स्नायु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नायुः, स्त्री, (सा + बाहुलकात् उण् । “आतो- युक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् । इत्युणादिवृत्तौ उज्ज्वलः । १ । १ ।) वायुवाहिनी नाडी । महुर इति ख्याता । इति भरतः ॥ तत्पर्य्यायः । वस्नसा २ इत्यमरः । २ । ६ । ६६ ॥ स्नसा ३ नसा ४ । इति राजनिर्घण्टः ॥ स तु गर्भस्थस्य सप्तभिर्मासैर्भवति । इति मुग्धबोधः ॥ (यथा, याज्ञवल्क्यः । ३ । १०० । “शिराः शतानि सप्तैव नवस्नायुशतानि च ॥” “नवस्नायुशतानि तासां शाखासु षट्शतानि । द्वे शते त्रिंशच्च कोष्ठे । ग्रीवां प्रत्यूर्द्धं सप्ततिः ॥ एकैकस्यान्तु पादाङ्गुल्यां षट्निचितास्तास्त्रिंशत् तावत्य एव तलकूर्च्चगुल्फेषु । तावत्य एव जङ्घायाम् । दशजानुनि । चत्वारिंशदूरौ । दश वङ्क्षणे । शतमध्यर्द्ध्वमेवमेकस्मिन् सक्थ्नि भवन्ति । एतेनेतरसक्थि बाहू च व्याख्यातौ । षष्टिः कट्याम् । अशीतिः पृष्ठे । पार्श्वयोः षष्टिः । उरसि त्रिंशत् ॥ षट्त्रिंशद्ग्रीवायाम् मूर्द्ध्नि चतुस्त्रिंशत् । एवं नव स्नायुशतानि व्याख्यातानि । भवन्ति चात्र । स्नायुश्चतुर्व्विधा विद्यात्तास्तु सर्व्वा निबोध मे । प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च सुषिरास्तथा ॥ प्रतानवत्यः शाखासु सर्व्वसन्धिषु चाप्यथ । वृत्तास्तु कण्डराः सर्व्वा विज्ञेया कुशलैरिह ॥ आमपक्वाशयान्तेषु वस्तौ च शुषिराः खलु । पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ॥ नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता । भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता । एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः ॥ स्नायुभिर्व्वहुभिर्बद्धास्तेनभारसहा नराः नह्यस्थीनि न वा पेश्यो न सिरा न च सन्धयः ॥ व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् । यः स्नायुः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा गूढं स शल्यमाहर्त्तुं देहाच्छक्नोति देहिनाम् ॥” इति सुश्रुते शरीरस्थाने पञ्चमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नायु स्त्री।

स्नायुः

समानार्थक:वस्नसा,स्नायु

2।6।66।2।1

अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा। स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नायु¦ स्त्री स्नाति--शुध्यति दोषोऽनया स्ना उण्। शरीरादि-बन्धननाडीमेदे तत्स्वरूपसंख्यादि भावप्र॰ उक्तं यथा
“तत्र स्नायोः स्वरूपमाह। मेदसः स्नेहमादाय सिरास्नायुत्वमाप्नुयात्। सिराणां हि गृदुः पाकः स्नायू-नान्तु ततः खरः। स्नायवो बन्धनानि स्युर्देहमांसास्थिमेदसाम्। सन्धीनामपि यत्तास्तु सिराम्यः सुदृढाःस्मृताः। नीर्यथा फलकास्तीर्णा बन्धने बहुमिर्युता। मिर्मुक्ताऽगाधसलिले भवेद्भारसहा भृशम्। एवमेवशरीरऽस्मित् यावन्तः सन्धया स्मृताः। स्नायुभिर्बहुमिर्बेद्धा[Page5364-b+ 38] स्तेन भारसहा नराः”। फलकै काष्ठपट्टैः सस्तीर्णाव्याप्ताः
“शतानि नव जायन्ते शरीरे स्नायवो नृणाम्। तासां विवरणं ब्रूमः शिष्याः शृणुत यत्नतः। शाखासुषटशतानि स्त्रुः कोष्ठे त्रिंशत् शतद्वयम्। ग्रीवायांमूर्द्धदेशे तु स्नायूनां सप्ततिः स्मृताः”। तत्र शाखागताःप्राह। एकैकस्यां प दाङ्गल्यां षट् षट् तास्त्रिंशत्। तावन्त्य एव तलकूर्चगुल्फेषु। तावन्त्य एव जङ्घायांदश जानुनि। चत्वारिंशदूरौ। दश वङ्क्षणे। एवंसार्द्धशतमेकस्मित् सक्थिनि भवन्ति। एतेनेतरसक्थिवाहू च व्याख्यातौ। अथ कोष्ठगताः प्राह षष्टिः कट्यांतावन्त्य एव पार्श्वयोः। अशीतिः षट्त्रिंशदुरसि। अथ ग्रीवोर्द्धगताः प्राह षट् त्रिंशद् ग्रीवायाम्। चतु-स्त्रिशन् मूर्घ्नि एवं स्नायूनां नवशतानि भवन्ति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नायु¦ f. (-युः)
1. A tendon, a muscle, described as a tubular vessel attached to the bones at either end, and carrying vital air.
2. The string of a bow. E. ष्णा to bathe, उण् Una4di aff., and युक् augment; also with कन् added, स्नायुक; or स्नाति-शुध्यति दोषोऽनया |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नायुः [snāyuḥ], [स्नाति शुध्यति दोषो$नया स्ना-उण् Tv.]

A tendon, muscle, sinew; स्वल्पं स्नायुवसावशेषमलिनं निर्मांसमप्यस्थि गोः Bh.2.3.

The string of a bow.

An eruption on the skin of the extremities; also; स्नायुक. -Comp. -अर्मन् n. a kind of disease of the eyes. -बन्धः a bowstring. -मर्मन् the joint of a sinew. -स्पन्दः pulse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नायु fn. ( accord. to some fr. a स्नाcontracted from सिनाpres. base of सि, " to bind " ; See. also स्नै)any sinew or ligament in the human and animal body , tendon , muscle , nerve , vein TBr. Sus3r. Mn. MBh. etc.

स्नायु fn. the string of a bow Pan5cat.

स्नायु m. an eruption on the skin of she extremities Bhpr. [? cf. Germ. se0nawa , Sehne ; Eng. sinew.]

"https://sa.wiktionary.org/w/index.php?title=स्नायु&oldid=505871" इत्यस्माद् प्रतिप्राप्तम्