सुरतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरतम्, क्ली, (सुष्ठु रतं रमणं यत्र ।) निधुवनम् । इति मेदिनी ॥ (यथा, कुमारे । १ । १० । “भवन्ति यत्रौषधयो रजन्या- मतैलपूराः सुरतप्रदीपाः ॥”) सुरते वर्णनीयानि । यथा, -- सुरते सात्त्विका भावाः शीत्काराः कुट्म- लाक्षता । काञ्चीकङ्कणसञ्जीररवाधरनखक्षतिः ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ दयालौ, त्रि । इत्यमरटीका सारसुन्दरी । ३ । १ । १५ ॥ अत्रार्थे सूरतः इति पाठः साधुः ॥ क्रीडायुक्तः । इति उणादिवृत्तौ उज्जलदत्तः । ५ । १४ ॥)

"https://sa.wiktionary.org/w/index.php?title=सुरतम्&oldid=507644" इत्यस्माद् प्रतिप्राप्तम्