साधारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारणः, त्रि, (आधारणं अविशेषेण कार्य्यादि- भारधारणं तेन सह वर्त्तते इति ।) समानः । सदृशः । इत्यमरः । २ । १० । ३७ ॥ (यथा, कुमारे । १ । ४२ । “कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननात् बभूव साधारणो भूषणभूष्यभावः ॥”) सामान्यम् । अनेकसम्बन्ध्येकवस्तु । इति चामरः । ३ । १ । ८२ ॥ यथा, -- “साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधम् । शौर्य्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ॥” इति दायभागः ॥ तद्वैदिकपर्य्यायः । स्वः १ पृश्निः २ नाकः ३ गौः ४ विष्टप् ५ नभः ६ । इति षट् साधा- रणनामानि । इति वेदनिघण्टौ । १ । ४ ॥ * ॥ पुं, न्यायमते हेत्वाभासविशेषः । यथा, -- “अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासस्तु पञ्चधा ॥ आद्यः साधारणस्तु स्यात् स्यादसाधारणो- ऽपरः । तथैवानुपसंहारी त्रिधानैकान्तिको भवेत् ॥ यः सपक्षे विपक्षे च स तु साधारणो मतः । यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो मतः ॥ तथैवानुपसंहारी केवलान्वयिपक्षकः ॥” इति भाषापरिच्छेदः ॥ (देशविशेषः । क्ली, उदकविशेषश्च । यथा, -- “मिश्रचिह्नस्तु यो देशः स हि साधारणः स्मृतः । तस्मिन् देशे यदुदकं तत्तु साधारणं स्मृतम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ “उभयगुणसमेतं नातिरुक्षं न स्निग्धं न च खरबहुलञ्च स्नेहनं कण्टकाढ्यम् । भवति च जलमल्पं नातिशीतं नचोष्णं समप्रकृतिसमेतं विद्धि साधारणञ्च ॥” इति हारीते प्रथमस्थाने चतुर्थेऽध्याये ॥ “जाङ्गलं वातभूयिष्ठमनूपन्तु कफोल्वणम् । साधारणं सममलं त्रिधा भूदेशमादिशेत् ॥” इति वाभटे सूत्रस्थाने प्रथमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारण वि।

सदृशः

समानार्थक:वाच्यलिङ्ग,सम,तुल्य,सदृक्ष,सदृश,सदृश्,साधारण,समान

2।10।37।1।1

साधारणः समानश्च स्युरुत्तरपदे त्वमी। निभसङ्काशनीकाशप्रतीकाशोपमादयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

साधारण वि।

साधारणम्

समानार्थक:साधारण,सामान्य

3।1।82।1।1

साधारणं तु सामान्यमेकाकी त्वेक एककः। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारण¦ त्रि॰ सह धारणया स्वार्थेऽण्।

१ सदृशे अमरः। [Page5278-b+ 38]

२ अनेकस्वत्ववत्येकस्मिन्

३ धने
“साधारणं समाश्रित्य यत्-किञ्चिद्वाहनादिकम्” स्मृतिः। स्त्रियां गौरा॰ ङीष्। सा च

३ कुञ्चिकायां

४ वेश्यादिनायिकायाञ्च
“यः सपक्षेविपक्षे च भवेत् साधारणस्तु सः” भाषा॰ उक्ते

५ हे-त्वाभासभेदे पु॰। यथा वह्निमान् द्रव्यत्वादित्यादौ द्रव्य-त्वहेतुः सपक्षे पर्वते विपक्षे ह्रदादौ च वर्त्तते इतिसाधारणः। स चानैकान्तिकभेदः
“आद्यःसाधारणस्तुःस्यादन्योऽसाधारणो मतः। तथैवानुपसंहारी त्रिधा-ऽनैकान्तिको मतः” भाषा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारण¦ mfn. (-णः-णा or णी-णं)
1. Like, similar.
2. Common, belonging to all or many.
3. Generic. n. (-णं)
1. A common rule or precept, one applicable to many persons or things.
2. A specific or generic character, one common to all the individuals of a species, or all the species of a genus, &c. f. (-णी) A small bolt or bar. E. स for सह with, धारण having, aff. अण् or ष्यञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारण [sādhāraṇa], a. (-णा or -णी f.)

Common (to two or more), joint; साधारणो$यं प्रणयः Ś.3; साधारणो भूषणभूष्यभावः Ku.1.42; R.16.5; V.2.16.

Ordinary, common; साधारणी न खलु बाधा भवस्य Aśvad.1.

General, universal; यत्सप्तान्नानि मेधया तपसाजनयत् पिता । एकमस्य साधारणम् Bri. Up.1.5.1.

Mingled, mixed with, in common with; उत्कण्ठासाधारणं परितोषमनुभवामि Ś.4; वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः Ku.2.42.

Equal, similar, like.

(In logic) Belonging to more than one instance alleged, one of the three divisions of the fallacy called अनैकान्तिक q. v.

Occupying a middle position, mean.

णम् A common or general rule, a rule or precept generally applicable.

A generic property. -Comp. -देशः a wild marshy country. -धनम् joint property,

धर्मः a common or universal duty; (अहिंसा सत्यमस्तेयं शौचमन्द्रियनिग्रहः । दमः क्षमार्जवं दानं धर्मं साधारणं विदुः ॥).

the common duty of procreation; (प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवाः । तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ॥).

पक्षः common party.

the mean. -स्त्री a common woman, harlot, prostitute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारण/ सा mf( ईor आ)n. " having or resting on the same support or basis " , belonging or applicable to many or all , general , common to all , universal , common to( gen. dat. instr. with and without सह, or comp. ) RV. etc.

साधारण/ सा mf( ईor आ)n. like , equal or similar to( instr. or comp. ) Hariv. Ka1lid.

साधारण/ सा mf( ईor आ)n. behaving alike Dhu1rtas.

साधारण/ सा mf( ईor आ)n. having something of two opposite properties , occupying a middle position , mean (between two extremes e.g. " neither too dry nor too wet " , " neither too cool nor too hot ") Sus3r. Ka1m. VarBr2S.

साधारण/ सा mf( ईor आ)n. (in logic) belonging to more than the one instance alleged (one of the three divisions of the fallacy called अनैकान्तिकSee. )

साधारण/ सा mf( ईor आ)n. generic W.

साधारण/ सा m. N. of the 44th (or 18th) year of Jupiter's cycle of 60 years VarBr2S.

साधारण/ सा m. a twig of bamboo (perhaps used as a bolt) MW.

साधारण/ सा m. or n. (?) N. of a न्यायwk. by गादधर

साधारण/ सा n. something in common , a league or alliance with( comp. ) Subh.

साधारण/ सा n. a common rule or one generally applicable W.

साधारण/ सा n. a generic property , a character common to all the individuals of a species or to all the species of a genus etc. ib.

"https://sa.wiktionary.org/w/index.php?title=साधारण&oldid=505514" इत्यस्माद् प्रतिप्राप्तम्