सेतुः

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेतुः, पुं, (सिनोति बध्नाति जलमिति । सि ञ बन्धने + “सितनिगमिमसीति ।” उणा ० १ । ७० । इति तुन् । क्षेत्रादेरालिः । इत्यमरः । २ । १ । १४ ॥ तत्पर्य्यायः । आली २ । इति भरतः ॥ पूरणः ३ पिण्डलः ४ । इति हारा- वली ॥ पङ्कारः ५ जङ्गालः ६ सञ्चरः ७ । इति जटाधरः ॥ पिण्डिलः ८ । इति शब्दरत्नावली ॥ धरणः ९ । इति त्रिकाण्डशेषः ॥ * ॥ तद्दानादि- फलं यथा, -- “सेतुप्रदानादिन्द्रस्य लोकमाप्नोति मानवः । प्रपाप्रदानाद्वरुणलो कमाप्नोत्यसंशयम् ॥ संक्रमाणान्तु यः कर्त्ता स स्वर्गं तरते नरः । खर्गलोके च निवसेदिष्टकासेतुकृत् सदा ॥” इति मठादिप्रतिष्ठातत्त्वम् ॥ * ॥ वरुणवृक्षः । इति मेदिनी राजनिर्घण्टश्च ॥ (अस्य पर्य्यायो गुणाश्च यथा, -- “वरुणो वराणः सेतुस्तिक्तशाकोऽग्निदीपनः । वरुणः पित्तलो भेदो श्लेष्मकृच्छ्राश्ममारुतान् ॥ निहन्ति गुल्भवातास्रक्रिमींश्चोष्णोऽग्निदीपनः । कषायो मधुरस्तिक्तः कटुको रूक्षको लघुः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) प्रणवः । इति तन्त्रसारः ॥ अपि च । “मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः । स्रवत्यनोंकृतं पूर्व्वं परस्ताच्च विशीर्य्यते ॥ नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः । द्विजातीनामयं मन्त्रः शूद्राणां सर्व्वकर्म्मणि ॥ अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयात् समुद्धृत्य प्रणवं निर्म्ममे पुरा ॥ स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः । स्वरितश्चोरुजातानां मनसापि तथा स्मरेत् ॥ चतुर्द्दशस्वरो योऽसी सेतुरौकारसंज्ञकः । स चानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते ॥ निःसेतुञ्च यथा तोयं क्षणान्निम्नं प्रसर्पति । मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् ॥ तस्मात् सर्व्वेषु मन्त्रेषु चतुर्व्वर्णा द्विजादयः । पार्श्वयोः सेतुमादाय जपकर्म्म समारभेत् ॥ शूद्राणामादिसेतुर्व्वा द्विसेतुर्व्वा यथेच्छतः । द्वे सेतू वः समाख्याताः सर्व्वदैव द्विजातयः ॥” इति कालिकापुराणे ५५ अध्यायः ॥

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेतुः [sētuḥ], [सि-तुन् Uṇ.1.69]

A ridge of earth, mound, bank, causeway, dam; नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः Ku.4.6; R.16.2.

A bridge in general; वैदेहि पश्या मलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् R.13.2; सैन्यैर्बद्धद्विरदसेतुभिः 4.38;12.7; Ku.7.53.

A landmark; ज्येष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु Ms.8.245.

A defile, pass, a narrow mountain-road.

A boundary, limit.

A barrier, limitation, obstruction of any kind; दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः Subhāṣ.

A fixed rule or law, an established institution; सूचकाः सेतुभेत्तारः ...... ते वै निरयगामिनः Mb.13.23.66.

The sacred syllable om; मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः । स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विदीर्यते ॥ Kālikā P.

A reservoir or a lake; सहोदकं आहार्योदकं वा सेतुं बन्धयेत् Kau. A.2.1.

A bond, fetter.

An explanatory commentary.

Comp. बन्धः the forming or construction of a bridge, cause-way &c.; Kau. A.2.1; वयोगते किं वनिता- विलासो जले गते किं खलु सेतुबन्धः Subhāṣ.; Ku.4.6.

the ridge of rocks extending from the southern extremity of the Coromandel coast towards Ceylon (said to have been built for Rāma's passage to Laṅkā by Nala and the other monkeys); Bhāg.7.14.31.

any bridge or cause-way. -भेदिन् a.

breaking down barriers.

removing obstructions. (-m.) N. of a tree (दन्ती).

"https://sa.wiktionary.org/w/index.php?title=सेतुः&oldid=505771" इत्यस्माद् पुनः प्राप्तिः