सादृश्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादृश्यम्, क्ली, (सदृशस्य भावः । सदृश + ष्यञ् ।) सदृशत्वम् । तद्भिन्नत्वे सति तद्गतभूयोधर्म्मवत्त्वम् । यथा चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादि- मत्त्वं मुखे चन्द्रसादृश्यम् । इति सिद्धान्तमुक्ता- वली ॥ * ॥ अथ सादृश्यानि । वेण्याः सर्पः १ भ्रमरश्रेणिः २ । केशपाशस्य चामरः १ मयूर- पुच्छः २ । धम्मिल्लस्य विधुन्तुदः १ अन्धकारः २ । सीमन्तस्य मेघः १ पन्थाः २ दण्डः ३ । लला- टस्य अष्टमीचन्द्रः १ फलकम् २ । कपोलस्य चन्द्रः १ मुकुरस्थलम् २ । भ्रुवोः खड्गः १ धनुर्यष्टिः २ रेखा ३ पल्लवः ४ वल्लिः ५ । दृशोः चकोरचक्षुः १ हरिणचक्षुः २ मदिरा ३ खञ्जनः ४ अञ्जनम् ५ कुमुदम् ६ नीलपद्मम् ७ प्रोष्ठीमत्स्यः ८ । कर्णस्य दोला १ पाशः २ । नासायाः वंशः १ केतकीपुष्यकण्टकः २ अधो- मुखतूणीरः ३ चञ्चुः ४ तिलपुष्पम् ५ दण्डः ६ । अधरस्य नवपल्लवम् १ विम्बफलम् २ प्रबालः ३ । दन्तानाम् मुक्ताश्रेणिः १ कुन्दपुष्पम् २ दाडिम- बीजम् ३ हीरकम् ४ । स्मितस्य ज्योत्स्ना १ पुष्पम् २ पीयूषम् ३ । श्वासस्य पद्मगन्धः १ ऋतोः मलयवायुः १ मद्यम् २ उन्मादरोगः ३ । विरहिणं प्रति यमः १ अग्निः २ विषम् ३ सर्पः ४ । ग्रीष्मऋतोः अग्निः १ विरहः २ विरहिणी- निश्वासः ३ सर्पनिश्वासः ४ । वर्षाऋतोः रात्रिः १ समुद्रः २ गगनम् ३ नारायणः ४ । शरदृतोः काशपुष्पादिरूपचामरैरावतगजाः १ चन्द्रः २ । शीतऋतोः अपस्मारिव्यक्तिः १ राज्यशून्यराजा २ । शिशिरऋतोः राजागमनकालः १ । गुणिनः समुद्रः १ पर्व्वतः २ पृथिवी ३ मदनः ४ अश्विनौ ५ । सचिवस्य बृहस्पतिः १ । वाक्यस्य कोकिलशब्दः १ भ्रमरगुञ्जनम् २ वीणा- वाद्यम् ३ । इति कविकल्पलतायाम् ४ स्तवके ४ कुसुमम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादृश्य¦ न॰ सदृशस्य भावः ष्यञ्। तद्भिन्नत्वे सति तद्गत-भूयोधर्मरूपे उपमानधर्मे। तच्च सादृश्यं सप्तपदार्थाति-रिक्तः पदार्थ इति मीमांसकाः। तन्मतमुक्तं मुक्तावल्यां
“सादृश्यमतिरिक्तः पदार्थ इति मीमांसकाः”। तन्मतञ्चउपमानचिन्तामणौ निराकृतम् उपमानशब्दे

१२

३५ दृश्यम्। सादृश्यवाचका इवादिनिपाताः पदृशादिशब्दाश्च तत्र इवादिभिः निपातैः सादृश्यस्याभिधाने प्रति-योग्यनुयोगिनोः समानविभक्तिकत्वं, गौरिव गवय चन्द्र-मिव मुखं वश्यतीत्यादि। अन्ये तु गवादिशब्दा एवगोसदृशे लाक्षणिकाः इवादिशब्दास्तथालक्षणायां तत्प-र्य्यग्राहका इत्याहुः तुलोपमाभिन्ननाम्ना तस्याभिधानेप्रतियीगिनि तृतीया षष्ठी च। तुलोपमाभ्यां योगे तु ष-ष्ठ्येव। सादृश्ये च एकस्य प्रतियोगिताऽन्यस्तानुयोगिता तत्रप्रतियोगिन उपमानत्वमनुयोगिन उपमेयत्वमिति। उप-मानोपमेयभावस्य द्वयोः सम्भवेऽपि प्रसिद्धस्येवोप्रमानता। तत्र काव्ये केषाद्विस्तूनां कुत्रचिदुपमानतया वर्णनं युक्तं[Page5276-b+ 38] तन्निर्णीतं कविकल्पलतार्या यथा
“वेण्याः सर्पादिभृङ्गाल्यःकेशषाशस्य चामरः। नीलण्ठकलापोऽपि, धम्मिल्लस्यविधुन्तुदः। सीमन्तस्य चाध्वदण्डौ ललाटस्वाष्टमी विधुः। मकरश्च, कपोलस्य चन्द्रः स्यात् मुकुरः स्थली। भ्रुवोःखड्गधनुर्यष्टी रेस्वापल्लवल्लयः। दृशश्चकोरहरिणमदिरा-खञ्जनाञ्जनम्। कुमुदं नीलमग्भाजं, श्रुतेर्दीपः सपाशकः। नासायाः स्युस्तु वंशाधोमुखतूणीरचञ्चवः। तिलप्र-सूनदण्डौ चाधरस्य नवपल्लवः। विम्बीफलं प्रवालंच, दन्तानां मौक्तिक्वावलिः। कुन्ददाडिमवीजानिहीरकाश्च, स्मितस्य च। ज्योत्स्ना पुष्पाणि पीयूषं,श्वासस्याम्भोजसौरभम्। जिह्वायाश्चौड्रलोले च वाण्याभृङ्गापकध्वनी। वीणावाद्यं मधु सुधा, मुखस्य चन्द्रमा-स्तथा। अम्भोजदर्पणौ चापि चिवुके दर्पणाग्रकम्। कण्ठस्य कम्बूरसस्य कुम्भो वाह्वोस्तु वल्लरी। मृणा-ललहरीशाखापाशाः, पाणितलस्य तु। पल्लवश्चाङ्गु-लीनां तु पल्लवीऽम्भोजपत्रकम्। दीपो नवदलं चैवचम्बकं, नखसन्ततेः। रत्नतारेन्दुपुष्पाणि, स्तनयोःकुद्मलौ घटौ। कुम्भिकुम्भौ गिरी चक्रौ बिल्वे, मध्यस्यवेदिका। सिंहमध्यं वज्रमध्यं क्षीणद्रव्यञ्च कथ्यते। उपमानानि रोमाल्याः रेखाशेवालवल्लयः। नीलकान्त-मणीधूमलताद्विरदशुण्डकाः। नाभेरम्भोजमावर्त्तो ह्रदोविवरकूपकौ। त्रिबल्या वीचिसोपाननिःश्रेण्यो, जघनस्यतु। पुलिनं पीठफलके, नितम्बस्य स्थलं पुनः। पर्वतःपृथिवी स्थूलोपलं वस्तु च यन्महत्। ऊर्वोः कद-लिकास्तम्भेभकरो करभस्तथा। जङ्घाद्वयस्य स्तम्भश्चपादस्य नवपल्लवः। अम्भोजं च गतेर्हंसखञ्जनद्विदतांगतिः। इमान्यन्यान्यपि स्त्रीणां पुंसामपि स-मानि तु। पु सो रूपोपमानानां विशेषः कोऽपि कथ्यते। स्कन्धस्य वाजिवृषभस्कन्धौ बाह्वोर हीश्वरः। हस्तिहस्त-स्तथा स्तम्भार्गलदण्डाश्च, वक्षसः। शिलापट्टकपाटे चप्रमत्ताक्षगतिर्गतेः। यशसः कुन्दचन्द्राद्याः शुभ्रव-र्णास्तथा मताः। प्रतापस्याग्निसूर्य्यौ च वाडवाग्नीरषेः करः। जवापुष्पादयश्चैव रक्तवर्णपदार्थकाः। पुण्यस्यगौर्वृक्षवीजं सस्कारोऽङ्कुर एव च। शुक्लवर्णाः पदाथांवे तेऽप्यत्र परिकीर्त्तिताः। सामर्थ्यस्य महद्वस्तु पञ्चास्य-विक्रमादिकम्। नीतेर्लतादिः साध्वीस्त्री ज्वाला दीपस्यकीर्त्तिता। आदेशस्योत्कटेच्छादिर्वेदवाक्यं गुरोर्वचः। शासनस्य स्थिरार्थाश्च प्रारन्धकर्म कीर्त्तितम्। पापस्य[Page5277-a+ 38] कर्दमोऽकीर्त्तिः कलङ्कः कृष्णवर्णकः। अन्धकारः केश-मसोप्रगृतिश्चोपमानकम्। अकीत्तेः कृष्णवस्तूनि मा-लिन्यं तमसां ततिः। कस्तूरिकाया भ्रमरो नीलकान्तमणिर्घनः। सुगन्धिद्रव्यदाहोत्थधूमः कज्जलकं तथा। कृष्णपुष्पप्रभृतयः कामाकीर्त्तिः स्थलान्तरे। कामिनोरय-शस्तद्वत् कज्जलस्यापि तानि च। कर्पूरस्य तथा चन्द्रःशशाङ्काकरणस्तथा। यूथिकाकुन्दकुसुमं विरहिगण्ड-कस्तथा। हिण्डीरपिण्डः प्रथित उपमानतया भवि। मनोरथस्य विज्ञेयः फलपुष्पादियुक्तरुः। कविबुद्धि-कल्पना स्यादानन्दस्य सुधार्णवः। ब्रह्मसाक्ष त्कृति-स्तद्वत्, कमिनीदर्शनस्य तु। अतिप्रियतमप्राप्तिर्ब्रह्म-साक्षात्कृतिस्तथा। सुधारसो नित्यसुखसाक्षात्कार-स्तथा मतः। पूर्णचन्द्रादिकस्यापि साक्षात्कारः प्रकी-र्त्तितः। अमृतस्य तु सत्काव्यं कामिन्यधरपानकम्। व्रह्मसाक्षात्कृतिस्तद्वत्, विषस्याघ प्रकीर्त्यते। साध्वीस्त्रीविरहः पापं मलिनं दुःखदं च यत्। ग्रीष्माग्निःशीतकालीनशीतोदं परिकीर्त्तितम्। व्यभिचारिणी चया नारी सापि तद्वत् प्रकीर्त्तिता। विरहस्याग्निरा-धिश्च यातना च प्रयोनिधिः। दु खदानि च वस्तूनितप्तानि कथितानि च। पुष्पाणां कामिनी चन्द्रःकर्पूरञ्च यशस्तशा। चन्द्रस्य प्रमदावक्त्रमतिशुभ्रञ्चयद्भवेत्। यशः पुण्यादिकं वस्तु चोपमानतयेष्यते। सूर्य्यस्य शिवनेत्राग्निः काञ्चनक्ष्मारुहस्तथा। बाड-बाग्निर्जवापुष्पं वसन्तोत्थपलाशकः। पद्मस्य कामिनी-वक्त्वं पाटल रक्तवस्तु च। इन्दीवरस्य कस्तूरी नील-कान्तमणिस्तथा। कामिनीनयनं तद्वत् कैरवस्य तुचन्द्रमाः। कुन्दादिपुष्पमन्यच्च शुभ्रवर्णञ्च यद्भवेत्। राज्ञ इन्द्रः कुवेरश्च चन्द्रमा भास्करस्तथा। नलप्रभृ-तयो ये तु प्रसिद्धाश्चक्रवर्त्तिनः। मेघंस्य काली कृष्णश्चनीलपाथोजसंहतिः। इन्दीवरं वनं दाता कृष्णार्थोभ्रमरावली। शरन्मेधस्य चन्द्रादिशुक्लवर्णपदार्थकाः। कन्दर्पस्य नलश्चन्द्र आश्विनौ च पुरूरवाः। दीपस्यर्षिश्च-म्पकञ्च प्रतापः शास्त्रकं तथा। वायोः शीघ्रगवस्तूनिकीर्त्तितानि पुरातनैः। अश्वस्य वायुर्हरिणो मनश्च,हस्तिनो गिरिः। मेधस्तमालवृक्षश्च तमसाञ्च समुचयः। सौधस्योच्चैःश्रवाश्चन्द्रः कैलासैरावतौ मतौ। शिवस्यसौधवत् सर्वं कृष्णस्य सजली घनः तमालवृक्षोभ्रमरश्रेणीन्दीवरकं नभः। नीलकान्तमणिर्नीलपद्मं[Page5277-b+ 38] रामस्य पूर्ववत्। नवदूर्वादलं वृक्षपल्लवं चाधिकम् पुनः। लक्ष्म्यास्तु पार्वती चन्द्रकान्तिः सीता रतिस्तथा। द्रौपदीपद्मकान्तिश्च पुराणैः परिकीर्त्तिता। सरस्वत्याश्चन्द्र-कला कैलासाचलकान्तयः। शुक्लवर्णपदार्थाश्च, विप-णेस्तु समुद्रकः। ब्रह्माण्डं पण्डितमनस्तथा नारायणो-दरम्। समुद्रस्य च मेघादि वस्तु कृष्णं च यद्भवेत्। विदूरक्ष्मा भारतञ्च तथापस्मारिरोगवान्। पुरस्यस्वर्गः कैलासो यत् वृहत् स्यात् मनोरमम्। रथस्यपृथ्वी वैकुण्ठपुरी पोतश्च पुष्पकम्। कामिन्यास्तुतडित्तारा स्वर्णवर्णा च केतकी। उपमानतया स्वर्ण-लतापि परिकीर्त्तिता। नायकस्य तु कन्दर्प ऐलश्चन्द्री-ऽश्विनौ तथा। सभायास्तु सुधर्मा स्यात् गङ्गा सूर्य्यस्यमण्डलम्। गण्डकी पर्वती मेरुरुपमानतया मतः। पण्डितस्य सुराचार्य्य ऋषिः शुक्रः सरस्वती। श्रीरा-मस्तु विरहिणः शिवोऽजो दुःखितो जनः। उन्मत्त-श्चन्दनतरुः शिवशेखरचन्द्रमाः। बाडवाग्नियुताब्धिश्चवल्मीकोऽद्रीन्दुशेखरः। दातुः कर्णः कल्पवृक्षः काम-धेनुरुशीनरः। रोहणोऽब्धिरव्दवली जैमिनिश्च युधि-ष्ठिरः। वसन्तर्त्तोर्मतं मद्यमुन्मादो मलयानिलः। यमो-ऽग्निर्विषसर्पौ च स स्यात् विरहिणं प्रति। ग्रीष्मर्त्तोर-ग्निर्विरहोऽहिनिश्वासस्तथा पुनः। विरहिण्याश्चनिश्वास उपमानतया मतः। वर्षर्त्तोरजनी व्योम नारा-यणसमुद्रकाः। शरदः काशपुष्पादिरूपशीतांशुचामाराः। सैरावतगजा ज्ञेया उपमानतया बुधैः। शीतर्त्तोरुपमानं स्यात् राज्यशून्यस्तु भूपतिः। तथापस्माररोगाद्याविद्वद्भिः परिकीर्त्तितः। शिशिरर्त्तोस्तु गुणिनःसमुद्रोऽद्रिर्धराश्विनौ। राजागभनकालश्च मदनोऽपिमतो विदाम्। सचिवस्योपमानं तु सुराचार्य्यः प्रकी-र्त्तितः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादृश्य¦ n. (-श्यं)
1. Resemblance, similarity.
2. A likeness, an image, a portrait. E. सदृश like, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादृश्यम् [sādṛśyam], 1 Likeness, resemblance, similarity; सन्ति पुनर्नामधेयसादृश्यानि Ś.7; तवाक्षिसादृश्यमिव प्रयुञ्जते Ku.5.35; 7.16; R.1.4;15.67.

A likeness, a portrait, an image; मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती Me.87.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादृश्य n. likeness , resemblance , similarity to( comp. ) A1past. R. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=सादृश्य&oldid=222168" इत्यस्माद् प्रतिप्राप्तम्