स्तेनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेनः, पुं, (स्तेनयतीति । स्तेन + पचाद्यच् ।) चौरः । इत्यमरः । २ । १० । २४ ॥ तस्य दण्ड- निर्णयो यथा, -- “स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये । परमं यत्नमातिष्ठेत् स्तेनानां निग्रहे नृपः । स्तेनानां निग्रहादस्य यशो राष्ट्रञ्च वर्द्धते ॥ अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्य्यापचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्विषम् ॥ यस्तु तान्यु पकॢप्ताणि द्रव्याणि स्तेनयेन्नरः । तमाद्यं दण्डयेद्राजा यश्चाग्निं चौरयेद्गृहात् ॥ येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥” इति मानवे ८ अध्यायः ॥ तद्वैदिकपर्य्यायः । तृपुः १ तक्का २ रिभ्वा ३ रिपुः ४ रिक्वा ५ रिहायाः ६ तायुः ७ तस्करः ८ वनर्गुः ९ हुरश्चित् १० मुषीवान् ११ मलिम्लुचः १२ अघशंसः १३ वृकः १४ । इति चतुर्द्दशेव स्तेननामानि । इति वेदनिघण्टौ । ३ । २४ ॥ * ॥ देवायानिवेद्यान्नादिभोक्ता । यथा, श्रीभगवदगीतायाम् । ३ । १२ । “इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ- भाविताः । तैर्द्दत्तानप्रदायैभ्यो यो भुङ्क्त्वे स्तेन एव सः ॥” स्तेप, क क्षेपे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) एकादशस्वरी । क, स्तेप- यति । तिस्तेपयिषति । इति दुर्गादासः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेनः [stēnḥ], [स्तेन्-कर्तरि अच्]

A thief, robber; न तं स्तेना न चामित्रा हरन्ति न च नश्यति Ms.7.83; यो भुङ्क्ते स्तेन एव सः Bg.3.12.

A kind of perfume. -नम् Thieving, stealing.

Comp. निग्रहः the punishment of thieves.

suppression of theft.

"https://sa.wiktionary.org/w/index.php?title=स्तेनः&oldid=505830" इत्यस्माद् प्रतिप्राप्तम्