सुप्रभात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्रभातम्, क्ली, (सुष्ठुप्रभातम् ।) शुभसूचक- प्रातःकालः । (यथा, भ्रमराष्टके । ८ । “रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पद्मजालम् । इत्थं विचिन्तयति कोषगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥”) प्राभातिकपाठ्यमङ्गलवाक्यम् । यथा, -- सुकेशिरुवाच । “किं तदुक्तं सुप्रभातं शङ्करेण महात्मना । प्रभाते यत् पठन्मर्त्यो मुच्यते पापबन्धनात् ॥ ऋषय ऊचुः । श्रूयतां राक्षसश्रेष्ठ सुप्रभातं हरोदितम् । श्रुत्वा स्मृत्वा पठित्वा च सर्व्वपापैः प्रमुच्यते ॥ ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी मूमिसुतो बुधश्च । गुरुः सशुक्रः सह भानुजेन कुव्वन्तु सर्व्वे मम सुप्रभातम् ॥ भृगुर्व्वशिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहः सगोतमः । रैभ्यो मरीचिश्च्यवनोऽमलोरुः कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥ सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च । सप्तस्वरः सप्तरसातलाश्च कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥ पृथ्वी सगन्धा सरसास्तथापः सस्पर्शवायुर्ज्वलितञ्च तेजः । नभः सशब्दं महता सहैव कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥ सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवराश्च सप्त । भूरादि कृत्वा भुवनानि सप्त कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥ इत्थं प्रभाते परमं पवित्रं यः संस्मरेद्वा शृणुयाच्च भक्त्या । दुःस्वप्ननाशो ननु सुप्रभाते भवेच्च सत्यं भगवत्प्रसादात् ॥” इति वामनपुराणे १४ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्रभात¦ न॰ प्रा॰ स॰।

१ शुभसूचकप्रातःकाले

२ तत्र पाठ्य-माङ्गल्यवाक्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्रभात¦ n. (-तं)
1. An auspicious dawn.
2. The earliest dawn. E. सु, and प्रभात shining.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुप्रभात/ सु--प्रभात mf( आ)n. beautifully illuminated by dawn R.

सुप्रभात/ सु--प्रभात n. a beautiful dawn or day break Ka1v.

सुप्रभात/ सु--प्रभात n. the earliest dawn MW.

सुप्रभात/ सु--प्रभात n. a morning prayer Va1mP.

"https://sa.wiktionary.org/w/index.php?title=सुप्रभात&oldid=236313" इत्यस्माद् प्रतिप्राप्तम्