सूतक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतकम्, क्ली, (सू + भावे क्तः । ततः स्वार्थे कन् । जन्म । इति मेदिनी ॥ (सूतकं जन्म कारण- त्वेनास्त्यस्येति । अच् ।) जननाशौचम् । यथा, “मृतेन सूतकं गच्छेन्नेतरत् सूतकेन तु ।” इति । वृद्धमनुरपि । “शावस्योपरि शावे तु सूतकोपरि सूतके । शेषाहोभिर्व्विशुद्धिः स्यादुदक्यां सूतिकां विना ॥” मरणाशौचम् । यथा, -- “सर्व्वं गोत्रमसंस्पृश्यं तत्र स्यात् सूतके सति । मध्येऽपि सूतके दद्यात् पिण्डान् प्रेतस्य तृप्तये ॥” इति शुद्धितत्त्वम् ॥ प्रतिबन्धकम् । यथा, -- “व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे । आरब्धे सूतकं न स्यादनारब्धे नु सूतकर्म् ॥” इति तिथ्यादितत्त्वम् ॥ (उपरागः । ग्रहणम् । यथा, मनुः । ४ । ११० । “प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥” “राजा चन्द्रमास्तस्य सूतकं राहुं प्रत्यमृत- स्रवणं चशब्दात् सूर्य्यस्य च । अथवा जनपदे- श्वरस्य राज्ञः सूतकं पुत्त्रजन्मोत्मवः । राहोः सूतकं चन्द्रसूर्य्ययोरुपरागः ग्रहणमिति प्रसि- द्धम् ॥” इति तत्र मेधातिथिः ॥)

सूतकः, पुं, क्ली, (सूत एव । स्वार्थे कन् ।) पारदः । इति मेदिनी ॥ (पर्य्यायोऽस्य यथा, -- “रसेन्द्रः पारदः सूतः सूतराजश्च सूतकः । शिवतेजो रसः सप्त नामान्येवं रसस्य तु ॥” ईति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा- धिकारे ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतक¦ n. (-कं)
1. Birth, production.
2. Impurity from child-birth or miscarriage. mn. (-कः-कं) Quicksilver. f. (-का-तिका) A woman recently delivered. E. कन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतकम् [sūtakam], 1 Birth, production; नाधीयीतामिषं जगध्वा सूतकान्नाद्यमेव च Ms.4.112.

Impurity caused by childbirth (or miscarriage) in a family; (also called जननाशौचम् q. v.); Ms.4.11. -कः, -कम् Quick-silver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतक n. birth (also " the calving of a cow " etc. ) Gr2S. Mn. MBh. etc.

सूतक n. impurity (of parents) caused by child-birth or miscarriage Ya1jn5. Dhu1rtas.

सूतक n. impurity (in general) Subh.

सूतक n. an obstacle Tithya1d.

सूतक f( अकाand इका). See. below

सूतक mn. ( अम्)quick silver , mercury Sarvad.

"https://sa.wiktionary.org/w/index.php?title=सूतक&oldid=243237" इत्यस्माद् प्रतिप्राप्तम्