सेतुबन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेतुबन्धः, पुं, (सेतोर्बन्धः ।) लङ्कागमनार्थश्रीराम- कृतसमुद्रबन्धनसेतुः । तत्पर्य्यायः । समुद्रारुः २ । इति जटाधरः ॥ तद्विवरणं यथा, -- “ततोऽब्रवीद्रघुश्रेष्ठं सागरो विनयान्वितः । नलः सेतुं करोत्वस्मिन् जले मे विश्वकर्म्मणः ॥ सुतो धीमान् समर्थोऽस्मिन् कार्य्ये लब्धवरो हरिः । कीर्त्तिं गायन्तु ते लोकाः सर्व्वलोकमलापहाम् ॥ इत्युक्त्वा राघवं नत्वा ययौ सिन्धुरदृश्यताम् । ततोरामस्तु सुग्रीवलक्ष्मणाभ्यां समन्वितः । नलमाज्ञापयच्छीघ्रं वानरैः सेतुबन्धने ॥ ततोऽतिहृष्टः प्लवगेन्द्रयूथपै- र्महानगेन्द्रप्रतिमैर्युतो नलः । बबन्ध सेतुं शतयोजनायतं सुविस्तरं पर्व्वतपादपैर्दृढम् ॥” इति श्रीमदध्यात्मरामायणे लङ्काकाण्डे ३ अः ॥ “सेतुमारभ्यमाणस्तु तत्र रामेश्वरं शिवम् । सङ्कल्पनियतो गत्वा पुरीं वाराणसीं नरः ॥ आनीय गङ्गासलिलं रामेशमभिषिष्य च । क्षिप्त्वा समुद्रे तद्वारि ब्रह्म प्राप्नोत्यसंशयः ॥ कृतानि प्रथमेनाह्रा योजननां चतुर्द्दश । द्वितीयेन तथा चाह्रा योजनानाञ्च विंशतिः ॥ तृतीयेन तथा चाह्रा योजनान्ये कविंशतिः । चतुथन तथा चाह्रा द्वाविंशति तथा कृतम् ॥ पञ्चमेन त्रयोविंशयोजननां समन्ततः । बबन्ध सागरे सेतुं नलो वानरसत्तमः ॥ तेनैव जम्मुः कपयो योजनानां शतं द्रुतम् । असंख्याताः सुवेलाद्रिं रुरुहुः प्लवगोत्तमाः ॥ आरुह्य मारुतिं रामो लक्ष्मणाऽप्यङ्गदं तथा । दिदृक्षू राघवो लङ्कां नानाचित्रध्वजाकुलाम् ॥” इति तत्रैव ४ अध्यायः ॥ (क्षेत्रादेरालिबन्धनम् । यथा, महाभारते । ७ । ८४ । २ । “गतोदके सेतुबन्धो यादृक् तादृगयं तव । विलापो निष्फलो राजन् मा शुची भरतर्षभ ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेतुबन्ध¦ पु॰

६ त॰। लङ्कागमनार्थं श्रीरामेण नलकपिद्वाराकारिते समुद्रोपरि

१ आलीबन्धे

२ क्षेत्रादेरालीबन्धे च।
“ततोऽब्रवीद्रघुश्रेष्ठं सागरो विनयान्वितः। नलः सेतुंकरोत्वस्मिन् जले मे विश्वकर्मणः। सुतो, धीमान् समर्थो-ऽस्मिन् कार्य्ये लब्धवरो हरिः। कीर्त्तिं गायन्तु तैलोकाः सर्वलोकमलापहाम्। इत्युक्त्वा राघवं नत्वा ययौसिन्धुरदृश्यताम्। ततो रामस्तु सुग्रीबलक्ष्मणाभ्यांसमन्वितः। नलमाज्ञापयच्छ्रीघ्रं वानरैः सेतुबन्धनात्। ततोऽतिहृष्टः प्लवगेन्द्रयूथपैर्महानगेन्द्रप्रतिमैर्युतोनलः। वबन्ध सेतुं शतयोजनायतं सुविस्तरं पर्वत-पादपैर्दृढम्” अध्यात्मरा॰

३ अ॰।
“सेतुमारभमाणस्तुतत्र रामेश्वरं शिवम्। सङ्कल्पनियतो गत्वा पुरीं वारा-नसीं नरः। आनीय गङ्गासलिलं रामेशममिषिच्य च। क्षिप्ता समुद्रे तद्वारि ब्रह्म प्राप्नोत्यसंशयः। कृतानिंप्रथमेनाह्ना योजनानां चतुर्दश। द्वितीयेन तथा चाह्नायोजनानाञ्च विंशतिः। तृतीयेन तथा चाह्वा योजना-न्येकविंशतिः। चतुर्थेन तथा चाह्णा द्वाविंशतिः तथाकृतम्। पञ्चमेन त्रयोविंशद् योजनानां समन्ततः। बबन्ध सागरे सेतुं नलो वानरसत्तमः। तेनेव जग्मुःकपयो योजनानां शतं द्रुतम्। असंख्याताः सुवेलाद्रिंरुरुहुः प्लवगोत्तमाः”

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेतुबन्ध¦ m. (-न्धः)
1. The ridge of rocks extending from the south extre- mity of the Coromandel coast towards the island of Ceylon, sup- posed to have been formed by HANUMA4N by command of RA4MA, as a bridge for the passage of his forces, when going against RA4VAN4A.
2. Any dyke or dam, &c. E. सेतु a bridge, बन्ध a binding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेतुबन्ध/ सेतु--बन्ध m. the forming of a causeway or bridge , a dam or bridge ( esp. the ridge of rocks extending from रामे-श्वरon the Southeastern coast of India to Ceylon , and supposed to have been formed by हनुमत्as a bridge for the passage of राम's army) MBh. R. etc.

सेतुबन्ध/ सेतु--बन्ध m. N. of various works ( esp. of the 13th ch. of the भट्टि-काव्यand of a Prakrit poem on the history of राम, also called राम-सेतु, or रावण-वह, attributed to प्रवरसेनand sometimes to कालिदास).

"https://sa.wiktionary.org/w/index.php?title=सेतुबन्ध&oldid=505772" इत्यस्माद् प्रतिप्राप्तम्