सुवर्णम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवर्णम्, क्ली, (शोभना वर्णो यस्य ।) धातुविशेषः । सोना इति भाषा । तत्पर्य्यायः । स्वर्णम् २ कन- कम् ३ हिरण्यम् ४ हेम ५ हाटकम् ६ तषनी- यम् ७ शातकुम्भम् ८ गाङ्गेयम् ९ भर्म्म १० कर्व्वरम् ११ चामीकरम् १२ जातरूपस् १३ प्रमादतस्तु तन्नष्टं तावन्मात्रं नियोजयेत् । अन्यथा स्तेययुक्तः स्यात् हेम्न्यदत्ते विनाशिनि” तद्धेम त्राह्मणायोत्सृष्टं ब्राह्मणसादकृतं यदि चौरादिना अपह्रियते तदा तावदेव पुनरुत्- सृज्य देयमिति दानसागरः ॥ * ॥ तत्तु अग्नि- दैवतम् । यथा, -- “आग्नेयं कनकं प्रोक्तं सर्व्वलौहानि वाप्यथा” इति शुद्धितत्त्वम् ॥ (अथास्य मारणविधिः । “गलितस्य सुवर्णस्य षोडशांशेन सीसकम् । योजयित्वा समुद्धृत्य निम्बुनीरेण मर्द्दयेत् ॥ गोलं कृत्वा गन्धचूर्णं समं दद्यात्तदुपरि । शरावसंपुटे कृत्वा पुटेत्त्रिंशद्वनोपलैः । एवं मुनिपुटैर्हेम नोत्थानं लभते पुनः ॥” अस्य गुणाः । “कषायं तिक्तमधुरं सुवर्णं गुरु लेखनम् । हृद्यं रसायनं बल्यं चक्षुष्यं कान्तिदं शुचि ॥ आयुर्म्मेधावयःस्थैर्य्यवाग्विशुद्धिस्मृतिप्रदम् । क्षयोन्मादगराणाञ्च कुष्ठानां नाशनं परम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा- धिकारे ॥ * ॥) हरिचन्दनम् । इति मेदिनी ॥ स्वर्णगैरिकम् । इति रत्नमाला ॥ धनम् । इति हेमचन्द्रः ॥ नागकेशरम् । इति राजनिर्घण्टः ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a gold coin; a fine of १०० Suvarn2as for one who, having been paid a wage does not protect the cow or milks it or uses it; besides he is liable to be bound by iron chains and made to work for his master. M. २२७. 8, २२, १२२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUVARṆA (M) : A unit of measurement in ancient India


_______________________________
*5th word in left half of page 776 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुवर्णम्&oldid=505712" इत्यस्माद् प्रतिप्राप्तम्