सिद्धान्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिद्धान्तः, पुं, (सिद्धः अन्तो यस्मात् ।) पूर्व्व- पक्षं निरस्य सिद्धपक्षस्थापनम् । इति भरतः ॥ (यथा, महाभारते । १ । ७० । ४३ । “स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः ॥”) तत्पर्य्यायः । राद्धान्तः २ । इत्यमरः । १ । ५ । ४ ॥ नवविधज्योतिर्ग्रन्याः । यथा । ब्रह्मसिद्धान्तः १ सूर्य्यसिद्धान्तः २ सोमसिद्धान्तः ३ बृहस्पति- सिद्धान्तः ४ गर्गसिद्धान्तः ५ नारदसिद्धान्तः ६ परागरसिद्धान्तः ७ पुलस्त्यसिद्धान्तः ८ वशिष्ठ- सिद्धान्तश्च ९ ॥ तन्त्राधिकरणाभ्यु पगमसंस्थितिः सिद्धान्तः । स च चतुर्विधः । सर्व्वतन्त्रप्रति- तन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् सर्व्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्व्वतन्त्र- सिद्धान्तः ॥ १ ॥ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥ २ ॥ यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ॥ ३ ॥ अपरीक्षिताभ्यु प- गमात् तद्विशेषपरीक्षणमभ्यु पगमसिद्धान्तः ॥ ४ ॥ इति गोतमसूत्रम् ॥ (तथास्य विवृतिर्यथा, -- “अथ सिद्धान्तः । सिद्धान्तो नाम यः परीक्षकै- र्बहुविधं परीक्ष्य हेतुभिः साधयित्वा स्थाप्यते निर्णयः स सिद्धान्तः । स चोक्तश्चतुर्विधः । सर्व्व- तन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरण- सिद्धान्तः, अभ्युपगमसिद्धान्त इति । तत्र सर्व्वतन्त्रसिद्धान्तो नाम सन्ति निदानानि, सन्ति व्याधयः, सन्ति सिद्ध्युपायाः साध्यानामिति प्रतितन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिंस्तन्त्रे तत्तत् प्रसिद्धं यथान्यत्राष्टौ रसाः षडन्यत्र । पञ्चेन्द्रि- याणि यथान्यत्र षडिन्द्रियाणि । वाताधिकृताः सर्व्वविकारा यथान्यत्र वातादिकृता भूतकृताश्च प्रसिद्धाः । अधिकरणसिद्धान्तो नाम यस्मिन्नधिकरणे संस्तूयमाने सिद्धान्यन्यान्यपि अधिकरणानि भवन्ति । न मुक्तः कर्म्मानुबन्धिकं कुरुते निस्पृ- हत्वादिति प्रस्तुते सिद्धाः कर्म्मफलमोक्षपुरुष- प्रेत्यभावा भवन्ति । अभ्युपगमसिद्धान्तः । अभ्युपगमसिद्धान्तो नाम यमर्थमसिद्धमपरीक्षितमनुपदिष्टमहेतुकं वा वादकालेऽभ्यु पगच्छन्ति भिषजः । तद्यथा द्रव्यं न प्रधानमिति कृत्वा वक्ष्यामः । गुणाः प्रधाना इति कृत्वा वक्ष्यामः । इत्येवमादिश्चतुर्व्विधः सिद्धान्तः ।” इति चरके विमानस्थाने ८ अध्यायः ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिद्धान्त पुं।
सिद्धान्तः
समानार्थक:सिद्धान्त,राद्धान्त,कृतान्त,समय,तन्त्र
1।5।4।2।1
मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्. समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः॥
पदार्थ-विभागः : , पौरुषेयः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिद्धान्त¦ पु॰ सिद्धः निश्चितोऽन्तो यस्मात्। प्रमाणाद्युपन्या-सेन पूर्वपक्षनिरासके सिद्धपक्षस्य स्थापनरूपे
१ वाक्यस्तोमे
२ ज्योतिःशास्त्रभेदे च स च सूर्य्यसिद्धान्तः सोमसिद्धान्तादिः
“त्रुट्यादिप्रलयान्तकालकलनामानप्रभेदः क्रमाच्चारश्च द्यु-सदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः। भूधिष्ण्य-ग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते सिद्धान्तःस उदाहृतोऽत्र गणितस्कन्धप्रबन्धे बुधैः” सि॰ शि॰। गौ॰सूत्रोक्तसिद्धान्तलक्षणभेदो यथा
“तन्त्राधिकरणाभ्युपगम-संस्थितिः सिद्धान्तः” सू॰।
“सर्वतन्त्रप्रतितन्त्राधिकरणाभ्यु-पगमसंस्थित्यर्थान्तरभावात्” सू॰।
“सर्वतन्त्राविरुद्धस्तन्त्रे-ऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः” सू॰।
“समानतन्त्रसिद्धःपरतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः” सू॰।
“यत्सिद्धावन्य-प्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः” सू॰।
“अपरीक्षिता-भ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः” सू॰। (
“तन्त्रं शास्त्रं तदेवाधिकरणं ज्ञापकतथा यस्य,तादृशस्य योऽभ्युपगमस्तस्य समीचोनतयाऽसंशयरूप-तया स्थितिस्तथाच शास्त्रितार्थनिश्चयः सिद्धान्तः अत्रचाभ्युपगम्यमानोऽर्थः सिद्धान्त इति भाष्यम्
“अभ्युप-गमः सिद्धान्त इति वार्त्तिकटीका” न चात्र विरोधःशङ्कनीयः आचार्य्यैः परिहृतत्वाम् तथाच त्रिसूत्रीनिबन्धः अर्थाभ्युपगमयोर्गुणप्रधानभावस्व विवक्षातन्त्र-त्वादर्थाभ्युपगमोऽभ्युपगम्यमानी वार्थः सिद्धान्तस्तेनसूत्रभाष्यवार्त्तिकटीकासु न विरोधः। अत्र च भाष्यानु-सारात् सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसिद्धान्तान्यतमःसिद्धान्त इति सूत्रार्थ इति तु न युक्तं अग्रिमसूत्रानु-त्थानापत्तेः तन्त्रसिद्धान्तत्वेन द्वयमनुगमव्य तन्त्राधिकर-णाभ्युपगमान्यतमः सिद्धान्त इति कश्चित्। विभजते। स चतुर्विध इति शेषः सर्वतन्त्रादिसंस्थितीनामर्थान्तर-भावात् भेदादित्यर्थः। सर्वतन्त्रसिद्धान्तं लक्षयति। सर्व-तन्त्राविरुद्धः सर्वशास्त्राभ्युपगत इति वहवः। वस्तुतोयथाश्रुत एवार्थः अन्यथा तन्त्रेऽधिकृत इत्यस्य वैयर्थ्या-पत्तेरतएव च जात्यादेरसदुत्तरत्वमपि सर्वतन्त्रसिद्धान्तःन च तन्त्रेऽधिकृत इति स्पष्टार्थं लक्षणे तु न देय-मेवेति वाच्यं मनस इन्द्रियत्वस्यापि सर्वतन्त्रसिद्धान्तता-पत्तेः नव्यास्तु सूत्रस्योपलक्षणमात्रत्वाद्वाद्रिप्रतिवाद्युभ-प्याभ्युपगतः कथानुकूलोऽर्थः स इति वदन्ति। प्रति-तन्त्रसिद्धान्तं लक्षयति। समानशब्द एकार्थस्तेनैकतन्त्र-[Page5295-b+ 38] सिद्ध इत्यर्थः स्वतन्त्र सिद्ध इति पर्य्यवसितोऽर्थः तथाचवादिप्रतिवाद्येकतरमाव्राभ्युपगतस्तदेकतरस्य प्रतितन्त्र-सिद्धान्त इति फलितार्थः, यथा मीमांसकानां शब्दनित्य-त्वम्। अधिकरणसिद्धान्तं लक्षयति
“यस्यार्थस्य सिद्धौजायमानायामेवान्यस्य प्रकरणस्य प्रस्तुतस्य सिद्धिर्भवतिसोऽधिकरणसिद्धान्त इत्यर्थः यथा तद् द्व्यणुकादिकंपक्षीकृत्योपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वेसाध्यमाने सर्वज्ञत्वमीशस्य, एवं हेतुवलादपि यथा दर्शन-स्पर्शनाभ्यामेकार्थग्रहणादिन्द्रियादिव्यतिरिक्त आत्मनिसाधिते इन्द्रियनानात्वं तथा च यदर्थसिद्धिं विना योऽर्थःशब्दादनुमानाद्वा न सिध्यति सोऽधिकरणसिद्धान्त इति। वस्तुतस्तु शाब्दत्वमनुमानत्वं चाविवक्षितं प्रमाणमात्रमपे-क्षितम् अतएव प्रत्यक्षेण स्थूलत्वसाधनानन्तरमुक्तमात्म-तत्त्वविवेके
“सोऽयमधिकरणसिद्धान्तन्यायेन स्थूलत्वसिद्धौक्षणभङ्गभङ्ग इति” तत्र च वाक्यार्थसिद्धौ तदनुषङ्गी योयः सोऽधिकरणसिद्धान्त इति वार्त्तिकफक्किकां लिखित्वायेन केनापि प्रमाणेन वाक्यार्थसिद्धौ जन्यमानायां यो-ऽन्यार्थः सिध्यति स तथेत्यर्थः इति व्याख्यातं दीधिति-कृता। एवं हेतुरीदृशः पक्षश्च वाक्यार्थ इति टीकावचने चउपलक्षणमेतदित्युक्तं तत्र तत्र विशिष्यैव लक्षणंकार्य्यम्। यत्तु जनकीभूतव्यापकताज्ञाने व्यापककोटावेवविषयः प्रकृतानुमित्या व्यापककोटौ विषयीकृतः शब्दज-नकपदार्थज्ञानविषयत्वे सति शाब्दविषयश्चेति द्वयमधि-करणसिद्धान्त इति तन्न इन्द्रियनानात्वादौ भाष्या-द्युदाहृतेऽव्याप्तेरिति। अभ्युपगमसिद्धान्तं लक्षयति। अपरीक्षितस्य साक्षादसूत्रितस्य विशेषपरीक्षणं विशेष-धर्मकथनम्। अभ्युपगमादिति ज्ञापकत्वे पञ्चमी अभ्युप-गमज्ञापकमित्यर्थः विशेषपरीक्षणाज्ज्ञायते सूत्रकृतो-ऽभ्युपगतमिदमिति तथाच साक्षादसूत्रिताभ्युपगमो-ऽभ्युपगमसिद्धान्तः यथा मनल इन्द्रियत्वमिति” वृत्तिः। तथाच सिद्धस्यान्तः{??}स्थतिः सिद्धान्तः संस्थितिश्च इत्थ-म्भावव्यवस्था। तत्र तन्त्रसंस्थितिस्तन्त्रार्थसंस्थितिः। अधिकरणसंस्थितिरधिकरणानुषक्तार्थसंस्थितिः। अभ्युप-गमसंस्थितिरनवधारितार्थपरिग्रहे तद्विशेषपरीक्षणाया-भ्युपगमसिद्धान्तः वात्स्या॰ भाष्ये दृश्यम्। प्रामा-णकित्वेनाभ्युपतोऽर्थः सिद्धान्त इत्यन्ये। मीमांसकोक्तेपञ्चावयवयुक्ताधिकरणाङ्गे
३ चरमेऽङ्गे अधिकरणशब्दे
१२
६ पृ॰ दृश्यम्। [Page5296-a+ 38]
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिद्धान्त¦ m. (-न्तः)
1. Demonstrated conclusion, established truth: it may be either the result of an argument in which one opinion is refuted and another undeniably established; or the concurrent doctrine of all the authorities on any subject similarly interpreted.
2. Any fixed or established text-book resting on conclusive argu- ments. E. सिद्ध completed, perfect, and अन्त end, conclusion.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सिद्धान्त/ सिद्धा etc. See. s.v.
सिद्धान्त/ सिद्धा m. established end , final end or aim or purpose(See. सम-स्) , (See. राद्धा-न्त) , demonstrated conclusion of an argument (or the 4th member of a syllogism following on the refutation of the पूर्व-पक्षSee. ) , settled opinion or doctrine , dogma , axiom , received or admitted truth (of four kinds See. सर्व-तन्त्र-स्? , प्रति-तन्त्र-स्, अधिकरण-स्, अभ्युपगम-स्) MBh. Kap. Sarvad. (See. IW. 64 )
सिद्धान्त/ सिद्धा m. any fixed or established or canonical text-book or received scientific treatise on any subject ( esp. on astronomy and mathematics ; often ifc. , as the following 9 , ब्रह्म-सिद्धान्त, सूर्य-सिद्धान्त, सोम-सिद्धान्त, बृहस्पति-सिद्धान्त, गर्ग-सिद्धान्त, नारद-सिद्धान्त, पराशर-सिद्धान्त, पुलस्त्य-सिद्धान्त, वसिष्ठ-सिद्धान्त; or the following 5 , सिद्धान्तs , पौलिश-सिद्धान्त, रोमक-सिद्धान्त, वासिष्ठ-सिद्धान्त, शौर-सिद्धान्त, and पैतामह-सिद्धान्त) VarBr2S. Sarvad. IW. 175
सिद्धान्त/ सिद्धा m. a partic. class of Buddhist and जैनworks.