सिंहासन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिंहासनम्, क्ली, (सिंहचिह्नितमासनम् ।) स्वर्ण- मयराजासनम् । इत्यमरः । २ । ८ । ३२ ॥ अथ सिंहासनयुक्तिः । “राज्ञो वरासनं नाम श्रीसिंहासनमुच्यते ॥ शुभे मुहूर्त्ते शुभमासवर्षे सुवारवेलातिथिचन्द्रयोगे । काले निरुत्पातनिरीतिभावे सिंहासनावस्थविधिं वदन्ति ॥ स्थिरराशिस्थिते भानौ चन्द्रे च स्थिरभोदिते । आसनारम्भमिच्छन्ति गृहारम्भोऽपि येषु च ॥” एतेन गृहारम्भसिंहासनयोरारम्भः । तत्र क्रमः । “बाणवेदाग्निपक्षाणि सोपानानि युगैः क्रमात् चत्वारिंशत्तथा त्रिंशत् विंशतिः षोडशैव च ॥ सिंहान्वितानि ज्ञे यानि चरणानि युगः क्रमात् पद्मः शङ्खो गजो हंसः सिंहो भृङ्गो मृगो हयः ॥ अष्टौ सिंहासनानीति नीतिशास्त्रविदो विदुः । आदित्यादिदशाजानां भूपतीनां यथाक्रमम् ॥ राज्ञः स्वहस्तैरष्टाभिरायामपरिणाहयोः । राजपात्रमिदं नाम सोपानं पुरुषोन्नतम् ॥ तदर्द्धमानं तन्मध्ये राजासनमुदाहृतम् । अर्द्वोन्नतमिदं रम्यं प्रोक्तं कलिमहीभुजाम् । दिगष्टर्द्ध्यब्धिकोणः स्याद्ब्रह्मादीनां यथा- यथम् ॥” अथाष्टानां लक्षणानि । “गम्भारीकाष्ठघटितः पद्ममालोपचित्रितः । पद्मरागविचित्राङ्गः शुद्धः काञ्चनसंवृतः ॥ चरणाग्रे पद्मकापात् पद्मरागविचित्रिताः । दिक्ष्त्रष्टौ पुत्त्रिका राजद्वादशाङ्गलिसम्मिताः ॥ राजा च नृपतिं हत्वा कुर्य्यात् सिंहासनं यदा द्विगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत् ॥ मित्रसिंहासनं पार्थ यदा रोहति भूपतिः । तदा सिंहासनं नाम सर्व्वं नयति तद्वलम् ॥ यदा सिंहासनं कर्त्तुं राजा षष्ठपदाश्रितः । तदा घातेन हन्तव्यो बलेनापि सुरक्षितः ॥” * ॥ योगासनविशेषः । यथा, हठप्रदीपे । “गुल्फौ च वृषणस्याधः सीवन्धाः पार्श्वयोः क्षिपेत् । दक्षिणे सव्यगुल्फन्तु दक्षगुल्फन्तु सव्यके ॥ हस्तौ च जान्वोः संस्थाप्य स्वाङ्गु लीः संप्रसार्य्यच व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ सिंहासनं भवेदेतत् पूजितं योगिभिः सदा । बन्धत्रयस्य सन्धानं कुरुते चासनोत्तमम् ॥”
सिंहासनः, पुं, (सिंहस्य आसनं उववेशनमिव आसनं यत्र ।) षोडशरतिबन्धान्तर्गतचतुर्द्दश- बन्धः । तस्य लक्षणं यथा, -- “स्वजङ्घाद्वयबाहू च कृत्वा योषापदद्वयम् । स्तनौ धृत्वा रमेत् कामी बन्धः सिंहासनो मतः ॥” इति रतिमञ्जरी ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिंहासन नपुं।
सुवर्णकृतराजासनम्
समानार्थक:सिंहासन
2।8।31।2।3
प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम्. नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत्.।
स्वामी : राजा
पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिंहासन¦ न॰ सिंहचिह्नितमासनम्।
१ राजासनभेदेतल्लक्षणं युक्तिकल्पतरौ दर्शितं यथा
“राज्ञो वरासनं नाम श्रीसिंहासनमुच्यते। शुभे मुहूर्त्तेशुभमासवर्षे सुवारवेलातिथिचन्द्रयोगे। काले निरुत्पातनिरोतिभावे सिंहासनावस्थविधिं वदन्ति। स्थिरराशिस्थिते भानौ चन्द्रे च स्थिरभोदिते। आसनारम्भमिच्छन्तिगृहारम्भोऽपि येषु च”। एतेन गृहारम्भसिंहासनयोरा-रम्भ एक एव कालः। तत्र क्रमः
“वाणवेदाग्निपक्षाणिसोपानानि युगैः क्रमात्। चत्वारिंशत्तथा त्रिंशत् विंशतिःषोडशैव च। सिंहान्वितानि ज्ञेयानि चरणानि युगैःक्रमात्। पद्मः शङ्खो गजो हंसः सिंहो भृङ्गो मृगोहयः। अष्टौ सिंहासनानीति नीतिशास्त्रविदो विदुः। आदित्यादि दशाजागां भूपतीनां यथाक्रमम्। राज्ञःस्वहस्तेरष्टाभिरायामपरिणाहयोः। राजपात्रमिदं नाम[Page5291-b+ 38] सोपानं पुरुषोन्नतम्। तदर्द्धमानं तन्मध्ये राजासन-मुदाहृतम्। अर्द्धोन्नतमिदं रम्यं प्रोक्तं कलिमही-भुजाम्। दिगष्टर्द्ध्यब्धिकोणः स्यात् ब्रह्मादीनां यथा-यथम्”। अथाष्टानां लक्षणानि
“गम्भारीकाष्ठघटितःपद्ममालोपचित्रितः। पद्मरागविचित्राङ्गः शुद्धः काञ्चनसंवृतः। चरणाग्रे पद्मकोषात् पद्मरागविचित्रिताः। दिक्ष्वष्टौ पुत्रिका राजद्वादशाङ्गलिसम्मिताः। राजा-सनं चतस्रश्च एवं द्वादशपुत्रिकाः। रत्नैश्च नवभिःकार्य्यं निर्माणं चान्तरान्तरा। रक्तवस्त्रावृतं ह्येतत्पद्मसिंहासनं
१ मतम्। अत्रोषित्वा नरपतिः प्रतापमतिविन्दति। भद्रेन्द्रकाष्ठघटितः शङ्खमालोपशोभितः। शुद्धस्फटिकचित्राङ्गः शुद्धरूप्योपशोभितः। चरणाग्रेशङ्खनाभ्यः पुत्रिकाः सप्नविंशतिः। स्थाने स्थाने विधा-तव्याः शुद्धस्फटिकसंस्कृताः। शुक्लपट्टावृतं ह्येतत् शङ्ख-सिंहासनं
२ मतम्। पनसेनोपघटितो गजमालोपशो-भितः। विद्रुमैरपि वैदूर्य्यैः काञ्चनेनापि शोभितः। चरणाग्रे गजशिरःपुच्छादेकैकपुत्रिका। माणिक्य-रचितारक्तवस्त्रादिकविभूषणम्। गजसिंहासनं
३ नामसाम्राज्यफलदायकम्। शालकाष्ठेन घटितो हंस-मालोपशोभितः। पुष्परागैः काञ्चनेन कुरुविन्दैश्चचित्रितः। चरणाग्रे हंसरूपाः पुत्रिकास्त्वेकविंशतिः। गोमेदकोपथटिताः पीतवस्त्रविभूषणम्। हंससिंहासनं
४ नाम सर्वानिष्टविनाशनम्। चन्दनेनोपघटितः सिंह-मालोपभूषितः। शुद्धहीरकचित्राङ्गः शुद्धकाञ्चननि-र्मितः। चरणानां सिंहलेखाः पुत्रिकाश्चैकविंशतिः। मुक्ताशुक्तिभिर{??}श्च निर्मलैरेव भूषणम्। शुद्धशुण्डा-वृतं ह्येतत् सिंहसिंहासनं
५ मतम्। अत्रोषित्वा नर-पतिः कृत्स्नां साधयति क्षितिम्। भृङ्गमालोपसहितंशुद्धचम्पककल्पितम्। शुद्धैर्मरकतैर्युक्तं पादाग्रे पद्म-कोषिकाः। द्वामिंशतिः पुत्रिकास्तु नीलवस्त्रादिभूष-णम्। भृङ्गसिंहासनं
६ नाम शत्रुक्षयजयप्रदम। निम्बकाष्ठेन घटितं मृगमालोपशोभितम्। शुद्धनीलै-र्महानीलैः काञ्चनेनापि चित्रितम्। चरणाग्रे मृग-शिराश्चत्वारिंशच्च पुत्रिकाः। नीस्नवस्त्रादियुक्तन्तु मृग-सिंहासनं
७ मतम्। लक्ष्मीयिजयसम्पत्तिर्नैरुज्यपदमुत्त-मम्। केशरेणोपठटितं हयमालोपशोभितम्। र्समस्त-वस्त्रैर्भूष द्याः पुत्रिकाः पञ्चसप्ततिः। चरणाग्रे हय-शिरश्चित्रवस्त्रादिमूषणम्। हयसिंहासनं
८ मात लक्ष्मी[Page5292-a+ 38] विजयवर्द्धनम्। इत्येतत् कथितं सारं महासिंहास-नाष्टकम्। यथा भोजेन कथितं यथा चान्यैश्च प-ण्डितैः। एतस्यातिक्रमं दम्भाद् यः कुर्य्यात् पृथिवीपतिः। अचिरादेव कुरुते तस्य मृत्युरतिक्रमम्। परा-सनस्थो यो राजा यो राजा च निरासनः। स परैर्हन्यतेसिंहैरिव मत्तगजाधिपः”। चतुरङ्गक्रीडायां
२ जयभेदेचतुरङ्गशब्दे
२८
६३ पृ॰ दृश्यम्।
३ योगासनभेदे चतल्लक्षणं यथा
“गुल्फो च वृषणस्याधः सीवन्याः शार्श्वयोः क्षिपेत्। दक्षिणे सव्यगुल्फन्तु दक्षगुल्फन्तु सव्यके। हस्तौ चजान्वोः संस्थाप्य स्वाङ्गुलीः सप्रसार्य्य च। व्यात्तवक्त्रोनिरीक्षेत नासाग्र सुसमाहितः। सिंहासनं भवेदे-तत् पूजितं योगिभिः सदा। बन्धत्रयस्य सन्धानं कुरुतेचासनोत्तमम्” इति हठप्रदीपः।
४ रतिबन्धभेदे पु॰
“स्वजङ्घाद्वयबाहू च कृत्वा योषापदद्वये। स्तनौधृत्वा रमेत् कामी बन्धः सिंहासनो मतः”। इतिरतिमञ्जरी
५ चक्रभेदे चक्रशब्दे
२८
१९
० पृ॰ दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिंहासन¦ n. (-नं) A throne. m. (-नः) A kind of coitus thus defined:-- “स्वजङ्घाद्वयबाहु च कृत्वा योषापदद्वये | स्तनौ धृत्वा रमेत् कामी बन्धः सिहासना मतः ||” E. सिंह a lion, (supported by lions, &c. wrought in gold,) and आसन a seat.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिंहासन/ सिंहा n. " lion's-seat " , " king's seat " , " a throne " MBh. Ka1v. etc.
सिंहासन/ सिंहा n. a partic. sedent posture Cat.
सिंहासन/ सिंहा m. a kind of sexual union L.