सुष्ठु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुष्ठु, व्य, (सुतिष्ठतीति । सु + स्था + “अपदुःसुषु स्थः ।” उणा० १ । २६ । इति कुः । सुषमा- दित्वात् षत्वम् । प्रशंसा । अतिशयम् । इत्य- मरः । ३ । ४ । १ ॥ सत्यम् । इति संक्षिप्त- सारोणोदादिवृत्तिः ॥ (यथा, भागवते । ४ । २२ । १७ “पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु । स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥” “सुष्ठु गम्भीरार्थम् ।” इति तट्टीका ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुष्ठु अव्य।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

3।4।2।2।2

द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते। बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥

पदार्थ-विभागः : , गुणः, परिमाणः

सुष्ठु अव्य।

प्रशंसनम्

समानार्थक:सुष्ठु

3।4।19।1।3

पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने। सायं साये प्रगे प्रातः प्रभाते निकषान्तिके॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुष्ठु¦ अव्य॰ सु + स्था--कु।

१ प्रशंसायाम्

२ अतिशये अमरः।

३ सत्ये च संक्षिप्तसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुष्ठु¦ Ind.
1. Much, very much.
2. Well, excellently.
3. Truly. E. सु well, स्था to stay, aff. कु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुष्ठु [suṣṭhu], ind.

Well, excellently, beautifully.

Very much, exceedingly; सुष्ठु शोभसे आर्यपुत्र एतेन विनयमाहात्म्येन U.1.

Truly, rightly; शब्दः सुष्ठु प्रयुक्तः Sarva. S.; अथवा सुष्ठु खल्विदमुच्यते.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुष्ठु/ सु--ष्ठु See. below.

सुष्ठु ind. (fr. स्था; See. दुः-ष्ठु)aptly , fitly , duly , well , excellently , exceedingly( सुष्ठु खलु, " most certainly ") RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=सुष्ठु&oldid=241637" इत्यस्माद् प्रतिप्राप्तम्