सहचरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहचरी, स्त्री, (सह चरति या । चर + अच् । पचादिषु चरतेष्टित्करणात् ङीष् ।) पीत- झिण्टी । इत्यमरः । २ । ४ । ७५ ॥ सखी । इति जटाधरः ॥ पत्नी । इति हेमचन्द्रः ॥ (यथा, रघुः । ९ । ५७ “लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् । आकर्णकृष्टमपि कामितया स धन्वी बाणं कृपामृदुमनाः प्रतिसञ्जहार ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहचरी स्त्री-पुं।

पीतझिण्टिका

समानार्थक:कुरण्टक,सहचरी

2।4।75।2।2

सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरबकोऽरुणे। पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहचरी¦ स्त्री सह चरति चर--ट ङीप्।

१ पीतझिण्ट्यां

२ सख्यां जटा॰। सह चरति धर्मम् चर--ट ङीप्। धर्म-पत्न्यां हेमच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहचरी/ सह--चरी f. a female companion or friend , mistress , wife Ka1lid. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=सहचरी&oldid=218221" इत्यस्माद् प्रतिप्राप्तम्