साहस्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस्रम्, क्ली, (सहस्राणां समूहः । सहस्र + “भिक्षादिभ्योऽण् ।” ४ । २ । ३८ । इति अण् ।) सहस्रसमूहः इत्यमरः । ३ । २ । ४५ ॥ (यथा, महाभारते । २ । ५८ । १३ । “एतावन्ति च दासानां साहस्राण्युत सन्ति मे ॥” सहस्रमेव । स्वार्थे अण् ।) सहस्रमात्रम् । यथा, -- “हरिस्ते साहस्रं कमलबलिमाधाय पदयो- र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रायाणां रक्षायै त्रिपुरहर जागर्त्ति जगताम् ॥ इति महिम्नस्तवः ॥ (सहस्रेण क्रीतमिति । “शतमानविंशतिक- सहस्रवसनादण् ।” ५ । १ । २७ । इति अण् ।) सहस्रेण क्रीते, त्रि ॥ (सहस्रस्येदमिति । अण् ।) सहस्रसम्बन्धिनि च त्रि ॥ (यथा, विष्णुपादादि- केशान्तवर्णनस्तोत्रे । १४ । “साहस्री वापि संख्या प्रकटमभिहिता सर्व्व- वेदेषु येषाम् ॥”)

साहस्रः, पुं, (सहस्रमस्यास्तीति । सहस्र + “अण् च ।” ५ । २ । १०३ । अण् ।) सहस्रसङ्ख्यक- गजादिना बली । इत्यमरः । २ । ८ । ६२ ॥ (सहस्रविशिष्टे, त्रि । यथा, मनुः । ८ । ३८३ । “सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् शूद्रायां क्षत्त्रियविशोः साहस्रो वै भवेद्दमः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस्र पुं।

सहस्रभटनेता

समानार्थक:साहस्र,सहस्रिन्

2।8।62।1।1

बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः। परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

साहस्र नपुं।

सहस्राणां_समूहः

समानार्थक:साहस्र

3।2।43।1।1

अपि साहस्रकारीषवार्मणाथर्वणादिकम्.

पदार्थ-विभागः : समूहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस्र¦ न॰ सहस्राणां समूहः अण्।

१ सहस्रसमूहे। स्वार्थे अण्।

२ सहस्रसङ्ख्यायाम् न॰। सहस्रं परि-माणमस्य अण्।

३ सहस्रसंख्यान्विते त्रि॰।

४ सहस्र-संख्यकगजसमूहे पु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस्र¦ mfn. (-स्रः-स्री-स्रं)
1. Bought with a thousand.
2. Paid per thou- sand, as interest, duty, &c.
3. Relating or belonging to a thousand. m. (-स्रः) An army or detachment, a thousand strong. n. (-स्रं) The aggregate of a thousand. E. सहस्र a thousand, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस्र [sāhasra], a. (-स्री f.) [सहस्र-अण्]

Relating to a thousand.

Consisting of a thousand.

Bought with a thousand.

Paid per thousand (as interest &c.).

A thousand-fold.

Exceedingly numerous. -स्रः An army or detachment consisting of a thousand men.-स्रम् An aggregate of a thousand; किरीटसाहस्रमणिप्रवेक- प्रद्योतिदोद्दामफणासहस्रम् Bhāg.3.8.6; (also साहस्रकम् in this sense).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहस्र mf( ई, or आ)n. (fr. सहस्र)relating or belonging to a thousand , consisting of or bought with or paid for a -ththousand , thousand fold , exceedingly numerous , infinite VS. etc.

साहस्र m. an army or detachment consisting of a -ththousand men W.

साहस्र m. ( pl. )N. of four एका-हs at which a -ththousand (cows) are given as a fee S3rS.

साहस्र n. ( ifc. f( आ). )an aggregate of a -ththousand or of many -ththousand TBr. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=साहस्र&oldid=505572" इत्यस्माद् प्रतिप्राप्तम्