सैनिकः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैनिकः, पुं, (सेनां समवैतीति । सेना + “सेनाया वा ।” ४ । ४ । ४५ । इति पक्षे ठक् ।) सेनायां समवेतः । इत्यमरः । २ । ९ । ६१ ॥ मिलित- हंस्त्यश्वरथपादातं सेना तत्र ये समवेताः एक- देशीभूतास्ते सैन्याः सैनिकाश्च । इति भरतः ॥ (यथा, रघुः । ३ । ६१ । “निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः ॥”) सैन्यरक्षकः । इति मेदिनी अमरश्च ॥ प्राणि- वधनियुक्तः । यथा, श्रीभागवते पञ्चमस्कन्ध- गद्यम् । ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशून् खादन्ति तांश्च ताश्च ते पशव इह निहता यमसदने यातयन्तो रक्षो- गणाः सैनिका इव स्वधितिना अवदायासृक् पिबन्तीति । सैनिकाः प्राणिवधनियुक्ताः । इति तिथ्यादितत्त्वम् ॥ सेनासम्बन्धिनि, त्रि ॥ (यथा, महाभारते । ७ । १९० । ४१ । “एवं तं निहतं संख्ये ददृशे सैनिको जनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सैनिकः&oldid=507061" इत्यस्माद् प्रतिप्राप्तम्