सूतिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिका, स्त्री, (सू + क्तः । टाप् । ततः स्वार्थे कन् । यद्वा, सूतं प्रसवोऽस्त्यस्यामिति । ठन् ।) नवप्रसूता । यथा, -- “शावस्योपरि शावे तु सूतकोपरि सूतके । शेषाहोभिर्व्विशुद्धिः स्यादुदक्यां सूतिकां विना ॥” इति शुद्धितत्त्वम् ॥ * ॥ तदन्नभोजनप्रायश्चित्तं यथा । शङ्खः । “चाण्डालान्नं मूमिपान्नमजजीविश्वजीविनाम् शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासं व्रती भवेत् ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥ तदवलोकनतदालपनतत्संस्पर्शनिषेधो यथा -- “नालपेत् जनविद्विष्टान् वीरहीनां तथा स्त्रियम् । देवता-पितृसच्छास्त्रयज्ञसत्रादिनिन्दकैः ॥ कृत्वा तु स्पर्शनालापं शुध्येतार्कावलोकनात् । अवलोक्य तथादक्यामन्त्यजं पतितं शवम् ॥ विधर्म्मिसूतिकाषण्डविवस्त्रान्तावसायिनः । मृतनिर्यातकांश्चैव परदाररतांश्च ये । एतदेव हि कर्त्तव्यं प्राज्ञैः शोधनमात्मनः ॥” पारिभाषिकसूतिकालक्षणं यथा, -- “अभोज्यसूतिकाषण्ढमार्जाराखूंश्च कुक्कुटान् । पतितापविद्धचाण्डालमृतहारांश्च धर्म्मवित् ॥ संस्पृश्य शुध्यते स्नानात् उदक्याग्रामसूकरौ । तद्वच्च सूतिकाशौचदूषितौ पुरुषावपि ॥ अलर्क उवाच । भवत्या कीर्त्तिता भोज्या य एते सूतिकादयः । अमीषां श्रोतुमिच्छामि तत्त्वतो लक्षणानि ह ॥ मदालसोवाच । ब्राह्मणी ब्राह्मणश्चैव यावत्शेषत्वमागतौ । तावुभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम् ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥ वामनपुराणे १४ अध्याये च द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिका¦ स्त्री सू--क्त स्वार्थे क अत इत्त्वम्। नवप्रसूतायांस्त्रियाम्
“उदक्यां सूतिकां विना” इति स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिका¦ f. (-का) A woman recently delivered. E. सू-क्त स्वार्थे क अत इत्त्वम् | [Page800-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिका [sūtikā], A woman recently delivered; Ms.5.85. -Comp. -अगारम्, -गृहम्, -गेहम्, -भवनम् the lying-in-chamber. -गदः, रोगः sickness subsequent to childbirth, puerperal sickness. -षष्ठी N. of a particular goddess worshipped on the sixth day after child-birth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिका f. a woman who has recently brought forth a child , lying-in woman AV. etc.

सूतिका f. (with or scil. गो)a cow that has recently calved Ya1jn5. MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--gra(ऋ)ham--Here bhasma forms amulet: pollution of; फलकम्:F1: Br. II. २७. ११४; III. १४. ८८.फलकम्:/F the place of confinement from which Prad- yumna was stolen away by शम्बर. फलकम्:F2: Vi. V. २७. 3 and १०.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=सूतिका&oldid=440647" इत्यस्माद् प्रतिप्राप्तम्