सान्दीपनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्दीपनिः, पुं, (सन्दीपनस्यापत्यमिति । सन्दी- पन + इञ् ।) मुनिविशेषः । यथा, ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ९९ । ३० । “विश्वामित्रः सतानन्दो जाजलिस्तैतिलिस्तथा सान्दीपनिश्च ब्रह्मांशो योगिनां ज्ञानिनां गुरुः ॥” अपि च । “विदिताखिलविज्ञानौ तत्त्वज्ञानमयावपि । शिष्याचार्य्यक्रमं वीरौ ख्यातयन्तौ यदूत्तमौ ॥ ततः सान्दीपनिं काश्यमवन्तिपुरवासिनम् । अस्त्रार्थं जग्मतुर्व्वीरौ बलदेवजनार्द्दनौ ॥” काश्यं काश्यां जातम् । “तस्य शिष्यत्वमभ्ये त्य गुरुवृत्तिपरौ हि तौ । दर्शयाञ्चक्रतुर्व्वीरावाचारमखिले जने ॥ सरहस्यं धनुर्व्वेदं ससंग्रहमधीयताम् । अहोरात्रै श्चतुःषष्ट्या तदद्भुतमभूद्द्विज ॥ सान्दीपनिरसंभाव्यं तयोः कर्म्मातिमानुषम् । विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ अस्त्रग्राममशेषञ्च प्रोक्तमात्रमवाप्य तौ । ऊचतुर्ब्रियतां या ते दातव्या गुरुदक्षिणा ॥ सोऽप्यतीन्द्रियमालोक्य तयोः कर्म्म महामातिः अयाचत मृतं पुत्त्रं प्रभाते लवणार्णवे ॥” अतीन्द्रियं अन्यत्रादृष्टपूर्व्वम् । “गृहीतास्त्रौ ततस्तौ तु सार्घपात्रो महोदधिः उवाच न मया पुत्त्रो हृतः सान्दीपनेरिति ॥ दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् । जग्राह सोऽस्ति सलिले ममैवारिनिसूदन ॥ इत्युक्तेऽन्तर्जलं गत्वा हत्वा पञ्चजनञ्च तम् । कृष्णो जग्राह तस्यास्थिप्रभवं शङ्खमुत्तमम् ॥ तं पाञ्चजन्यमापूर्य्य गत्वा यमपुरीं हरिः । बलदेवश्च बलवान् जित्वा वैवस्वतं यमम् ॥ तं बालं यातनासंस्थं यथापूर्व्वशरीरिणम् । पित्रे प्रदत्तवान् कृष्णो बलश्च बलिवां वरः ॥” इति विष्णुपुराणे । ५ । २१ । १८ । ३० ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्दीपनि¦ पु॰ सन्दीपनस्यापत्यम्। इञ्। रामकृष्णयोरा-चार्य्ये अवन्तिपुरवासिनि मुनिभेदे।
“विदिताखिलविज्ञानौ तत्त्वज्ञानमयावपि। शिष्याचार्य्यक्रमं बीरौ ख्यापयन्तौ यदूत्तमौ। ततः सान्दीपनिंकाश्यमवन्तिपुरवासिनम्। अस्त्रार्थं जग्मतुवींरौ बलदेवजनार्दनौ” विष्णुपु॰

५ अशे

२१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्दीपनि¦ m. (-निः) A sage who was the preceptor of KRISHN4A and BALARA4MA.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्दीपनिः [sāndīpaniḥ], N. of a sage. [According to ViṣṇuPurāṇa, he was the tutor of Kṛiṣṇa and Balarāma, and asked as his preceptor's fee that his son, who was kept by a demon named Pañchajana underneath the waters, should be restored to him. Kṛiṣṇa, having undertaken to get him up, plunged into the sea, killed the demon, and brought back the boy to his father.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(also सान्दीपन); of काशी, and a resident of Avanti; was the preceptor of कृष्ण and बलराम. Taught them all branches of learning in ६४ days; got back his dead son recovered from the world of Yama (from the sea वि। प्।) by his pupils as गुरुदक्षिण; acted as purohita in the यज्ञस् performed by कृष्ण at कुरुक्षेत्र; फलकम्:F1: भा III. 3. 2; X. ४५. ३१-49; ९०. ४६. Vi. V. २१, १९-31. [2] वा. ९८. ९९.फलकम्:/F his concern when कृष्ण and Kucela were caught once in storm and rain. फलकम्:F2: भा X. ८०. ३९-40; Br. III. ७३-79.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀNDĪPANI : Preceptor of Śrī Kṛṣṇa and Balabhadra Rāma from whom they learned all the Vedas, art of drawing, astronomy, gāndharva Veda, medicine, training elephants and horses and archery. (For details see under Kṛṣṇa, Para 12).


_______________________________
*1st word in right half of page 683 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सान्दीपनि&oldid=505526" इत्यस्माद् प्रतिप्राप्तम्