भवन्ति। पञ्चमेऽस्थीन्यनुप्रवि-शति प्राणमग्निञ्च दूषयति तेन पर्वभेदो हिक्का दा-हश्च भवति। षष्ठे मज्जानमनुप्रविशति ग्रहणोञ्चात्यर्थंदृषयति तेन गात्राणां गौरवमतीसारो हृत्पीडा मूर्च्छा[Page5256-b+ 38] च सवति। सप्तमे शुक्रमनुप्रविशति व्यानञ्चात्यर्थकोपयति कफञ्च सूक्ष्मस्रोतोभ्यः प्रच्यावयति तेन श्लेष्म-वर्त्तिप्रादुर्भावः कटीपृष्ठभङ्गश्च सर्वचेष्टाविघातो लाला-स्वेदयोरतिप्रवृत्तिरुच्छासनिरोधश्च भवति। ( तत्र मण्डलिनां प्रथमे वेगे विषं शोणित्रं दूषयति तत्तत्रप्रदुष्टं शीततामुपैति तत्र परिदाहः पीतावभासताचाङ्गानां मवति। द्वितीये मांसं दूषयति तेनात्यर्थं पीत-तापरिदाहौ दंशे श्वयथुश्च भवति। तृतीये मेदो दूषयतितेन पूर्ववच्चक्षुर्ग्रहणं तृष्णा दंशे क्लेदः स्वेदश्च। चतुर्थेकोष्ठमनुप्रविश्य ज्वरमापादयति पञ्चमे परिदाहं सर्व-गात्रेषु करोति। षष्ठसप्तमया पूर्ववत्। ( राजिमतां प्रथमे वेगे विषं शोणितं दूषयति तत्प्रदुष्टंपाण्डुतामुपैति तेन रोमहर्षः शुक्लावभासश्च पुरुषो भवति। द्वितीये मांसं दूषयति तेन प्राण्डुतात्यर्थं जाड्यं शिरः-शोफश्च भवति। तृतीये मेदो दूषयति तेन चक्षुर्ग्रहणंस्वेदो घ्राणाक्षिम्रावश्च भवति। चतुर्थे कोष्ठमनुप्रविश्यमन्यास्तम्भं शिरोगौरवं चापाइयति। पञ्चमे वाक-सङ्गं शीतज्वरञ्च करोति षष्ठसप्तमयोः पूर्ववदिति। ( भवन्ति चात्र। धात्वन्तरेषु याः सप्त कलाः संपरिकी-र्त्तिताः। तास्वेकैकामतिक्रम्य वेगं प्रकुरुते विषम्। ये-नान्तरेण हि कलां कालकल्पं भिनत्ति हि। समीरणे-नोह्यमानं तत्तु वेगान्तरं स्मृतम्। शूनाङ्ग प्रथमे वेगेपशुर्ध्यायति दुःखितः। लालास्रावो द्वितीये तु कृष्णाङ्गःपीद्ध्य्यते हृदि। तृतीये च शिरो दुःख कण्ठग्रीवञ्च तक्ष्यते। चतुर्थे वेपते मूढः खादन् दन्तान् जहात्यसून्। केचि-द्वेगत्रयं प्राहुरन्तश्चैतेषु तद्विदः। ध्यायति प्रथमे वेगेपक्षी मुह्यत्यतः परम्। द्वितीये विह्वलः प्रोक्तस्तृतीयेमृत्युमृच्छति। केचिदेकं विहङ्गेषु विषवेगमुशन्ति हि। मार्ज्जारनकुलादीनां विषं नातिप्रवर्त्तते”।
“अथातःसर्पदष्टचिकित्सितकल्पं व्याख्यास्यामः। सर्वैरेवादितः सर्पैःशाखादष्टस्य देहिनः। दंशस्योपरि बध्नीयादरिष्टा(तागा)-श्चतुरङ्गुले। प्लोतचमान्तवल्कानां मृदुनाऽन्यतमेन च। न गच्छति विषं देहमरिष्टाभिर्निवारितम्। दहेद्दंश-मथोत्कृत्य यत्र बन्धो न जायते। आचूषणच्छेददाहा{??}सर्वत्रैव तु पूजित। प्रतिपूर्य्य मुखं वस्त्रैर्हितमाचूषणंभवेत्। स दष्टव्योऽथ वा सर्पो लोष्टो वापि हि तत्-क्षणम्। अथ{??}ण्डलिना दष्टं न कथञ्चन दाहयेत्। स पित्तविषबाहुल्याद्दशो दाहाद्विसर्पति। अरिष्टामपि[Page5257-a+ 38] मन्त्रैश्च बध्नीयान्मन्त्रकोविदः। सा तु रज्ज्वादिभिर्बद्ध्वाविषघ्नतिकरो मता। देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्यतपोमयाः। भवन्ति नान्यथा क्षिप्रं विषं हन्युः सुदु-न्तरम्। विषं तेजोमयैर्सन्त्रैः सत्यब्रह्मतपोमयैः। यथानिवार्य्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः। मन्त्राणां ग्रहणंकाय्य स्त्रीमांसमधुवर्जिना। जिताहारेण शुचिना कु-शास्तरणशायिना। गन्धमाल्योपहारैश्च बलिभिश्चापिदेवताः। पूजयेन्मन्त्रसिद्ध्यर्थं जपहोमैश्च यत्नतः। म-न्त्र स्तु विधिना प्रोक्तः हीना वा स्वरवर्णतः। यस्मान्नसिद्धिमायान्ति तस्माद् योज्योऽगदक्रमः। समन्ततःसिरादंशाद्विद्धेषु कुशलो भिषक्। शाखाग्रे वा ल-लाटे वा वेध्यास्ता विसृते विषे। रक्ते निर्ह्रियमाणेतु कृत्स्नं निर्ह्रियते विषम। तस्माद्विसावयेद्रक्तं सा ह्यस्यपरमा क्रिया”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्प¦ m. (-र्पः)
1. A snake, a serpent.
2. Gentle or twining motion, gliding, flowing, creeping. f. (-र्पी) The female of the snake. E. सृप् to go, to glide, aff. अच् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्पः [sarpḥ], [सृप्-घञ्]

Serpentine or winding motion, gliding.

Flowing, going.

A snake, serpent.

N. of a tree (नागकेशर).

The Āśleṣā constellation.

N. of a tribe of Mlechchhas or barbarians. -Comp. -अक्षी a kind of plant (Mar. थोर मुंगूसवेल). -अदनी the ichneumon plant (Mar. मुंगूसवेल).

अरातिः, अरिः an ichneumon.

an epithet of Garuḍa.-अशनः a peacock. -आवासः an ant-hill. -आवासम्, -इष्टम् the sandal tree. -ईश्वरः N. of Vāsuki.-गतिः a snake's tortuous movement (in wrestling).-गन्धा the ichneumon plant (Mar. लघु मुंगूसवेल). -छत्रम् a mushroom. -तृणः an ichneumon.

दंष्ट्रा a snake's fang.

Croton Polyandrum (दन्ती). -दण्डा a kind of pepper. -दमनी N. of a plant (Mar. वांझ कर्टोली). -द्विष् a peacock. -धारकः a snake charmer. -निर्मोचनम् the cast-off skin of a snake. -फणिजः the gem found in a snake's head, the snake-gem. -बन्धः an artifice, subtle device. -भुज् m.

a crane.

a large snake. -भृता the earth. -मणिः a snake-gem. -राजः N. of Vāsuki. -लता Piper Betel (नागवल्ली); also सर्पवल्ली. -विद्m. a conjuror, snake-charmer. -विद्या, -वेदः Snakescience; सर्पदेवजनविद्यामेतद्भगवो$ध्येमि Ch. Up.7.1.2.-सत्रम् a sacrifice for the destruction of serpents (performed by king Janamejaya). -सत्रिन् m. N. of king Janamejaya; see जनमेजय. -हन् m

an ichneumon.

N. of Garuḍa.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्प mf( ई)n. creeping , crawling , stealing along Gaut. (See. पीठ-, वृक्ष-स्)

सर्प m. ( ifc. f( आ). )a snake , serpent , serpent-demon(See. नाग; सर्पाणाम् अयनम्, " a partic. annual festival ") , tortuous motion RV. etc.

सर्प m. a partic. constellation (when only the three unfavourable planets are situated in the three केन्द्रs) VarBr2S.

सर्प m. Mesua Roxburghii L.

सर्प m. N. of one of the 11 रुद्रs MBh. of a राक्षसVP.

सर्प m. ( pl. )N. of a partic. tribe of म्लेच्छs (formerly क्षत्रियs and described as wearing beards) Hariv.

सर्प m. N. of the wife of a रुद्रib.

सर्प n. = सप-सामन्See. ([ cf. Gk. ? Lat. serpens ; See. also under स्रिप्.])

सर्प etc. See. p. 1184 , col. 1.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a राक्षस with the sun in nabhonabha months; a son of यातुधान. Br. II. २३. ११; III. 3. ७०; 7. ९०; वा. ६९. १२८.
(II)--a son of ब्रह्मधान. Br. III. 7. ९८; वा. ६९. १३३.
(III)--to be worshipped in house-building. M. २५३. २७.
(IV)--one of the eleven Rudras. वा. ६६. ६९.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SARPA : A son of Tvaṣṭā. According to Agni Purāṇa the sons of Tvaṣṭā were called Ekādaśarudras; But according to Mahābhārata, Sarpa, one of the Ekādaśa- rudras is the son of Sthāṇu and the great-grandson of Brahmā. (Ādi Parva, Chapter 66, Verse 2).


_______________________________
*4th word in left half of page 698 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सर्प&oldid=439776" इत्यस्माद् पुनः प्राप्तिः