सेवा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सेवा, स्त्री, (सेवृ सेवने + “गुरोश्च हलः ।” ३ । ३ । १०३ । इत्यः । टाप् ।) सेवनम् । तत्प- र्य्यायः । श्ववृत्तिः २ । इत्यमरः । २ । ९ । २ ॥ (यथा, मनुः । ४ । ६ । “सत्यानृतञ्च बाणिज्यं तेन चैवापि जीव्यते । सेवाश्ववृत्तिराख्याता तस्मात् तां परिवर्ज्जयेत् ॥”) आराधना । उपभोगः । आश्रयणम् ॥ इति सेवधात्वर्थदर्शनात् ॥ (यथा, मनुः । १२ । ८७ । “वेधाभ्यासस्तपो ज्ञानमिन्द्रियाणाञ्च संयमः । अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥”) अथ माघादिद्वादशमासेषु विष्णुसेवाविधिस्तत्- फलञ्च । यथा, -- व्यास उवाच । “विप्र द्वादशमासेषु माघादिषु सनातनः । पूजितव्यो विधानैश्च शृणु तानि वदाम्यहम् ॥ माघे मासि समायाते सर्व्वमासोत्तमे शुभे । आमिषं मैथुनञ्चैव वर्ज्जयेद्वैष्णवो जनः ॥ प्रातःस्नायी भवेन्नित्यं तैलान्यपि च वर्ज्जयेत् । द्विर्भोजनं परान्नञ्च माघे मासि परित्यजेत् ॥ प्रातः शुक्लाम्बरधरः कृतपञ्चमहाध्वरः । सपर्य्यामारभेद्विष्णोः स्थिरवृत्तो हि वैष्णवः ॥ ईषदुष्णजलैर्द्दिव्यैः स्नापयेद्विष्णुमव्ययम् । अतिश्लक्ष्णै श्चन्दनैश्च विष्णोरङ्गञ्च लेपयेत् ॥ पूजायै जगदीशस्य देवदेवस्य चक्रिणः । प्रक्षालितानि पात्राणि जलहीनानि कारयेत् ॥ स्नापयित्वा जगन्नाथमीषदुष्णजलैस्ततः । प्रोञ्छितव्य तच्छरीरं दिव्यवस्त्रेण यत्नतः ॥ सलिलैरीषदुष्णैश्च यः स्नापयति केशवम् । माघे मासि द्विजश्रेष्ठ फलं तस्य मयोच्यते ॥ विमुक्तः पातकैः सर्व्वैर्ज्जन्मजन्मान्तरार्ज्जितैः । इह भुक्त्वा सुखं सर्व्वं शेषे याति हरेर्गृ हम् ॥ यत्नात् प्रक्षाल्य पात्राणि कृत्वा हीनानि वारिभिः । यः पूजयेज्जगन्नाथं तस्य पुण्यं निशामय ॥ इह भुक्त्वा वरान् भोगान् रोगशोकविवर्ज्जितः । अन्ते युगसहस्राणि तिष्ठेत् केशवमन्दिरे ॥ प्रभातेऽपि च सन्ध्यायां पुरतश्चक्रपाणिनः । ज्वलन्तं स्थापयेद्वह्निं निर्धूमं वैष्णवो जनः ॥ शीतस्यावरणार्थाय प्रातः सायञ्च यो जनः । माघे विष्ण्वग्रतो वह्निं ज्वालयेत्तत्फलं शृणु ॥ इह भुक्त्वाखिलान् भोगान् पुत्त्रपौत्त्रसमन्वितः । अन्ते विष्णुपुरं याति दैवतैरपि दुर्लभम् ॥ यथैवात्मा तथा विष्णुः सन्देहो नात्र विद्यते । तस्मादात्मानुमानेन विष्णुसेवा विधीयते ॥ प्रभाते रौद्रदेशे च पवित्रे स्थापयेद्धरिम् । न भुनक्ति द्विजश्रेष्ठ यावत् शीतं सुदुःसहम् ॥ स्वपन्तं देवदेवेशं पर्य्यङ्कोपरि केशवम् । मुच्यते त्वपराधैस्तु तथा विष्णोः स्तवं पठन् । एतत्ते कथितं गुह्यं किमन्यत् श्रोतमिच्छमि ॥ धरण्युवाच । अस्ति कश्चिदुपायोऽत्र येन त्वं नृषु तुष्यमि । पूजितः सफलश्चासि अपराधविशोधनः ॥ वराह उवाच । संवत्सरस्य मध्ये तु तीर्थे सौकरवे मम । कृतोपवासः स्नानेन गङ्गायां शुद्धिमाप्नु यात् । मथुरायां तथाप्येवं सापराधः शुचिर्भवेत् ॥ अनयोस्तीर्थयोरेव यः सेवेत सकृन्नरः । सहस्रजन्मजनि तानपराधान् जहाति सः । स्नानात् पानात् तथा ध्यानात् कीर्त्तनाद्धा रणात्तथा । श्रवणान्मननाच्चैव दर्शनाद् याति पातकम् ॥ इति वाराहपुराणे अपराधप्रायश्चित्तनामा- ध्यायः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सेवा स्त्री।
परचित्तानुवर्त्तनम्
समानार्थक:सेवा,श्ववृत्ति
2।9।2।2।1
स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः। सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम्.।
पदार्थ-विभागः : वृत्तिः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सेवा¦ स्त्री सेव--अ।
१ मजने
२ आराधने
३ उपभोगे
४ आश्र-यणे च। सेवापराधाश्च अपराधशब्दे
२३
३ पृ॰ दशिताःवाराहेत्वन्यथोक्ता यथा
“कर्मणा मनसा वाचा ये पापरु-चयो जना। मक्षणं दन्तकाष्ठस्य राजान्नस्य तु भोजनम्। मैथुनं शवसंस्पशः पुरोषोत्सर्ग एव च। सूतक्युदक्या-क्षपणं स्पर्शनं मोडनं तथा। अभाष्यभाषष्णं कोपंपिण्याकस्य च भक्षणम्। रक्तपारक्यमलिबनीलजा-म्बरधारणम्। गुरोश्रालीकनिर्बन्धः पतिताश्चस्य मत्त्र-अम्। अभक्ष्यभक्षणञ्चैव तण्डुलीयविभीतकम्। आ-दानं तु वरा{??}स्म जालपादपराश्चवोः। प्रलणं देव-[Page5332-b+ 38] तागारे सोपानत्कोपसर्पणम्। तथैव देवपूजायां निषिद्धकुसुमाचेनम्। अनुत्तार्य्य च निर्माल्य पूजा जी-र्णान्धकारयोः। पानं सुराया देवस्य अन्धकारे प्रबो-धनम्। वातकर्मार्चने विष्णोरनमस्करणं तथा। अप-राधास्त्रयस्त्रिंशत् समाख्याता मया धरे। । एभियुं क्तस्तुपुरुषो विष्णुं नैव प्रपश्यति। दूरस्थो न नमस्कारंकुर्य्यात् पूजा तु राक्षसी”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सेवा¦ f. (-वा)
1. Service, servitude.
2. Worship, homage.
3. Addition to.
4. Use, practise, employment.
5. Resorting to, frequenting. E. षेव् to serve, affs. अङ् and टाप् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सेवा [sēvā], [सेव्-अ]
Service, servitude, dependence; attendance; सेवां लाघवकारिणीं कृतधियः स्थाने श्ववृत्तिं विदुः Mu. 3.14; हीनसेवा न कर्तव्या H.3.11.
Worship, homage, honouring.
Addiction or devotion to, fondness for.
Use, practice, employment, exercise.
Frequenting, resorting to.
Flattery, coaxing or flattering words; अलं सेवया मध्यस्थतां गृहीत्वा भण M.3. -Comp. -आकार a. in the form of servitude; सेवाकारा परिणतिरहो स्त्रीषु कष्टो$धिकारः V.3.1. -काकुः change of voice in service; (this is a variant in V.3.1 for सेवाकारा).
धर्मः the duty of service; सेवाधर्मः परमगहनो योगिनामप्यगम्यः Pt.1.285.
the obligations of service. -विलासिनी a female servant. -वृत्तिः a livelihood gained by service.-व्यवहारः the practice or law of service.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सेवा f. going or resorting to , visiting , frequenting Ca1n2. Subh.
सेवा f. service , attendance on( loc. gen. , or comp. ; सेवां-कृ, with gen. , " to be in the service of ") Mn. MBh. etc.
सेवा f. worship , homage , reverence , devotion to( gen. or comp. ) ib.
सेवा f. sexual intercourse with( comp. ) Hit. Subh.
सेवा f. addiction to , indulgence in , practice or employment or frequent enjoyment of( comp. ) Nir. Mn. MBh. etc.