सिरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिरा, स्त्री, (सिनोतीति । षिञ् बन्धने + रक् । इत्युणादौ उज्ज्वलः । २ । १३ ।) नाडी । (यथा, सुश्रुते । ३ । ७ । “व्याप्नुवन्त्यभितो देहं नाभितः प्रसृताः सिराः प्रतानाः पद्मिनीकन्दाद्विसादीनां यथा जलम् ॥” यथा च । “ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात् सिराः ॥” इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥ तथा च । “सप्त सिराशतानि भवन्ति । याभिरिदं शरीर- माराम इव जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसा- रणादिभिर्विशेषैः । द्रुमपत्रसेवनीनामिव च तासां प्रतानास्तासां नाभिर्मूलं ततश्च प्रस- रन्त्यूर्द्ध्वमधस्तिर्य्यक् च ॥ भवतश्चात्र ॥ यावत्यस्तु सिरा काये सम्भवन्ति शरीरिणाम् । नाभ्यां सर्व्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः ॥ नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्युपा- श्रिता । षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टिञ्च मूर्द्धनि । शाखासु षोडश सिराः कोष्ठे द्वात्रिंशदेव तु ॥ पञ्चाशज्जत्रुणश्चोर्द्धमवेध्याः परिकीर्त्तिताः ॥” इति सुश्रुते शारीरस्थाने सप्तमेऽध्याये ॥) अम्बु, वाहिनी । इति हेमन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिरा स्त्री।

धमनिः

समानार्थक:नाडी,धमनि,सिरा

2।6।65।1।4

पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा। तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिरा [sirā], 1 Any tubular vessel of the body (as a vein, artery, nerve &c.).

A bucket, baling vessel.

Ved. A stream; त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् Ṛ.v.1.121.11.

Comp. उत्पातः a disease of the veins &c.

redness and inflammation of the eyes.

जालम् enlargement of the vessels of the eye.

a network of veins. -पत्रः the sacred fig-tree. -मूलम् the navel. -मोक्षः, -व्यधः, -व्यधनम् venesection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिरा f. (fr. सृ)a stream , water RV. i , 121 (See. Naigh. i , 12 ; often written शिरा)

सिरा f. any tubular vessel of the body , a nerve , vein , artery , tendon etc. Sus3r. Ya1jn5. MBh. etc.

सिरा f. a vein-like channel or narrow stream of river water VarBr2S.

सिरा f. lines which cross each other like veins ib.

सिरा f. a bucket , baling-vessel L.

"https://sa.wiktionary.org/w/index.php?title=सिरा&oldid=230290" इत्यस्माद् प्रतिप्राप्तम्