साक्ष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्ष्यम्, क्ली, (साक्षिणो भावः कर्म्म वा । साक्षिन् + ष्यञ् । यद्वा, साक्षिणि भवम् । साक्षिन् + “दिगादिभ्यो यत् ।” ४ । ३ । ५४ । इति यत् ।) साक्षिकर्म्म । यथा । मनुः । “समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति ।” एतत् प्रमाणमात्रोपलक्षणम् । “अनुभावी च यः कश्चित् कुर्य्यात् साक्ष्यं विवा- दिनाम् ।” इति तद्वचनान्तरात् ॥ अतएवाकृतमपि साक्षिणमाह । मनुः । “यत्रानिरुद्धो वीक्ष्येत शृणुयाद्वापि किञ्चन । पृष्टस्तत्रापि तद्ब्रूयात् यथादृष्टं यथाश्रुतम् ॥” अनिरुद्धस्तत्र साक्षित्वेनानियुक्तः । परम्परयापि श्रवणमाह विष्णुः । “उद्दिष्टसाक्षिणि मृते देशान्तरगतेऽपि वा । तदभिहितश्रोतारः प्रमाणं नात्र संशयः ॥” अस्योत्तरसंज्ञामाह नारदः । “साक्षिणामपि यत् साक्ष्यं स्वपक्षं परिभाषताम् । श्रवणात् श्रावणाद्वापि स साक्ष्युत्तमसंज्ञकः ॥” म्वपक्षसम्बन्धिसाक्ष्यं परिभाषतां साक्षिणां यः स्वयं शृणोति अर्थिना श्राव्यते वा स श्रवणात् श्रावणादुत्तरसाक्षीत्यर्थः । एवं योऽर्थिना गूढ- तया प्रत्यर्थिवचनं श्रावितः स गूढसाक्षीत्याह स एव । “अर्थिना स्वार्थसिद्ब्यर्थं प्रत्यर्थिवचनं स्फुटम् । यः श्राव्यते तदा गूढो गूढसाक्षी स उच्यते ॥” तेनान्यतरवाद्यभिहितार्थविषयकदृष्टकारणजं विज्ञापनं साक्ष्यमिति स्थितम् । तत्र नारदः । “तषामपि न बालः स्यान्नैको न स्त्री न दुष्ट- कृत् । न बान्धवो न चारतिब्रूयुस्ते कार्य्यमन्यथा ॥” कार्य्यं सदपि अन्यथा तद्विरुद्धत्वेन । एवञ्च यदि परमधार्म्मिकत्वेन बान्धवादीनामपि सत्य- वादित्वं निश्चीयते तदा तेऽपि साक्षिणो भवितु- मर्हन्तीति । तेषां साक्ष्यविधायकं वक्ष्यमाण- मनुवचनमपि एतादृग्विषयम् ॥ * ॥ याज्ञवल्क्यः । “त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्त्तक्रिया- रताः । यथाजाति यथावर्णं सर्व्वे सर्व्वेष वा स्मृताः ॥” त्रयोऽवरा निकृष्टा येषां ते त्र्यवराः त्रिभ्यो अन्यूना भवन्तीत्यर्थः । यथेति यो यज्जातीय- स्तस्य तज्जातीयः साक्षी । स्त्रीणां स्त्रियोऽन्त्य- जानामन्त्यजाः । यथावर्णं ब्राह्मणानां ब्राह्मणाः क्षत्त्रियादीनां क्षत्त्रियादयः । अभावे तु तत्त- द्भेदं विना सर्व्व एव ॥ * ॥ त्र्यवरा इत्यस्याप- वादमाह स एव । प्रक्रान्ते साहसे वापि पारुष्ये दण्डवाचिके । बलोद्भवेषु कार्य्येषु साक्षिणो दिव्यमेव च ॥” बृहस्पतिः । “लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः । तस्य कार्य्यं न सिध्येत यावत्तन्न विशोधयेत् ॥” तल्लेख्यसाक्षिरूपप्रमाणम् ॥ * ॥ लेख्यशोधन- माह । कात्यायनः । “सहस्तलेख्यसन्देहे जीवतो वा मृतस्य च । तत् स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ॥” तथा । “समवेतैश्च यद्दृष्टं वक्तव्यं तत्तथैव च । विभिन्नेनैव कार्य्ये तु तद्वक्तव्यं पृथक् पृथक् ॥ नापृष्टैरनियुक्तैर्वा समं सत्यं प्रयत्नतः । वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानमागतैः ॥ अनुद्विग्नेन चित्तेन दृष्टं सम्यग्विदा तु यत् । प्रत्यक्षं तत स्मृतं कार्य्यं साक्ष्यं साक्षी तु तद्ब- देत् ॥” नारदः । “यः परार्थेऽपहरति स्वां वाचं पुरुषाधमः । आत्मार्थे किं न कुर्य्यात् स पापी नरकनिर्भयः ॥ अर्थावै वाचि नियता वाङ्मूला वाग्विनिःसृता । यस्तु तांस्तेनयेद्वाचं स सर्व्वस्तेयकृन्नरः ॥” बौधायनः । “पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्व्वं भूम्यनृते हन्ति साक्ष्ये साक्षी मृषा वदन् ॥” बृहस्पतिः । “यस्याशेषं प्रतिज्ञातं साक्षिभिः प्रतिपादितम् । स जयी स्यादन्यथा तु साध्यार्थं न समाप्नुयात् ॥” याज्ञवल्क्यः । “उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः । द्विगुणा वान्यथा ब्रुयुः कूटाः स्युः पूर्व्व- साक्षिणः ॥” अन्यथा पूर्व्वविपरीतार्थप्रकारेण । कूटा अना- देयवचनाः । तथा, -- “यः साक्ष्यं श्रावितोऽन्येभ्यो निह्रुते तमसावृतः । स दाप्योऽष्टगुणं दण्डंब्राह्मणञ्च विवासयेत् ॥” त्वमन्येभ्यः साक्ष्यं श्रावयेति वादिना प्रयुक्तो यः श्रावितः कारितद्वयात् पदसिद्धिः । एवम्भूतो- ऽपि सभायां निगदकाले साक्ष्यं निह्रुते यस्तस्याष्ट- गुणो दण्डः । इति व्यवहारतत्त्वम् ॥ (त्रि, दृश्यः इति श्रीधरस्वामी ॥ यथा, भागवते । ५ ११ । ७ । “तावानयं व्यवहारः सदाविः क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्ष्य¦ न॰ साक्षिणो भावः कर्म वा ष्यञ्।

१ व्यवहारविषय-वृत्तवृत्तान्तकथनरूपे साक्षिकर्मणि

२ तद्भावे च
“समक्षदर्श-नात् साक्ष्यं श्रवणाच्चैव सिध्यति” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्ष्य¦ n. (-क्ष्यं) Testimony, evidence. E. साक्षिन्, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्ष्यम् [sākṣyam], 1 Evidence, testimony; तमेव चाधाय विवाहसाक्ष्ये R.7.2.

Attestation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्ष्य/ सा mfn. visible to( comp. ) BhP.

साक्ष्य/ सा n. testimony , evidence , attestation( अं-कृ, " to give evidence for ") Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=साक्ष्य&oldid=505497" इत्यस्माद् प्रतिप्राप्तम्