सिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिता, स्त्री, (सित + टाप् ।) शर्करा । इत्यमरः । २ । ९ । ४३ ॥ अस्या गुणाः । “खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता । सिता सुमधुरा रुच्या वातपित्तास्रदाह- हृत् । मूर्च्छाच्छर्द्दिज्वरान् हन्ति सुशीता शुक्रका- रिणी ॥” इति राजनिर्घण्टः ॥ (यथा, महानिर्व्वाणतन्त्रे । ९ । ७८ । “ततो दुग्धं सिताञ्चैव दत्त्वा पाकविधानतः । सुपचेत् संस्कृते वह्नौ सावधानेन सुव्रते ॥”) मल्लिका । इति शब्दरत्नावली ॥ श्वेतकण्ट- कारी । वाकुची । विदारी । श्वेतदूर्व्वा । चन्द्रिका । कुटुम्बिनी । मद्यम् । पिङ्गा । त्राय- माणा । तेजनी । इति राजनिर्घण्टः । पर्व्वत- जातापराजिता । इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिता स्त्री।

श्वेतनिर्गुण्डी

समानार्थक:सिता,श्वेतसुरसा,भूतवेशी

2।4।71।1।1

सितासौ श्वेतसुरसा भूतवेश्यथ मागधी। गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

सिता स्त्री।

कृष्णभूकूश्माण्डः

समानार्थक:विदारी,क्षीरशुक्ला,इक्षुगन्धा,क्रोष्ट्री,सिता

2।4।110।1।5

विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्टी च या सिता। अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

सिता स्त्री।

शर्करा

समानार्थक:शर्करा,सिता,उपला

2।9।43।2।5

सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके। मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता॥

 : फाणितम्

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिता¦ स्त्री सों--क्त।

१ शर्करायाम्।
“खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता। सितासुमधुरा रुच्या बातपित्तास्रदाहहृत्। मूर्च्छाच्छर्दिज्वरान्हन्ति सुशीता शुक्रकारिणी” राजव॰।

२ मल्लिकायांशब्दर॰

३ श्वेतकण्टकारिकायां

४ वाकुच्यां

५ विदार्य्यां

६ श्वेतदूर्वायां

७ चन्द्रिकायां

८ कुटुम्बिन्यां

९ सुरायां

१० पिङ्गायां

११ त्रायमाणलतायां

१२ तेजन्यां राजनि॰

१३ पर्वतजातापराजितायां रत्नमा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिता [sitā], 1 Candied sugar, sugar; पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस N.3.94; Bv.4.13; संस्कारो मधुर- रसेषु यः सिताभिः Rām. ch.7.3.

Moon-light.

A lovely woman.

Spirituous liquor.

White Dūrvā grass.

Arabian jasmine.

N. of the Ganges.-Comp. -खण्डः, पाकः a kind of refined sugar. -लता white Dūrvā grass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिता f. white sugar , refined sugar Sus3r. : Hcat.

सिता f. of 3. सित, col. 2.

"https://sa.wiktionary.org/w/index.php?title=सिता&oldid=505600" इत्यस्माद् प्रतिप्राप्तम्