सामग्री पर जाएँ

स्नान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नानम्, क्ली, (स्ना + ल्युट् ।) मज्जनम् । अव- गाहनम् । तत्पर्य्यायः । आप्लावः २ आप्लवः ३ । इत्यमरः । २ । ६ । १२१ ॥ अभिषेकः ४ इति शब्दरत्नावली ॥ उपस्पर्शनम् ५ सवनम् ६ सर्ज- नम् ७ । इति जटाधरः ॥ तदनुकल्पः सप्त- विधः । मान्त्रम् १ भौमम् २ आग्नेयम् ३ वाय- व्यम् ४ दिव्यम् ५ वारुणम् ६ मानसम् ७ । एतेषां विवरणं पश्चात् स्फुटीभविष्यति ॥ * ॥ अस्य गुणाः । “स्नानं पवित्रमायुष्यं श्रमस्वेदमलापहम् । शरीरबलसन्धानं केश्यमोजस्करं परम् ॥ उष्णाम्बुनाधःकायस्य परिषेको बलावहः । तेनैव तूत्तमाङ्गस्य बलकृत् केशचक्षुषोः ॥ विनिहन्ति शिरः स्नानं तृष्णाताल्वास्यशोष- णम् । मलोष्णपीडकाकण्डं शिरोरोगांश्च पैत्तिकान् ॥ मधुकामलकैः स्नानं पित्तघ्नं तिमिरापहम् । स्नानं वचाघनैरिष्टं श्लेष्मघ्नं तिमिरापहम् ॥ स्नानं कृष्णतिलैश्चापि चक्षुष्यमनिलापहम् । अस्नातस्य शरीरस्य उष्मा सर्व्वाङ्गगोचरः ॥ स्नानेनैकत्वमायाति तेन दीप्यति पावकः । स्नानमर्द्दि तनेत्रास्यकर्णरोगातिसारिषु ॥ आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् । दौर्गर्न्ध्यं गौरवं कण्डूं कच्छुं मलमरोचकम् । स्वेदं वीभत्सतां हन्ति शरीरपरिमार्ज्जनम् ॥” इति राजवल्लभः ॥ * ॥ अथ स्नानविधिः । दक्षः । “चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् । तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले ॥” कुर्य्यादिति शेषः । तथा च । “अस्नात्वा चाप्यहुत्वा च भुङ्क्तेऽदत्त्वा च यो नरः । देवादीनामृणी भूत्वा नरकं प्रतिपद्यते ॥” * ॥ तदा सर्व्ववपुश्च स्यादवगाहनमुच्यते । गोविन्दद्वादशीमाघीवारुण्यर्द्धोदयादिषु । स्नानं यत्तच्च नैमित्तं ग्रहणे चन्द्रसूर्य्ययोः ॥ मैथुने वमने रेतःस्खलने मृतके तथा । विण्मूत्रादिशवस्पर्शे शवानुगमनेऽपि च ॥ निद्रान्ते जातकेनृणामस्पृश्यस्पर्शनादिषु । रजस्वलाचतुर्थाहे यत् स्नानं स्यात्तदाशुचम् ॥ गङ्गादिसर्व्वतीर्थेषु विष्णुपादोदकैस्तथा । यत् स्नानमभिषेकञ्च पुण्यं तत् परिकीर्त्तितम् हेलया श्रद्धया नॄणां भक्त्या यत्नेन नारद । गङ्गाम्भोयष्टिवत्स्नानं महापापादिनाशनम् ॥ गङ्गास्नानं मनुष्याणां सर्व्वकल्मषनाशनम् । स्तम्बवच्चापि काष्ठस्य भवेन्मूषलवत् यदि ॥ स्नानं स्यात् सर्व्वतीर्थेषु नानायज्ञफलप्रदम् । शालग्रामशिलावारि योऽभिषेकं समाचरेत् ॥ अकालमृत्युहरणं सर्व्वव्याधिविनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयेद्यदि यदि सर्व्वमनुष्याणां बाह्यान्तर्मलशोधनम् । तदेव नैर्मलस्नानं शरीराणां भवेत् ध्रुवम् ॥ स्वेदाश्रुमज्जाविण्मूत्रचिकुराः क्षतजा वसा । दूषिका कर्णविट् श्लेष्मा नॄणां बाह्यमलाः स्मृताः मलैस्तु मलिनो देहो नवच्छिद्रैश्च छिद्रितः । स्रवत्यविरतं पूर्णो दिवारात्रौ मलानतः ॥ अद्भिश्च गोमयैश्चापि मलानामपमार्जनम् । सर्व्वत्र क्षालनं कृत्वा सर्व्वात्मप्रयतो मुनिः ॥ अष्टाङ्गयोगाभ्यासैश्च देहप्रक्षालनं ततः । नरोऽम्बुमज्जनं कुर्व्वन् स्नानं भवति नैर्म्मलम् ॥” इति पाद्मे उत्तरखण्डै ११३ अध्यायः ॥ * ॥ किञ्च । “तुलामकरमेषेषु प्रातःस्नानं विधीयते । हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम् ॥ अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनम् । न जीवत्पितृकः कुर्य्यात् कृते च पितृहाभवेत् करेण मार्ज्ज येद्गात्रं स्नानवस्त्रेण वा यदि । शुनास्पृष्टं भवेद्गात्रं पुनः स्नानेन शुध्यति ॥ अप्रक्षाल्य तु पादौ यः स्नात्वा गच्छति मन्दिरम् संवत्सरकृतं पुण्यं तत्क्षणादेव नश्यति ॥ स्नानं रजकतीर्थेषु भोजनं गणिकालये । शयनं पूर्व्वपादे च ब्रह्महत्या दिने दिने ॥” इति कर्म्मलोचनः ॥ अन्यत् मत्स्यसूक्ततन्त्रे ३९ पटले द्रष्टव्यम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नान नपुं।

स्नानम्

समानार्थक:आप्लाव,आप्लव,स्नान

2।6।122।1।1

स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम्. अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे॥

 : प्रोञ्चनादिनाङ्गनिर्मलीकरणम्, उद्वर्तनद्रव्येणाङ्गनिर्मलीकरणम्, अवभृतस्नानम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नान¦ न॰ स्ना--भावे ल्युट्।

१ शोधने

२ अवगाहने

३ मज्जनेच तच्च मन्त्रादिकारणभेदादष्टविधं आ॰ त॰ तत्प्रकार-भेदादिकं च दर्शितं यथा
“दक्षः
“चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत्। तिलपुष्पकुशादीनि स्नानार्थञ्चाकृत्रिमे जले”। कुर्य्यादितिशेषः। तथा च
“अस्नात्वा चाप्यहुत्वा च भुङ्क्ते-ऽदत्त्वा च यो नरः। देवादीनामृणी भूत्वा नरकंप्रतिपद्यते”।
“अस्नात्वा नाचरेत् कर्म जपहोमादिकिञ्चन। लालास्वेदसमाकीर्णः शयनादुत्थितः पुमान्। अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः। स्रव-त्येव दिवा{??}लौ गातःस्नानं विशोधनम्। प्रातःस्नानंप्रशसन्ति दृष्टादृष्टफ हि तत्। सरमर्हति पूतात्माप्रातःस्नायी जपादि{??} अज्ञानाद् यदि वा मोहात्रात्रौ दुश्चरितं कृत{??} स्नानेन तत् सर्वं शोध-यन्ति द्विजातयः” !{??} अदृष्टं प्रत्य-वायपरीहारादि। प्रात{??} लः
“प्रातःस्नाय्यरुणकिरणग्रस्तां प्राचीमवल{??}” इतिविष्णूक्तेः। प्रातःस्नाने मध्याह्नस्नानधर्मातिदेशमाहकात्यायनः
“यथाहनि तथाप्रातर्नित्यं स्नायादनातुरः। दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत्तदमन्त्रवत्”। यथातथेतिकर्त्तव्यतया। सा च
“आचरेदुषसि स्नानं तर्प-येद्देवमानुषान्” इति जावाल्युक्ता। वैदिके कर्मणिवामहस्ते वहुतरकुशान् दक्षिणेन पवित्रं धारयेत्। तथा च छन्दोगपरिशिष्टम्
“ह्रस्वाः प्रचरणीयाः स्युःकुशा दीर्घाश्च वर्हिषः। दर्भाः पवित्रमित्युक्तमतः सन्ध्या-दिकर्मसु। सव्यः सोपग्रहः कार्य्यो दक्षिणिः सपवित्रकः”। प्रचरणीयाः पार्वणपञ्चयज्ञादिकर्मानुष्ठानार्हाः। बर्हिषःयज्ञाद्यास्तरणार्थाः। यत स्तत्तत्कमंसु कुशविशेषा उक्ताः। अतः सन्ध्यादिकर्मसु अवस्थाविशेषशून्याः कुशाः पवित्रम्। सोपग्रहः बहुतरकुशयुक्तः सपवित्रको विशिष्टद्विदल-युक्तः। विशेषमाह स एव
“अनन्तर्गर्भिणं साग्रं कौशंद्विदलमेव च। प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्र-चित्”। अनन्तर्गर्भिणं अन्तर्गर्भशून्यम्। तथा चशौनकः
“अनन्तस्तरुणौ यौ तु कुशौ प्रादेशसम्मितौ। अनखच्छेदिनौ साग्रौ तौ पवित्राभिधायकौ”।
“एतद-भावे कुशपत्रचतुष्टयं त्रय वा समुद्रकरधृतवचनात। तद् यथा
“चतुर्भिर्दर्भपत्रैश्च त्रिभिर्द्वाभ्यामथापि वा। [Page5362-b+ 38] पवित्रं कारयेन्नित्यं प्रशस्तं सर्वकर्म{??}”। विव्याकर-वाजपेयिधृतम्
“पावत्रन्तु द्विजः कुर्य्यात् कुशपत्रद्वयेनवा। पत्रत्रयेण वा कार्य्यं नैकपत्रण कुत्रचित्”। एतद्दर्शनात् दर्भापवित्रमित्यत्रैवमपि व्याख्येयस्मार्कण्डेयः
“सर्वकालं तिलैः स्नानं पुण्यं व्यासोऽव्र-वीन्मुनिः। श्रीकामः सर्वदा स्नानं कुर्वीतामलकैर्नरः। सप्तनीं नवमीञ्चैव पर्वकालञ्च वर्जयेत्”। विष्णुधर्मोत्तरे
“त्वराक्रीधौ तथा{??}र्ज्यौ देवकर्मणि पण्डितैः। इक्षुराषःपयश्चैव ताम्बूलं फलमौषधम्। भक्षयित्वा तु कर्त्तव्याःस्नानदानादिकाः{??}क्रियाः”। मविष्योत्तरे
“स्नातुस्तुवरुणस्तेजो जुह्वतोऽग्निः श्रियं हरेत्। भुञ्जानस्य यम-स्त्वायुस्तस्मान्न व्याहरेत् त्रिषु”। स्नातुः स्नानं कुर्वतः। अशुचेरवगाहनानन्तरं स्नानमाह योगियाज्ञवल्क्यः
“तू-ष्णीमेवावगाहेत यदा चेदशुचिर्नरः। आचम्य तु ततःपश्चात् स्नानं विधिवदाचरेत्”। वामनपुराणम्
“ना-भिमात्रजले गत्वा कृत्वा केशान् द्विधा द्विजः। निरुध्यकर्णौ नासाञ्च त्रिःकृत्वो मज्जनं ततः”। तत्रैव वृद्ध-याज्ञवल्क्यः
“स्रीतसां संमुखो मज्जेत् यत्रापः प्रव-हन्ति वै। स्थावरेषु गृहे चैव सूर्य्यसम्मुख आप्लवेत्”। हारीतः
“नातुरो न भुक्त्वा न जीर्णवासा न बहुवासान नग्नी नाश्नन् नावसक्थिको नालङ्कृतो नाजस्रंनाज्ञाते जले नाकुले नाशुचौ न प्रभूतजले न नाभ्रल्प-जले न चत्वरे नोपद्वारे न सन्ध्यायां न निशायां स्नाया-दिति”। चत्वरे काकादिवलिस्थले इति श्रीदत्तः। उप-द्वारे द्वारसमीपे। अत्रैकेन मुनिना नग्नबहुवाससो-र्निषेघस्याभिधानात् स्नाने द्विवासस एवाधिकारः प्रती-यते। एकवस्त्रस्नाने दोषमाह समुद्रकरधृतभविष्ये गो-तमः
“एकवस्त्रेण यतस्नानं मूच्या विद्धेन चैव हि। स्नातस्तु न भवेत् शुद्धः श्रिया च परिहीयते”। अतएव
“स्नानं तर्पणपर्य्यन्तं कुर्य्यादेकेन वाससा” इति यदिसमूलं तदा प्रेततर्पणपरमिति
“तत्रैकवस्त्रा ज्ञातयः” इत्यादिना एकवस्त्रत्वावधानात्
“एकेन एकजातीयेन” इतिवाचस्पतिमिश्राः।
“येन वाससा स्नानं कृतं जलस्थस्य तेनवतर्पणम्” इति कृत्यतत्त्वार्णवः। न च
“स्नानशाट्यान्तुदातव्या मृदस्तिस्रो विशुद्धये। जलमध्ये तु यः कश्चित्द्विजातिर्ज्ञानदुर्वलः। निष्पीडयति यद्वस्त्रं स्नानं तस्यवृथा भवेत्” इति वशिष्ठवचने स्नानशाट्यामिति तद्-वस्त्रमिति एकवचननिर्देपेन च सानेऽप्येकवस्त्रत्वमिति[Page5363-a+ 38] वाच्यम् अ व विशुद्धय इत्यभिधानेनाधोधृतवस्त्रस्यैव मृत्त्रयेण प्रक्षालणं नतूत्तरीयस्य एतदर्थमेकवचनम्। अतएव
“मृत्त्रयेणाधरीयवस्त्र” प्रक्षाल्यं वशिष्ठवचनैकवाक्यतया। इत्याह्निकचिन्तामणिः।
“म्नातो नाङ्गानि निर्मृज्यात्स्नानशाट्या न पाणिना” इति विष्णुपुराणीयेनाध-रीयवस्त्रेणैव गात्रमार्जनं निषिध्यते।
“एतेन निष्पीद्ध्यस्नानवस्त्रमिति” कात्यायनवचने एकत्वमविक्षितमिति निर-स्तम्। अतएव सर्वत्रैकत्वं निर्दिष्टम्। शिष्टानाम् आ-चारोऽपि तथा इति।
“नाजस्रमिति पुनः पुनः स्नाननि-षेधः रागप्राप्तस्नानविषयो दृष्टार्थकत्वात्। एवञ्चैकस्मिन्दिने नानातीर्थादिनिमित्तप्राप्तस्नानावृत्तिर्भवत्येव वैधत्वात्। अत्रापि तन्त्रप्रसङ्गयोः सत्त्वे सकृदेविते। अहः स्नान-प्रधानकालमाह दक्षः
“चतुर्थे च तथा भागे स्नानार्थंमृदमाहरेत्। तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले”। विष्णुः
“कुशाभावे कुशस्थाने काशं दूर्वा वा दद्यादितिविद्याकरधृतम्
“तर्जनी रूप्यसंयुक्ता हेमयुक्ता त्वनामिका। सैव युक्ता तु दर्मेण कार्य्या विप्रेण सर्वदा”। मतस्यसूक्ते
“शस्ताः समूला दर्भाश्च गुच्छेन चाधिकं फलम्। सव्यः गोपग्रहः कार्य्यो दक्षिणः सपवित्रकः” इतिरोगिणश्चाण्डालादिस्पर्शोऽपि न दोषायेत्थाह रत्नाकरेवृहस्पतिः
“तीर्थे विवाहे यात्रायां संग्रामे देशविल्पवे। नगरग्रामदाहे च स्पृष्टास्पृष्टि न दुष्यति। आपद्यपिच कष्टायां रुग्भये र्पडने सदा। मातापित्रोर्गुरोश्चैवनिदेशे वर्त्तने तथा”। स्पृष्टास्पृष्टीत्यव्ययम क्रिया-व्यतिहारे। तथेति न दुष्यतीत्यर्थः। गारुडे
“सर्वतीर्था-भिषेकाद्धि पवित्रं विदुषां वचः। धर्मश्रवणवेलायांविप्रो व्याससमः स्थितः”। तथाविधातुरं प्रति जावालः
“अशिरस्कं भवेत् म्नानं स्नानाशक्तौ तु कर्मिणाम्। आर्द्रेण वाससा वापि दैहकं मार्जनं स्मृतम्” कर्मि-णाम्
“शिरः स्नातस्तु कुर्वीत देवं पैत्र्यमथापि वा” इति मार्कण्डेयपुराणोक्तकर्म चिकीर्षूणां मार्जनमिह-प्रोञ्छनं, योगियाज्ञवल्क्यः
“असामर्थ्याच्छरीरस्य काल-शक्त्याद्यपेक्षया। मान्त्रस्नानादितः सप्त केचिदिच्छन्तिसूरयः। मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च। वारुणं मानसञ्चैव सप्त स्नानं प्रकीर्त्तितम्।
“आपी हि-ष्ठेति” वै मान्त्रं मृदालम्भस्तु पार्थिवम्। आग्नेयं भस्मनासानं वायव्यं गोरजः स्मृतम्। यत्तु सातपवर्षेणस्नानं तद्दिव्यमुच्यते। वारुणञ्चावगाद्यङ्घ मानसं विष्णु-[Page5363-b+ 38] चिन्तनम्। समस्तं स्नानमुद्दिष्टं मन्त्रस्नानक्रमेद्य तु। कालदोषादसामर्थ्यात् सर्वं तस्य फलं स्मृतम्”। आपोहिष्ठेति अपो हिष्ठादि ऋक्त्रयमत्र विवक्षितम्। एवञ्च
“कालदोषादसामर्थ्यात् न शक्नोति यदाम्भसि। तदाज्ञात्वा तु ऋषिभिर्मन्त्रैर्दृष्टन्तु मार्जनम्। शन्न आपस्तु

१ द्रुपदा

२ आपो हिष्ठा

३ ऽथमर्षणम्

४ । एभिश्चतुर्भि रृग्-मन्त्रैर्मन्त्रस्नानमुदाहृतम्। इति योमिश्राज्ञवल्कीयंयन्मन्त्रस्नानान्तरं तत् प्राधान्यख्यापनाय। अतएव पितृदयितायांसन्ध्यातः पूर्वं तल्लिखितम्। मृदालम्भस्तु गङ्गामृत्तिका-तिलकरूपः। भस्मना संस्कृतभस्मना इति छन्दोगा-ह्निकः। अवगाह्यं मन्त्राड्यङ्गशून्यावगाहनमात्रंविवक्षितम् अतो मुख्यावगाहनरूपस्नानानुकल्पत्वमप्यु-क्तम्। कालदोषोऽतिवृष्ट्यादिः असामर्थ्यं शरीरापाट-वहेतुः अल्पत्वेन सम्पूर्णवारुणस्नानविधिकालायोग्यत्वंवेतिं। एतन्मूलकं
“गेहे चेत्तदमन्त्रवदिति” छन्दोग-परीशिष्टीयं प्रागुक्तम् अन्यथा मूलभूतश्रुत्यन्तरकल्पना-पत्तेः सामर्थ्ये तूद्धृतजलेनापि समन्त्रकस्म्नमाह परा-शरभाष्ये व्यासः
“शीतास्त्वपो निषेव्योष्णा मन्त्रसम्भारसंस्कृताः। गेहेऽपि शस्यते सानं तद्धीनमफलस्मृतम्”। पद्मपुराणम्
“नैर्मल्यं भावशुद्धिश्च विनाम्नानं॰ न जायते। तस्मान्मनोविशुद्ध्यर्थं स्नानमादौविधीयते। अनुद्धृतै रुद्धृतैर्वा जलैः स्नानं सदाचरेत्। तीर्थं प्रकल्पयेद्विद्वान् मूलमन्त्रेण मन्त्रवित्। नमो ना-रायणायेति मूलमन्त्र उदाहृतः। दर्मपाणिस्तु विधिजाआचान्तः प्रयतः शुचिः। चतुर्हस्तसमायुक्तं चतुरस्रंसमन्ततः। प्रकल्प्यावाहयेद्गङ्गां गभिर्मन्त्रैविचक्षणः”। काशीख॰ अन्यप्रकारो दर्शितो यथा
“प्रातःस्नानं चरित्वाथ शुद्ध्यै तीर्थे विशेषतः। प्रातः-स्नानाद् यतः शुद्ध्येत् कायोऽयं गलिनः सदा। छि-द्रितो नवभिश्छिद्रैः स्नवत्येव दिवानिशम्। उत्साह-मेधासौभान्यरूपसम्पत्प्रवर्त्तकम्। मनाप्रसन्नताहेतुःप्रातःस्नानं विशिष्यते। प्रस्वेदलालाद्याक्लिन्नो निद्रा-धीनो यतो नरः। प्रातःस्नानात्ततोऽर्हः स्यान्मन्त्रस्तोत्र-जपादिषु। प्रातः प्रातस्तु यः स्नानं संजाते वारुणो-दये। प्राजापत्यसमं प्राहुस्तन्महाघविधातकृत्। प्रातः-स्नानं हरेत् पापमलक्ष्मीं ग्लानिमेव च। अशुचित्वञ्चदुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति। नोपसर्पन्ति वै दुष्टाःप्रातःस्नायिजनं क्वचित्। दृष्टादृष्टफलं तस्मात् प्रातः-[Page5364-a+ 38] स्नानं समाचरेत्। प्रसङ्गतः स्नानविधिं वक्ष्यामि कलसोद्भव!। विधिस्नानं यतः प्राहुः स्नानाच्छतगुणोत्तरम्। विशुद्धां मृदमादाय वर्हींषि तिलगोमयम्। शुचौ देशेपरिस्थाप्य चाचम्य स्नानमाचरेत्। उपग्रही वद्धशिस्वोजलमध्ये समाविशेत्। उरूस्पाहीति मन्त्रेण तोय-मावर्त्त्य सृष्टितः। ये ते शतं ततो जप्यात् तोयस्यामन्त्रणाय च। सुमित्रायानो मन्त्रेण पूर्वं कृत्वा जला-ञ्जलिम्। क्षिपेद् द्वेष्यं समुद्दिश्य जपन् दुर्मत्रियाइति। इदं विष्णुरिदं जप्त्वा लिम्पेदङ्गानि मृत्स्नया। मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि। नाभे-रधस्तु तिसृभिः पादौ षड्भिर्विशोधयेत्। मज्जेत् प्रवा-हाभिमुख आपो अस्मानिम जपन्। उदित्राभ्यः शुचिरिति मन्त्र उन्मज्जने मतः। मानस्तोकमिमं जप्त्वालिम्पेद्गात्राणि गोमयैः। इमं मे वरुणेत्यादिमन्त्रैःस्वात्माभिषेचनम्। तत्त्वा यामि तथा त्वन्नः स त्वन्नश्चाप्यु-दुत्तमम्। धाम्नाधाम्नस्तथामापो मौषधीरिति संजपेत्। यदा दुरघ्न्या मुञ्चन्तु सेतिमावमृतेति च। अष्टावेताइमे मन्त्राः प्रोक्ताः स्वात्माभिषेचने। प्रणवेन ततो विप्रोमहाव्याहृतिभिस्ततः। आत्मानं पावयेद्विद्वान् गायत्र्याच ततः कृती। आपो हिष्ठेति तिसृमिः प्रत्यृचं पावनंस्मृतम्। एते वै पावना मन्त्रा इदमाप्नोह्वविष्मती। देवीराप आपो देवा द्रुपदादिवसंज्ञकः। शन्नो देवी रपोदेवीरपाञ्च वरमित्यपि। पुनर्नमेति च नव पावमान्यःप्रकीर्त्तिताः। ततोऽघमर्षणं जप्त्वा द्रुपदां च ततो ज-पेत्। प्राणायामं च विधिवदथ वान्तर्जलं जपेत्। प्रणवंत्रिर्जपेद्वापि विष्णुं वा संस्मरेत् सुधीः। स्नात्वेत्थं वस्त्र-मापीड्य गृह्णीयाद्धौतवाससी”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नान¦ n. (-नं)
1. Bathing, ablution.
2. Purification by bathing, religious or ceremonial ablution.
3. Anything proper for ablution, viz.:-- water, perfumed powder for the body, &c. E. ष्णा to bathe, ल्युट् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नानम् [snānam], [स्ना-भावे ल्युट्]

Bathing, washing, ablution, immersion in water; ततः प्रविशति स्नानोत्तीर्णः काश्यपः Ś.4; न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः (विभूषयन्ति पुरुषं) Bh. 2.19.

Purification by bathing, any religious or ceremonial ablution.

The ceremony of bathing or anointing an idol.

Anything used in ablution. तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः Me.35.

Cleansing, washing off. -Comp. -अगारम् a bath-room. -कलशः, -कुम्भः a jar containing lustral water. -गृहम् a bathroom; उत्थायावश्यकार्यार्थं ययौ स्नानगृहं नृपः Mb.7.82.7.-तीर्थम् a sacred bathing place. -तृणम् Kuśa-grass.-द्रोणी a bathing tub. -यात्रा the festival held on the full-moon day in the month of Jyeṣṭha. -वस्त्रम् a bathing-garment; सकृत् किं पीडितं स्नानवस्त्रं मुञ्चेत् द्रुतं पयः H.2.14.

विधिः the act of ablution.

the proper manner or rules of ablution. -शाटी bathing drawers.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नान n. ( ifc. f( आ). )bathing , washing , ablution , religious or ceremonial lustration (as of an idol etc. ) , bathing in sacred waters (considered as one of the six daily duties [See. षट्-कर्मन्] or as an essential part of some ceremonial , esp. the ablutions performed by a ब्रह्म-चारिन्on becoming a householder See. स्नातक) Gr2S3rS. Mn. MBh. etc. ( IW. 242 RTL. 394 n. 1 etc. )

स्नान n. washing off , removal by washing , cleansing BhP.

स्नान n. anything used in ablution( e.g. water , perfumed powder etc. ) Ka1v. VarBr2S. Vet. BhP.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SNĀNA : Bathing. The Purāṇas have ordered six kinds of bathing. They are Nitya snāna (daily bath), Naimi- ttika snāna (incidental bath), Kāmya snāna (Desir- able), Kriyā snāna (ceremonial), Kriyāṅga snāna (bathing only the limbs used for rites) and Malakar- ṣaṇa snāna (Bathing to drag out excrements). (Agni Purāṇa, Chapter 155).


_______________________________
*8th word in left half of page 733 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्नान&oldid=505866" इत्यस्माद् प्रतिप्राप्तम्