सूतिकागृह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिकागृहम्, क्ली, (सूतिकाया गृहम् ।) प्रसवा- लयः । तत्पर्य्यायः । अरिष्टम् २ । इत्यमरः । १ । २ । ८ ॥ सूतकागृहम् ३ । इति तट्टीका ॥ सूतीगृहम् ४ सूतिगृहम् ५ । इति जटाधरः ॥ तस्याकृतिर्यथा, -- “अष्टहस्तायतं चारु चतुर्हस्तविशालकम् । प्राचीद्वारमुदग्द्वारं विदध्यात् सूतिकागृहम् ॥” इति भावप्रकाशः ॥ तत्र पिशाचानां वासो यथा, -- “सर्व्वत्रगानप्रतिघान् सूतिकागृहसेविनः । पृष्ठतः पाणिपादांश्च पृष्ठग्रीवान् सुरंहसः ॥ एवविधान् पिशाचांश्च दृष्ट्वा ब्रह्मानुकम्पया । अन्तर्धानं वरं प्रादात् कामशायित्वमेव च ॥” इति वह्निपुराणे प्रजापतिसर्गनामाध्यायः ॥ प्रसवात् पूर्व्वं तत्संस्कारमाह साङ्ख्यायनगृह्यम् काकादन्या मेचकधातक्या बृहत्याः कोषतक्या कालक्लीतकस्य मूलानि पेषयित्वा उपलेपयेद्देशं यस्मिन् प्रजायते रक्षसामपहत्यै इति । काका- दनी काकजङ्क्षा । मेचकधातकीकाकमोचिका कोषातकी घोषकम् । कालक्लीतकः यष्टिमधु- केति कल्पतरुः ॥ अतएव हरिवंशे । “एष मानुष्यको यत्नो मानुषैरेव साध्यते । श्रूयतां येन दैवं हि मद्विधैः प्रतिहन्यते ॥ मन्त्रग्रामैः सूविहितैरौषधैश्चैव योजितैः । यत्नेन चानुकूलेन दैवमप्यनुलोम्यते ॥” इत्यनुचरान् प्रति कंसवाक्यम् । इति ज्योति- स्तत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिकागृह नपुं।

प्रसवस्थानम्

समानार्थक:अरिष्ट,सूतिकागृह

2।2।8।2।4

मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम्. गर्भागारं वासगृहमरिष्टं सूतिकागृहम्. कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिकागृह¦ n. (-हं) A part of a house appropriated to the women, or to a lying-in woman especially. E. सूतका or सूतिका a lying-in woman, and गृह house or room; hence also सूतकागृह n. (-हं) |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिकागृह/ सूतिका--गृह n. id. L.

"https://sa.wiktionary.org/w/index.php?title=सूतिकागृह&oldid=243360" इत्यस्माद् प्रतिप्राप्तम्