सामग्री पर जाएँ

स्थपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थपतिः, पुं, (तिष्ठन्त्यस्मिन्निति । स्था + कः । स्थः स्थानम् । तं पातीति । पा + बाहुलकात् अतिः इत्युणादिवृत्तौ उज्ज्वलः । ४ । ५९ ।) गीष्पतीष्टिय- ज्वा । बृहस्पतिसवननामकयागकर्त्ता । कारु- भेदः । राज् इति भाषा । इत्यमरः । ३ । ३ । ६० ॥ कारुः शिल्पी तद्भेदे थै इति ख्याते । स्थपतिः कारुभेदो मुख्यतक्षेति स्वामी । बृहस्पतियाग- याजिनि कुञ्चुकिनि च । इति भरतः ॥ * ॥ तस्य लक्षणं यथा, -- “वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रमः दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्त्तितः ॥” इति मात्स्ये । २१५ । ३९ ॥ कञ्चुकी । इति मेदिनी ॥ कुबेरः । इत्यजय- पालः ॥ अधीशः । इति हेमचन्द्रः ॥ (यथा, रामायणे । २ । ५२ । ५ । “स तु रामस्य वचनं निशम्य प्रतिगृह्य च । स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत् ॥”)

स्थपतिः, त्रि, (तिष्ठन्ति स्वधर्म्मे इति स्थाः सन्त- स्तेषां पतिः ।) सत्तमः । इति मेदिनी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थपति पुं।

बृहस्पतियागकर्ता

समानार्थक:स्थपति

2।7।9।1।1

स गीर्पतीष्ट्या स्थपतिः सोमपीथी तु सोमपाः। सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः॥

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

स्थपति पुं।

कारुभेदः

समानार्थक:स्थपति

3।3।61।1।1

स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे। मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थपति¦ पु॰ स्था--क तस्य पतिः।

१ कञ्चुकिनि मेदि॰

२ शिल्पि-भेदे (छुतार) अमरः

३ कुवेरे अजयः

४ अधीशे

५ वृह-स्पातिसवनामकयागकर्त्तरि च अमरः।

६ सत्तमे त्रि॰ मेदि॰तत्र अधीशपरत्वे
“निषादस्थपतिर्गावेधुकेऽधिकृतः” कात्या॰ श्रौ॰

१ ।

१ ।

१२
“निषादर्स्थपतिर्गावेधुके चरावधि-कृतः अधिकारी भवति”। एवं हि श्रूयते
“यस्य रुद्रःप्रजाः शमयेत्स वास्तुमध्ये रौद्रं गावेधुकम् चरुं निर्व-पेत्” इत्येतामिष्टिं प्रक्रम्य श्रुतम्
“एतया निषादस्थपतिंयाजयेदिति” निषादस्थपतिर्यजतेत्यर्थः। तत्रायं सन्देहःकिमत्र षष्ठीसमासः निषादस्य स्थपतिर्निषादस्थपतिरितिनिषादश्चासौ स्थपतिश्च निषादस्थपतिरिति कर्मधारयोवा। तत्र यदि षष्ठीसमासः तदा यो द्विजातिरेवविद्वान्निषादानामाधिपत्यं करोति तस्यात्राधिकारः यदिच कमधारयः तदा निषाद एव यः स्थपतिस्तस्यात्राधि-कार इति। तत्र त्रैवर्णिकस्यैव समर्थत्वाद्विद्वात्त्वादग्नि-मत्त्वाच्चात्राधिकारो युज्यते अन्तजातीयस्य निषादस्या-विद्वत्त्वेनानग्निमत्त्वेन चासमर्थत्वात्, तस्मात् षष्ठीसमासएवायमिति पूर्वपक्षः। सिद्धान्तस्तु कर्मधारयोऽयम्निषादसायं स्थपतिश्चेति कुतः? षष्ठीसमासपक्षे निषाद-पद लक्षणाप्रसक्तेः न ह्यत्र षष्ठी श्रूयते यतः सम्बन्धः[Page5352-b+ 38] प्रतोयेत। अतो निषादपदेनैव षष्ठ्यर्थो लक्षणीयः इत-रस्मिंस्तु पक्षे द्वयोरपि पदयोर्मुख्यार्थतैव न लक्षणातस्मान्निषाद एव स्थपतिरत्राधिकारी श्रुतिबलात् अवि-द्वाननग्निमानपीति सिद्धम्। अपि चात्र निषादद्रव्यंदक्षिणा श्रूयेत कूटं दक्षिणा काणो वा गर्दभ इति कूटंहि निषादानामेवोपकारकम् नार्याणामिति” कक॰। वृहस्पतिसवकर्त्तरि तु
“स्थपतिरित्येनं ब्रूयुः” कात्या॰श्रौ॰

२२ ।

५ ।

२८ सू॰।
“सराजानो ब्राह्मणा यं पुरस्कु-र्वीरन् एतेन यजेत”
“वृहस्पतिसवेन” सू॰। राज्ञा सहितब्राह्मणायं ब्राह्मणं धर्मस्थापकत्वेन चाङ्गीकुर्वीरन्
“एतेनस एतेन यजेत वृहस्पतिसवेन्” स॰ व्या॰। वृहस्पतिसवकर्तृवत्

६ गोसवकर्त्तर्य्यपि यथोक्तं
“स्थपतिरित्येनं व्रूयुः” कात्या॰ श्रो॰

२२ ।

११ ।

११ सू॰।
“गोसवयाजिनं जनाः”। राज्ञा सहिता विशः प्रजाः सर्बे पुरुषा यं पुरस्कर्वीरन्(मुख्यत्वेनाङ्गीकुर्वीरन्” स गोसवेन यजेत

२२ ।

११ ।

८ कर्क॰
“कारुभेदस्य लक्षणं यथा
“वास्तुविद्याविधानज्ञोलघुहस्तो जितश्रम। दीर्घदर्शी च शूरश्च स्थपतिःपरिकीर्त्तितः”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थपति¦ mfn. (-तिः-तिः-ति) Chief, best, principal. m. (-तिः)
1. The perfor- mer of the VRIHASPATI-sacrifice.
2. A guard or attendant of the women's apartments.
3. A sovereign, a chief.
4. An architect, a master-carpenter or builder.
5. A carpenter, a wheel-wright.
6. A charioteer.
7. KUVE4RA. E. स्थ who is or who is placed, and पति master, lord.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थपति [sthapati], a. [स्था-क तस्य पतिः] Chief, principal.

तिः A king, sovereign; 'स्थपतिरधिपतौ तक्ष्णि बृहस्पतिसचिवयोः' इति वैजयन्ती; जगत्त्रयैकस्थपतिस्त्वमुच्चकैः Śi.1.34.

An architect; स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः Mb.1.51.15.

A wheel-wright, master-carpenter.

A charioteer.

One who offers a sacrifice to Bṛihaspati.

An attendant on the women's apartments.

N. of Kubera.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थपति/ स्थ-पति See. p. 1262 , col. 3.

स्थपति/ स्थ--पति m. ( accord. to some स्थपति, fr. caus. of 1. स्था)" place-lord " , a king , chief , governor , head official( accord. to Ka1tyS3r. , " a वैश्यor even a person of lower caste , who has celebrated the गो-सवsacrifice after being chosen king " ; accord. to others , " an आयोगवwho is a town official " ; See. निषाद-स्थ्) AV. VS. Br. S3rS. R. S3is3.

स्थपति/ स्थ--पति m. an architect , master builder , carpenter , wheelwright MBh. R. etc. ( IW. 185 )

स्थपति/ स्थ--पति m. one who sacrifices to बृहस्-पतिL.

स्थपति/ स्थ--पति m. a guard or attendant on the women's apartments , chamberlain L.

स्थपति/ स्थ--पति m. a charioteer W.

स्थपति/ स्थ--पति m. N. of बृहस्-पतिL.

स्थपति/ स्थ--पति m. of कुबेरL.

स्थपति/ स्थ--पति mfn. chief , best , principal L.

स्थपति See. स्थ-पतिabove.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the state architect. M. २१५. ४०.

"https://sa.wiktionary.org/w/index.php?title=स्थपति&oldid=440909" इत्यस्माद् प्रतिप्राप्तम्