सामग्री पर जाएँ

सूतिकागार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिकागारम्, क्ली, (सूतिकाया आगारम् ।) प्रसवगृहम् । इति जटाधरः ॥ (यथा, हरि- वंशे । १६३ । ४७ । “आहृत्य शम्बरेण त्वमिहानीतोऽसि मानद । सप्तरात्रे त्वसम्पूर्णे सूतिकागारमध्यतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिकागार¦ न॰ सूतिकाया निवासयोग्यमगारम्। मू-तिकागृहे अरिष्टे। सूतिकागृहादयोऽप्यत्र। तत्करणप्रवेशमुहूर्त्तादिकं पीयू॰ उक्तं यथा
“उक्तञ्च श्रीपतिना
“पुनर्वसौ च सूतिकागृहस्य निर्मितिःशुभा। विरञ्चिविष्णु भान्तरे प्रवेशनं हितं भवेत्” इति। विरञ्चिरभिजिन्नक्षत्रम् अन्तरे मध्ये विरञ्चिविष्णुतारयोरि-त्येव सप्तम्या अधिकरणत्वे वोधिते अन्तरपदोक्तिः स्पष्टार्था। तदेतत्ब्राह्मणव्यतिरिक्तवर्णत्रयविषयम्। यदाह लल्लः
“पुनर्वसौ नृपादीनां कर्त्तव्यं सूतिकागृहम्। श्रवणा-भिजितोर्मध्ये प्रवेशं तत्र कारयेत्” इति। आवश्यकत्वेतु श्रवणाभिजितोर्मुहूर्त्तस्तदुदयो ग्राह्यः वा इत्यर्थः। ब्राह्मणस्य तु प्रागुक्तनक्षत्रेष्वेव सूतिकागृहनिर्माणप्रवेशौतत्र सूतिकागृहं नैरृत्यां कार्य्यम्। यदाह वृद्धवसिष्ठः
“ऐन्द्र्यां तु विक्रमस्थानमाग्नेय्यां पचनालयः। वारुण्यांभोजनगृहं नैरृत्यां सूतिकागृहम्। याम्यायां शयन-स्थानं वायव्यां पशुमन्दिरम्। कौवेर्य्यां तु धनस्थानम्ऐशान्यां देवतालयः” इति। स्मृतिभास्करे गर्गः
“वारे-ऽनुकूले राशौ तु दिने दोषविवर्जिते। सानुकूलदिशिप्रोक्तं सूतिकाभवनं वुधैः” इति। कालानियभ उक्तोरत्नकोशे
“आसन्नप्रसवे मासि कुर्य्याच्चैव विशेषतः। तद्वत् प्रसवकाले स्यादिति शास्त्रेषु निश्चयः” इति। वराहेणात्रानेकनक्षत्राणामभिधानं कृतं यथा
“हस्ता-दित्यशशाङ्कतिष्यपवनप्राज्येशमित्रोत्तराचित्राश्विश्रवणेषुवृश्चिकघटौ हित्वा विरिक्ते तिथौ। शुक्राचार्य्यशनैश्चरज्ञ शशिनां वारेऽनुकूले विधौ सद्रर्वेश्मनि सूतिकागृहविधिः क्षेमङ्करः कीर्त्यते” इति। वेश्मनि चतुर्थस्थाने[Page5326-a+ 38] सद्भिः शुभग्रहैः। सूतिकागृहप्रवेशे कालविशेषमाहज्योतिर्वशिष्ठः
“अथातः सम्प्रवक्ष्यामि सूतिकागार-वेशनम्। मासे तु नवमे प्राप्ते पूर्वपक्षे शुभे दिने। प्रसूतिसम्भवे काले सद्य एव प्रवेशयेत्” इति। पूर्वपक्षेशुक्लपक्षे नक्षत्रादीन्याह गर्गः
“रोहिण्यैन्दवपौष्णेषुस्वातीवारुणयोरपि। पुष्ये पुनर्वसौ हस्तधनिष्ठा त्र्यु-त्तरासु च” इति।
“मैत्रत्वाष्ट्रे तथाश्विन्यां सूतिकागार-वेशनम्। सर्वे शुभग्रहाः केन्द्रे पापाश्च त्रिषडायगाः। शुभाशे शुभसंदृष्टौ सूतिकागारवेशनमिति”। तदाकारमाह भावप्र॰
“अष्टहस्तायतं चारु चतुर्हस्तविशा-लकम्। प्राचीद्वारमुदग्द्वारं विदध्यात् सूतिकागृहम्”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिकागार/ सूतिका-- ( का-ग्) n. a lying-in chamber L.

"https://sa.wiktionary.org/w/index.php?title=सूतिकागार&oldid=243357" इत्यस्माद् प्रतिप्राप्तम्