सौभाग्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौभाग्यम्, क्ली, (सुभगायै हितम् । सुभगा + ष्यञ् “हृद्भगेति ।” ७ । ३ । १९ । इत्युभयपदवृद्धिः ।) सिन्दूरम् । टङ्कणः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “सौभाग्यं टङ्कणं क्षारो धातुद्रावकमुच्यते ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥ सुभगायाः मुभगस्य वा भावः । ष्यञ् ।) सुभ- गत्वम् । (यथा, कुमारे । ५ । १ । “तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती । निनिन्द रूपं हृदयेन पार्व्वती प्रियेषु सौभाग्यफला हि चारुता ॥”) योगभेदः । इति मेदिनी ॥ स च विष्कम्भादि- सप्तविंशतियोगान्तर्गतचतुर्थयोगः । तत्र जात- फलम् । “सौभाग्यजन्मा सुभगो मनुष्यः श्लाघ्यो जनानां धनवान् गुणज्ञः । उदारचित्तो बलवान् विवेकी महाभिमानी प्रियभाषणश्च ॥” इति कोष्ठीप्रदीपः ॥ * ॥ व्रतविशेषः । यथा, -- अगस्त्य उवाच । “अतः परं महाराज सौभाग्यकरणं व्रतम् । शृणु येनाशु सौभाम्यं स्त्रीपुं सोरुपजायते ॥ फाल्गुनस्य तु मासस्य तृतीया शुक्लपक्षगा । उपासितव्या नक्तेन शुचिना सत्यवादिना ॥ सश्रीकञ्च हरिं पूज्य रुद्रं वा चोमया सह । या श्रीः सा गिरिजा प्रोक्ता यो हरिः स त्रिलोचनः ॥ एवं सर्व्वेषु शास्त्रे षु पुराणेषु च पठ्यते । एतस्मादन्यथा यस्तु ब्रूते शास्त्रं पृथक्तया ॥ रुद्रो जनानां मर्त्यानां वाच्यं शास्त्रं न तद्भवेत् । विष्णुं रुद्रकृतं ब्रूयात् श्रीगौरीति निगद्यते ॥ एतयोरन्तरं यश्च ब्रूयात् सोऽधम उच्यते । तं नास्तिकं विजानीयात् सर्व्वधर्म्मबहिष्कृतम् ॥ एवं ज्ञात्वा सलक्ष्मीकं हरिं संपूज्य भक्तितः । मन्त्रेणानेन राजेन्द्र ततस्तं परमेश्वरम् ॥ गम्भीरायेति पादौ तु सुभगायेति वै कटिम् । उदरं देवदेवाय त्रिनेत्रायेति वै मुखम् ॥ वाचस्पतये च शिरो रुद्रायेति च सर्व्वतः । एवमभ्यर्च्च्य मेधावी विष्णुं लक्ष्म्या समन्वितम् ॥ हरं वा गौरीसंयुक्तं गन्धपुष्पादिभिः क्रमात् । ततस्तस्याग्रतो होमं कारयेत् मधुसर्पिषा ॥ तिलैः सह महाराज सौभाग्यपतयेति च । ततस्त्वक्षारविरसं निस्नेहं धरणीतले ॥ गोधूमान्नन्तु भुञ्जीत कृष्णेऽप्येवं विधिः स्मृतः । आषाढादिद्वितीये तु पारणं तत्र भोजयेत् ॥ यवान्नन्तु ततः पश्चात् कार्त्तिकादिषुं पार्थिव । श्यामाकं तत्र भुञ्जीत त्रीन् मासान् नियतः ॥ शुचिः ॥ ततो माघे सिते पक्षे तृतीयायां नराधिप । सौवर्णां कारयेद्गौरीं रुद्रं चैकत्र बुद्धिमान् ॥ सलक्ष्मीकं हरिञ्चापि यथाशक्त्या प्रसन्नधीः । ततस्तां ब्राह्मणे दद्यात् पात्रभूते विचक्षणे ॥ अन्नेन हीने वेदानां पारगे साधुवर्त्तिनि । सदाचारेऽथवा दद्यात् विष्णुभक्ते विशेषतः ॥ षड्भिः पात्रैरुपेतन्तु ब्राह्मणाय निवेदयेत् । एकं मधुमयं पात्रं द्वितीयं घृतपूरितम् ॥ तृतीयं तीलतैलस्य चतुर्थं गुडसंयुतम् । पञ्चमं लवणः पूर्णं षष्ठं गोक्षीरसंयुतम् ॥ एतानि दत्त्वा पात्राणि सप्तजन्मान्तरं भवेत् । सुभगो दर्शनीयश्च नारी वा पुरुषोऽपि वा ॥” इति वाराहे सौभाग्यव्रतनामाध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौभाग्य¦ न॰ सुभगाया भावः ष्यञ् द्विपदवृद्धिः।
१ पतिप्रियत्वेतदर्थं व्रतं सौभाग्यव्रत व्रतशब्दे
५०
६८ पृ॰ दृश्यम। सुभगायै सुभगाय वा हितं ष्यञ्।
२ सिन्दूरे
३ टङ्कणे चराजनि॰। विष्कम्भादिषु मध्ये
४ चतुर्थे योगे पु॰ ज्यो॰ त॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौभाग्य¦ n. (-ग्यं)
1. Auspiciousness, good fortune.
2. Blessednes.
3. Beauty, grace, charm.
4. Auspicious state of wife-hood, (as opposed to widow-hood.)
5. Congratulation.
6. The fourth of the astronomical Yogas.
7. Borax.
8. Red-lead. E. सुभग auspicious, ष्यञ् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौभाग्यम् [saubhāgyam], [सुभगायाः सुभगस्य वा भावः ष्यञ् द्विपदवृद्धिः]
Good fortune or luck, fortunateness (chiefly consisting in a man's and woman's securing the favour and firm devotion of each other); प्रियेषु सौभाग्यफला हि चारुता Ku. 5.1; सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती Me.29; (see Malli.'s remarks on सौभाग्य in both places); युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम् V.2.
Blessedness, auspiciousness; समृद्धं सौभाग्यं सकलवसुधायाः किमपि तत् G. L.1.
Beauty, charm, grace; (यस्य) हिमं न सौभाग्यविलोपि जातम् Ku.1.3;2.53;5.49; R.18.19; U.6.27.
Grandeur, sublimity.
The auspicious state of wifehood (opp. widowhood).
Congratulation; good wishes.
Affection, favour.
Red-lead.
Borax.
Comp. चिह्नम् any mark of good fortune or happiness.
any sign of the blessed state of wifehood (such as the saffron mark on the forehead). -तन्तुः the marriage string (put round the neck of the bride by the bridegroom at the time of marriage and worn by her till widowhood; also called मङ्गलसूत्र q. v.). -तृतीया the third day of the bright half of Bhādrapada. -देवता an auspicious or tutelary deity. -वायनम् an auspicious offering of sweetmeats &c. -विलोपिन् a. marring or impairing beauty; अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् Ku.1.3.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौभाग्य n. (fr. सु-भग)welfare , good luck , good fortune , success , prosperity , happiness ( esp. conjugal felicity) RV. etc.
सौभाग्य n. beauty , charm , grace , loveliness MBh. R. etc.
सौभाग्य n. affection , favour MW.
सौभाग्य n. congratulation , good wishes ib.
सौभाग्य n. red lead L.
सौभाग्य n. borax L.
सौभाग्य n. a kind of plant L.
सौभाग्य n. the fourth of the astronomical Yogas. L.
सौभाग्य etc. See. col. 2.