स्त्रीपुंधर्म्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्रीपुंधर्म्मः, पुं, (स्त्री च पुमांश्च स्त्रीपुंसौ । तयो- र्धर्म्मः ।) स्त्रीपुंसयोर्व्यवहारः । स च अष्टा- दशविवादपदान्तर्गतविवादविशेषः । यथा, -- “स्त्रीपुंधर्म्मो विभागश्च द्यूतमाह्वयमेव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥” इति मानवे ८ अध्यायः ॥ तद्विवरणं यथा, -- “पुरुषस्य स्त्रियाश्चैव धर्म्मे वर्त्मनि तिष्ठतोः । संयोगे विप्रयोगे च धर्म्मान् वक्ष्यामि शाश्वतान् अस्वतन्त्राः स्त्रियः कार्य्याः पुरुषैः स्वैर्दिवानिशम् ॥ विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥ पिता रक्षति कौमारे भर्त्ता रक्षति यौवने । रक्षन्ति स्थविरे पुत्त्रा न स्त्री स्वातन्त्र्यमर्हति ॥ कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः मृते भर्त्तरि पुत्त्रस्तु वाच्यो मातुररक्षिता ॥ सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ॥ इमं हि सर्व्ववर्णानां पश्यन्तो धर्म्ममुत्तमम् । यतन्ते रक्षितुं भार्य्यां भर्त्तारो दुर्ब्बला अपि ॥ स्वां प्रसूतिं चरित्रञ्च कुलमात्मानमेव च । स्वञ्च धर्म्मं प्रयत्ने न जायां रक्षन् हि रक्षति ॥ पतिर्भार्य्यां संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि जायात्वं यदस्यां जायते पुनः ॥ यादृशं भजते हि स्त्री सुतं सूते तथाविधम् । तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत् प्रयत्नतः ॥ न कश्चित् योषितः शक्तः प्रसह्य परिरक्षितुम् । एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥ अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् । शौचे धर्म्मेऽन्नपक्त्याञ्च पारिणाह्यस्य वेक्षणे ॥ अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः । आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥ पानं दुर्ज्जनसंसर्गः पत्या च विरहोऽटनम् । स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥ नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥ पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः । रक्षिता यत्नतोऽपीह भर्त्तृष्वे ता विकुर्व्वते ॥ एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेत् पुरुषो रक्षणं प्रति ॥ शय्यासनामलङ्कारं कामं क्रोधमनार्ज्जवम् । द्रोहभावं कुचर्य्याञ्च स्त्रीभ्यो मनुरकल्पयत् ॥ नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्म्मो व्यवस्थितः निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि । स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ॥ यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता । तन्मे रेतः पिता वृक्तामित्यस्यैतन्निदर्शनम् ॥ ध्यायत्यनिष्टं यत्किञ्चित् पाणिग्राहस्य चेतसा प्रजनार्थं स्त्रियः सृष्टाः सन्तानार्थञ्च मानवाः । तस्मात् साधारणो धर्म्मः श्रुतौ पत्न्या सहोदितः ॥ कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः । देवराय प्रदातव्या यदि कन्यानुमन्यते ॥ आददीत न शूद्रोऽपि शुल्कं दुहितरं ददत् । शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥ एतत्तु न परे चक्रुर्न्नापरे जातु साधवः । यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥ नानुशुश्रुम जात्वेतत् पूर्व्वेष्वपि हि जन्मसु । शुल्कसंज्ञं न मूल्येन छन्नं दुहितृविक्रयम् ॥ अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः । एष धर्म्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥ तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ । यथा नाभिचरेतां तौ वियुक्तावितरेतरम् ॥ एष स्त्रीपुंसयोरुक्तो धर्म्मो वो रतिसंहितः । आपद्यपत्यप्राप्तिश्च दायभागं निबोधत ॥” इति मानवे ९ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्त्रीपुंधर्म्म¦ पु॰ स्त्रियाः पुंसश्च धर्मः तमधिकृत्य व्यवहारो वा। स्त्रीपुं सयोः यथाशास्त्राचाररूपे धर्मे तद्विषयके अष्टा-दशसु विवादपदेषु मध्ये विवादपदभेदे स्त्रीपुंसयोगोऽ-प्यत्र। वीर॰ तत् न्यरूपि यथा
“तत्स्वरूपमाह नारदः
“विवाहादिविधिः स्त्रीणां यत्र पुंसाञ्च कीर्त्त्यते। स्त्रीपुं सयोगसंज्ञं तद्विवादपदमुच्यते” इति। विवा-हादिशब्देन स्त्रीपुंधर्मा गृह्यन्ते। अतएवमनुर्व्यवहारपदोद्देशकाले स्त्रीपुंधर्मोविभागश्चेत्युद्दिश्यप्रतिज्ञापूर्वंकं तेषां निरूपणं चकार
“पुरुषस्य स्त्रि-याश्चैव धर्म्ये वर्त्मनि तिष्ठतोः। संयोगे विप्रयोगे चधर्मान् वक्ष्यामि शाश्वतान् इत्यादिना संयोगे अन्यो-न्यसन्निधाने विप्रयोगे देशतः कालतो वा व्यव-धाने। शाश्वतान्नित्यान् अवश्यानुष्ठेयानिति यावत्। के ते धर्मा इत्याकाङ्क्षायामाह स एव
“अस्वतन्त्राःस्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम्। विषयेषु चसज्जन्त्यः संस्थाप्या ह्यात्मनो वशे” इत्यादि। पुरुषैःभर्तृपुरुषैः। विषथे दण्डहेतुभूतचाञ्चल्यादिविषये। नारदोऽपि
“स्वातन्त्र्याद्विप्रणश्यन्ति कूले जाता अपिस्त्रियः। अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयत्” इति। अतोऽन्यैरपि स्वस्त्रीणामस्वातन्त्र्यं यथाभवति तथा कल्पयितव्यमित्याशयः। पुरुषेण स्वस्त्रीव्यभिचारादवश्यं रक्षणीया। तथा च हारीतः
“एकव्रत्सकन्नभावात् परेन्द्रियोपहतत्वाच्च दुष्ठाः कुल-सङ्करकारिण्यो भवन्ति जीवति जारजः कुण्डोमृतेभर्त्तरि गोलकस्तस्माद्रेतोपाघाताज्जायां रक्षेज्जाया-नाशे कुलनाशः कुलनाशे तन्तु नाशस्तन्तुनाशे देवपिवृ-यज्ञनाशो देवपितृयज्ञनाशे आत्मनाशः आत्मनाशेसर्वस्वनाशः” इति। एकव्रतम्कन्नभावात् स्त्रीणांएकभर्त्तेति नियमनाशात्। परेन्द्रियोपहतत्वात्परस्मिन् पुंसि इन्द्रियम्य मनसोरागादिना उपह-तत्वात्। कुलसङ्करकारिण्यस्तज्नातिस्वभावानुगत पजोत्पादनेन कुलसाङ्कर्य्यकारिण्यः। अतएव शङ्खलिखितौ
“यस्मिन् भावोऽर्पितः स्त्रीणामर्त्तवे तादृशं तस्तुश्रनयन्तीति”। तन्तुः पुत्रादिसन्ततिः। मनुरपि
“सूक्ष्मभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः। द्वयोर्हि[Page5346-a+ 38] सकाशादिति कल्पतर्वादौ पाठः। अध्याग्न्यादिशब्दास्तुयोगरूदास्तादृशस्त्रोधनादावेव प्रयोगात्। गृहोपस्कर-णादोनां यन्मूल्यं कन्यार्पणापाधित्वेन यरादिभ्यः कन्या-भरणरूपेण सृह्यते तच्छुल्कमिति मदनरत्ने व्याक्या-तम्। मिताक्षरायां तु यद्गृहीत्वा कन्या दीयतेतच्छुल्कमित्युक्तम्। उभयत्रापि पित्रादीनां कन्यायाइदमित्युद्ध्वेशो विवक्षितः अन्यथा तत्स्वत्वाभावेनस्त्रीधनत्वव्यपदेशत्वानुपपत्तेः। जीमूतवाहनेन तु कर्मि-णामिति पठित्वा गृहादिकर्मिभः शिल्पिभिस्तत्कर्म-करेणे भर्त्रादिप्रेरणार्थं स्त्रियै यदुत्काचदानं तच्छु-ल्कं तदव सुल्यं प्रकृत्यर्थत्वादिति व्याख्यातम्। पुनश्चोक्तम्
“यदानेतुं भर्तृरृहे शुल्कन्तत्परिकीर्त्तिं-तमिति” व्यासोक्तं वा। भर्तृगृहगमनार्थमुत्काचादियद्दत्तं तच्छुल्कमित्यर्थ इति। तदुभयमपि स्त्रास्वामिकं भवत्येव तस्या एव दत्तत्वादिति तत्र स्त्री-धनत्वव्यपदेशोऽन्यस्त्रीधनवत् सुगम एव। आधि-वेदनिकं स्त्र्यन्तरविवाहकाले पूर्वभार्य्यायै यद्दीयते। यदाह याज्ञवल्क्यः
“अधिविन्नस्त्रयै दद्यादाघि-वेदनिकं समम्। न दत्तं स्त्रीधनं वासां दत्ते त्वर्द्धंप्रकल्पयेत्” इति। पित्रादिभिर्ज्जीवनाद्यर्थं स्त्रीभ्योधनदाने विशेषमाह कात्यायनः
“पितृमातृपतिभ्रातृज्ञातिभिः स्त्राधनं स्त्रियै। यथाशक्त्याद्विसा-हस्राद्दातव्यं स्थावरादृते”। स्थावरेतरद्धनं यथाशक्तिआकार्षापणसहस्रद्वयपर्य्यन्तं देयमित्यर्थः। व्यासोऽपि
“द्विसहस्रः परो दायः स्त्रियै देयो धनस्य तु”। आद्वि-सहस्रादिति कात्यायनेन, पर इति च व्यामेनोक्ते-रितोऽधिकमिति धनिनापि न स्त्रीभ्यो देयमितिदर्शितम्। अयञ्च नियमः प्रतिवनसरमसकृटर्पणे ज्ञेयस्ते-नानेकवत्सरेषु जीवनार्थं दीयमानमिगोऽधिकमपिभवति चेन्न दोषः। जीवनार्थत्वाद्दानस्य तावज्जीवञ्चद्विसाहस्रमात्रेण तन्निर्वाहासम्भषात्। स्त्रीधनेऽपिमर्वनुमतिमन्तरेण स्त्रीणान्न स्वातन्त्र्यमित्याह मनुः
“न निर्हारं स्त्रियः कुर्युः कुदुम्बाद्बहुमध्यकात्। स्रमदपि च वित्ताद्धि स्वव्य भर्त्तुरना{??}या” इतिनिर्हारो व्ययः। कचित्तु स्त्रीधने तामां स्वातन्त्र्य-म{??} यदाह सौदायि{??}स्वरूपसक्त्वा का{??}यनः
“सादायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्येते। व{??} तैदंतमुपजीवनम्। सौदायिके[Page5346-b+ 38] सदा स्त्रीणां स्वातन्त्र्यं परिकीर्त्तितम्। विक्रयेदाने च यथेष्टं स्थावरेष्वपि”। भर्त्तृदत्ते तु स्थाव-रेतरत्रैव स्वातन्त्र्यमित्याह नारदः
“भर्त्रा प्रातनयद्दत्तं स्त्रियै तास्मन् मृतऽपि तत्। सा यथा काम-मश्नीयाद्दद्याद्वा स्थावरादृते”। स्थावरे भत्तृदत्ते स्त्रियानिवासाद्युपभोगमात्रं न दानविक्रयादिकमित्यर्थः। अपुत्रा शयनं भतुरित्यादि कात्यायनवचोऽपि भर्तृ-दत्तस्थावरविषयमेव नारदेकवाक्यतयेति केचित्। अस्माभिस्तु पत्नी दुहितर इति व्याख्यानावसरेऽम्यविषयः प्रपञ्चितः। पुरुषाणामपि कस्मिन्नपि स्त्रीधनेन स्वातन्त्र्यं स्वाम्याभावादित्याह कात्यायनः
“नभर्त्ता नैव च सुती न पिता भ्रातरो न च। आदानेवा विसर्गे वा स्त्रीधने प्रभविष्णवः। यदि त्वेकतरो-ऽप्येषां स्त्रीधनं भक्षयेद् बलात्। सवृद्धिकं म दाप्यःस्याद्दण्डञ्चैव समाप्नुयात्। तदेव यद्यनुज्ञाप्य भक्षयेत्प्रोतिपूर्वकम्। मूलमेव तदा दाप्यो यदा स धनवान्भवेत्। अथ चेत् स द्विभार्य्यः स्यान्न च तां भजते पुनः। प्रीत्या विसृष्ठमपि चेत् प्रतिदाप्यः स तद्वलात्। ग्रासाच्छादनवासानामुच्छेदो यत्र योषितः। तत्र स्वमा-ददीत स्त्री विभागं रिक्थिनान्तथा”। स्त्रिया धनंगृहीत्वा यद्यपरभार्य्यया सह वसत्येनाञ्चावमन्यतेतदा गृहीतं तद्धनं राज्ञा बलाद्दाप्यः। भक्ताच्छा-दननिवासान् यदि भर्त्ता न ददाति तदा तेऽपिस्त्रिया बलाद्ग्राह्यःस्तत्पर्य्यप्तं घनं वा ग्राह्यमितिश्लोकद्वयन्यार्थः। इदमपि तस्या दोषराहित्ये बोध्यंदुष्टा पुनः किमपि स्त्रीधनं न लभते इत्याहस एव
“अपकारक्रियायुक्ता निर्लज्जा चार्थना-शिका। व्यभिचाररता या च स्त्रीधनं न तु सा-र्हति”। नार्हतोत्यनेन तया लब्धमप्याच्छिद्य ग्राह्य-मिति सूचितम्। अपकारक्रियायुक्ता सदा भर्तृप्रतिकूला-चरणपरा
“निर्मर्य्यादार्थनाशिका” इत्यपि पाठः। देवलः
“वृद्धिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत्। मुङ्क्तेतत् स्वयमेवेदं पतिर्नार्हत्यनापदि। वृथा मोक्षे चभोगे च स्त्रियै दद्यात् सवृद्धिकम्” इति। वृद्धि-र्वर्द्धनार्थं पित्रादिना दर्त्तामति द्मृतचन्द्रिकायाम्। मदनरत्ने तु वृत्तिरिति पठितम्। वृत्तिर्ज्जीवतार्थंपित्रादिभिर्दत्तमिति व्याख्यातञ्च। लाभो गौर्य्यादि-प्रीव्यर्थं यवभ्यते कुतश्चित्। वृथा आपदमन्तरेण। [Page5347-a+ 38] कुलयो शोकमावहेयुररक्षिताः। इमं हि सर्ववर्णानांपश्यतो धर्ममुत्तमम्। यतन्ते रक्षितुं भार्य्यां भर्त्तारोदुर्बला अपि। स्वां प्रसूतिं चरित्रञ्च कुलमात्मानमेवच। स्यधमं हि प्रयत्नेन जायां रक्षन् हि रक्षितः” इति। द्वयोः कुलयोः भर्त्तृपितृकुलयोः। अनेन कुल-द्वयवृद्धैरपि रक्ष्या इति शोककथनसुखेन दर्शितम्। अतएव वृहस्पतिः
“सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यो निवार्यास्त्री स्वबन्धुभिः। श्वश्वादिभिः पालनीया गुरुस्त्रीभिर्दिवा-निशम्”। मनुरपि
“कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः। मृते भर्त्तरि पुत्रस्तु वाच्यो मातुर-रक्षिता” इति। काले कन्यादानयोग्ये काले। वाच्यो-निन्द्यः। अनुपयन् अननुगच्छन्। स एव
“पिता रक्षतिकौमारे भर्त्ता रक्षति यौवने। पुत्रस्तु स्थाविरे भावेन स्त्री स्वातन्त्र्यमर्हति”। याज्ञवलक्योऽपि
“रक्षेत्-कन्यां पिता, विन्ना पतिः, पुत्रस्तु वार्द्धके। अभावेज्ञातयस्तेषान्न स्वातन्त्र्यं क्वचित् स्त्रियाः” इति। विन्नाविवाहिता। पतिपुत्रविहीनायास्तु रक्षणं पतिपक्षान्त-र्गतेन प्रत्यासन्नेन कार्य्यम्। तथा च नारदः
“मृतेभर्त्तर्य्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियः। विनियोगात्मरक्षासु भरणेषु च ईश्चरः। परिक्षीणे पतिकुलेनिर्मनुष्ये निराश्रये। तत्सपिण्डेषु चासत्सु पितृपक्षःप्रभुः स्त्रियः”। पितृपक्षस्याप्यभावे स एवाह
“पक्षद्वया-वसाने तु राजा भर्त्ता स्मृतः स्त्रियः। स तस्या भरणंकुर्य्यान्निगृह्णीयात्पथश्च्युताम्” इति। विनियोगःकर्मणि नियोजनम्। भर्त्ता षोषकः स्त्रीस्वभावं दर्श-यति दक्षः
“जलौकावत् स्त्रियः सर्वा भूषणाच्छादना-शनैः। सुहितापि कृता नित्यं पुरुषं ह्यपकर्षति। जलौका रक्तमादत्ते केवलं सा तपस्विनी। इतरा तुधनञ्चित्तं मांसं वीर्य्यं बलं सुखम्। साशङ्का बाल-भावे तु यौवनेऽभिमुखी भवेत्। तृणवन्मंन्यते नारीवृद्धभावे स्वकम्पातम्। स्वकांम्ये वर्त्तमाना सा स्नेहान्नच निवारिता। अपथ्या नु भवेत् पश्चाद् यथा व्याधि-रुपेक्षितः” इति। सुहिता तृप्ता कृतापीत्यन्वयः। अपकर्षति सततमाज्ञामात्रं करोति स्वकाम्ये स्वेच्छा-याम्। अपथ्या अर्त्यन्ताहितहेतुभूता। मनुरपि
“नैतारूपं प्रतीक्षन्ते नासां वयसि संस्थितिः। सुरूपं वाविरूपं वा पुमानित्येव भुञ्जते। पौंश्चल्याच्चलचित्त्वत्वात्नैःस्नेह्याच्च स्वभावतः। रक्षिता यत्रतोऽपीह भर्तृ-[Page5347-b+ 38] ष्वेता विकुर्वते। शय्यासनमलङ्कारं कामं क्रोधमनार्ज-वम्। द्रोहभावं कुचर्याञ्च स्त्रीभ्योमनुरकल्पयत्। नास्तिस्त्रीणां क्रिया मन्त्रैरिति धर्मो व्यवस्थितः। निरिन्द्रियाह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः। तथा च श्रुतयोवह्व्या निगीता नि{??}मेष्वपि। स्त्रीलक्षणपरीक्षार्थन्तासांशृणुत् निष्कृतीः। यन्मे मोता प्रलुलुभे विचरन्त्यऽ-पतिव्रता। तन्मे रेतः पिता वृङ्क्तामित्युक्तैतन्निदर्शनम्। ध्यायत्यनिष्टं यत्किञ्चित्पाणिग्राहस्य चेतसा। तस्यैषव्यभिचारस्य निह्नवः सम्यगुच्यत। एवं स्वभार्वं ज्ञात्वा-साम्प्रजापतिनिसर्गजम्। परमं यत्नमातिष्ठेत् पुरुषोरक्षणं प्रति” इति। निरिन्द्रिया निर्वीर्य्यां धैर्य्यप्रज्ञा-दिरहिता इति यार्वत्। स्त्रियोऽनृतमिति प्रायशो-ऽनृतवदनशोलत्वादुच्यन्ते। श्रुतयः श्रुतिवाक्यानि। निगमेषु वेदेषु स्त्रीलक्षणं स्वरूपं तासां श्रुतीनाम्मध्ये यानिष्कृतिरूपा व्यभिचारप्रायश्चित्तरूपास्ताः श्रुतीःशृणुत स्त्रीस्वभावज्ञानार्थमित्यर्थः। महाभारतेऽपि
“कुलीना रूपवत्यश्च नार्थवत्यश्च योषितः। मर्यादासु नतिष्ठन्ति स दोषः स्त्रीष नारद!। अनर्थित्बन्पनुष्यस्यभयात्परिजनस्य च। मर्यादायाममर्यादाः स्त्रियस्ति-ष्ठन्ति भर्तृषु। यौवने वर्त्तमानानां मृष्टाभरणवाससाम्। नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः। यदिपुंसाम्मतिर्व्रह्मन्! कथञ्चिन्नोपपद्यते। अन्योन्यञ्चप्रवर्त्तन्ते न च तिष्ठन्ति भर्तृषु। अलाभात् पुरुषाणाञ्चभयात्परिजनस्य च। बधबन्धभयाच्चैव स्वयं गुप्ता भवन्तिताः। नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः। नान्तकः सर्वभू{??}आनान्न पुंसां वामलोचना। कामा-नामपि दातासं दादारं मानसान्नयोः। रक्षितारन्नमृष्यन्ति भर्त्तारं यत्नतः स्त्रियः” इति। श्रीरामायणे-ऽपि
“नैवाङ्गनानान्दयितो नापि द्वेष्योऽस्ति कसन। सर्वमेवावलम्बन्ते लता गहनजा इवेति”। अथ रक्षण-प्रकारः। तत्र मनुः
“न कश्चिद्योयितः शक्तः प्रसह्यपरिरक्षितुम्। एतैरुपाययौगैस्तु शक्यास्ताः परिरक्षि-तुम्”। इति। प्रसह्य आक्रम्य अवरुह्येति यावत्। यद्यप्यवरोधेन शरीरव्यभिचाराद्रक्षणं शक्यन्तथापिमानसव्यभिचाराद्रक्षणमशक्यमित्याशयेन मनुना नकश्चिद्योषितः शकः पसह्य परिरक्षितुमित्युक्तम्। नच मानसव्यभिचाराद्रक्षणमनर्थकमन्यजत्वाभावेन प्रजा-विशुद्धिविघाताभावादिति वक्तव्यम्। यत आह स[Page5348-a+ 38] एव
“यादृशं भजते स्त्री हि सुतं सूते तथाविधम्। तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियो रक्षेत् प्रयत्नतः” इति। यादृशं पुरुषमृतुकाले स्त्री मनसा भजते तत्समान-शीलं पुत्रं जनयतीति पूर्वार्द्धार्थः। अतएवाहतुःशङ्खलिखितौ
“यस्मन् भावेओऽर्पतः स्त्रीणामार्त्तवतच्छीलं जनयन्तीति”। मानसव्यभिचारादपि स्त्रियंरक्षेदिति शेषः। तथां च मनुना तस्मादत्यादिनोत्तरार्द्धेनायमेवार्थो दर्शितः। परिरक्षणोपायानाह मनु-रेव
“अर्थस्य संग्रहे चनां व्यये चैव नियोजयेत्। शौचेधर्मे च पक्त्याञ्च पारिणाह्यम्य चक्षण” इति। अर्थस्यसंग्रहे स्वेन समानीतार्थसंविधाने। व्यये स्वेनोक्त-व्यये। शौचे गृहादिशुद्धिकरसंमाजनापलेपनादौ। धर्मेअग्निहोत्राद्यनुकूललौकिकव्यापारे। पक्त्यां पाकव्या-परे। पारिणाह्यं पीटादि गृहोपकरणं तस्यईक्षणे विचारणे। निरन्तरगृहव्यापारनियोजनातपुरुषान्तरचिन्ताराहित्यं यथा भवति भार्यायाः तथाकुर्यादिति तात्पर्यार्थः। वृहस्पतिरपि
“आयव्ययेऽथसंम्कारे गृहोपसकररक्षणे। शौचाग्निकार्य्ये संयोज्याःस्त्रीणां शुद्धिरियं स्मृता” इति। एवविधव्यापारा-सक्तचित्ततया साध्व्य इति व्यपदिश्यन्त इत्याह मनुः
“आत्मानमामना यास्तु रक्षेयुस्ताः सुरक्षिताः” इति। आत्मना गृहव्यापारासक्तेनान्तःकरणेन सुर-क्षिताः साध्यः। आप्तपुरुषारक्षितस्तु स्त्रियो नसम्यग्रक्षिता इत्याह स एव
“अरक्षता गृहे रुद्धाःपुरुषैराप्तकारिभिः” इति। आप्तकारिभिः पुरुषैःगृहे रुद्धा इत्यन्वयः। आप्ताश्च ते कारिणश्चाप्तकारिणः। अरक्षिताः सम्यग्रक्षाविहीना इत्यर्थः। भर्त्तुर्द्धर्म-निष्ठत्वमोपि स्वीणां रक्षणोपाय इति दर्शयितुं सएवाह
“यादृग्गुणेन भर्त्ता स्त्री संयुज्य त यथाविधि। तादृग्गुणा सा भवति समुद्रेणेव निमग्ना। अक्षमालावसिष्ठेन संयुक्ताऽधमयोनिजा। शारङ्गी मन्दपालेनजगामाभ्यर्हणीयंताम्” इति। मार्याया भरणमप्या-वश्यकमित्याह स एव
“देवदत्तां पतिर्भार्गां विन्दते-नेच्छयात्मनः। तां साध्वीं विभृयान्नित्यं देवानां प्रिय-माचरन्”। देवैर्दत्ता देवदत्ता दैववशादायातेति यावत्। तां भार्यां स्वयंवरे पतिर्विन्दते। तत्र स्वव्यापाराभावा-द्देवदत्तामित्यनेन विवाहलक्षणस्य स्त्रीपुंसयोः सम्बन्धस्यन स्वाधीनत्वं किन्तहि देवकृतत्वमिति दर्शितम्। देव-[Page5348-b+ 38] दत्तत्वञ्च{??}पाम्
“सोमोददद्गन्धर्वाय गन्धर्वो दददग्नये। रयिश्च पुत्रांश्चाददग्निर्मह्यमथो इमाम्” इत्यादिभ्यः श्रुति-वाक्यभ्योऽवगम्यते। तेन देवैर्दत्ताया अभरणेन दातॄणांदेवालां द्राह आपाद्यत इत्यर्थवाद इत्युक्तं मदनरत्न। न च साध्वोमित्यस्य पतिब्रतामित्यर्थपरत्वेन व्यभि-चारिण्या भरणमनावश्यकमिति वक्तव्यम्। तस्या अपिकदन्नादिनाऽवश्यभरणायत्वात्। तथा च नारदः
“व्यभिचारे स्त्रियामौण्ड्यमधःशयनमेव च। कद-न्नञ्च कुवासश्च कर्म चावस्करोज्झनम” इति। स्त्रियार-त्यर्थं व्यभिचारे जाते मुण्डनमधःशयनञ्च साधयेत। कदन्नं कवासश्च भरणार्थं दद्यात्। अमेध्यशोधनरूपंकर्म कारयेदिर्त्यर्थः। दोषरहिताया भार्यायाः परि-त्यागिभं प्रत्याह नारदः
“अनुकूनाभवाग्दष्टां दक्षांसाध्वों प्रजावतीम्। त्यजन् भार्यामवस्थाप्या राज्ञादण्डेन भूयसा” इति। विष्णुरपि
“निर्दीषां परि-त्यजन् पत्नीञ्चेति” चौरवच्छास्य इत्यनुषङ्गः। निर्दोषा-न्त्यागहेतुभूतदाषरहिताम्। दण्डेन स्थापयितु-मशक्ये त्वाच योमीश्वरः
“आज्ञामम्पादिनीं दक्षां वीरसूप्रियवादिनीम्। त्यजन् दाप्यस्तृतीयांशमद्रव्योभरणंस्त्रियः” इति। तृतीयांशन्तद्धनतृतीयांशम्। राज्ञाभार्याया दाप्यः। अल्पधनः भरणमात्रपर्य्याप्तं धनं दाप्यइत्यथः”।

"https://sa.wiktionary.org/w/index.php?title=स्त्रीपुंधर्म्म&oldid=252910" इत्यस्माद् प्रतिप्राप्तम्