स्नेहन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहनम्, क्ली, (स्निह्यत्यनेनेति । स्निह + ल्युट् ।) तैलमर्द्दनम् । तत्पर्य्यायः । स्नेहः २ स्निग्धता ३ म्रक्षणम् ४ म्रक्षः ५ अभ्यङ्गः ६ अभ्यञ्जनम् ७ । इति राजनिर्घण्टः ॥ (स्नेहयतीति । स्निह + णिच् + ल्युः । स्निग्धकारिणि, त्रि । यथा, सुश्रुते । १ । ४५ । “घृतं सौम्यं शीतवीर्य्यं मृदुमधुरमल्पाभिष्यन्दि स्नेहनमिति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहन¦ न॰ स्निह--णिच्--ल्युट्।

१ तैलादिमदेने अभ्यङ्गे राजनि॰

२ स्नाधासाधने क्रियाभेदे भा॰ प्र॰ तत्प्रकार उक्तो यथा
“स्नेहनविधिः
“स्नेहश्चतुर्विधः प्रोक्तो घृतं तेलं वसातथा मज्जा च तं प्रिवेन्मर्व्यः किञ्चिदभ्युदिते रवौ। [Page5365-b+ 38] स्थावरो जङ्गनश्चैव द्वियोनिः स्नेह उव्यते। तिलतैलस्थावरेषु जङ्गमेषु घृतं वरम्। द्वाभ्या त्रिभिश्चतुर्भिर्वायमकस्त्रिवृतो महान्”। अस्यायमर्थः द्वाभ्यां स्ने हाभ्यांघृततैलाभ्यां यमक ख्यः स्नेहः स्यात्। त्रिभिः स्नेहैःघृततैलवसारूपै स्त्रिवृताख्यः स्यात्। चतुर्भिर्घृततैलव-सामज्जामिर्महान्महास्नेहः स्यादित्यर्थः।
“पिबेत्त्र्यहं चतुरहं पञ्चाहं षडहानि वा”। मृदुमव्य-क्रूरकोष्ठापेक्षया त्र्यहं चतुरहं पञ्चाहं षडहानिचेति। यदुक्तम्
“मृदुकोष्ठस्त्रिरात्रेण स्निग्धस्नेहोपसेवया। मध्यकोष्ठश्चतुर्भिश्च दिवसैः स्निह्यति ध्रुवम्। पञ्चभिर्वाथ षड्भिर्वा दिनैः क्रूरो विशुद्ध्यति। सप्त-रात्रात्परं स्नेहः सात्मोभवति सेवितः”। मृदुमध्यक्रूर-कोष्ठानां सर्वेषां सप्तरात्राप्तरं सात्मीभवति वाता-नुलोम्याह्निदीप्तिकोष्ठशुद्धिमृदुस्निग्धाङ्गातास्वरवचनाङ्गला-घवधातुपुष्टिद्विजदार्ट्यनिर्जरताबलवर्णकारी भवति। न तु मक्तद्वये वातानुलोम्यादीन् करोति।
“दोष-कालवयोवह्निवलान्यालोक्य याजयेत्। हीनाञ्च म-ध्यमां ज्येष्ठां भात्रां स्नेहस्य बुद्धिमान्। अमात्रयातथाऽकाले मिथ्याहारविहारतः। स्नेहः करोति शो-थार्शस्तन्द्रानिद्राविसंज्ञिताः। देया दीप्ताग्नये मात्राम्नेहर्यैकपलोन्मिता। मध्यमाय त्रिकार्षा स्याज्जवन्यायद्विकार्षिकी”। मव्यमाय मध्यमाग्नये जघ त्याय हीना-ग्नये
“अय वा स्नेहमत्राः स्युस्तिस्रोऽन्याः सर्वसम्मताः। अहोरात्रेण महती जीर्यत्यह्नि तु मध्यमा। जीर्य्य-त्यल्पा दिनार्द्धेन सा विज्ञेया सुखावहा”। अयमर्थःयाहोरात्रेण जीर्य्यति सा मात्रा महती। एवं मध्यमाकनिष्ठा च ज्ञेया
“अल्पा स्याद् दीपनी वृव्यां स्वल्पदोषेप्रपूजिता। मध्यमा स्नेहनी ज्ञेया वृंहणी भ्रम-हारिणी। ज्येष्ठा कुष्ठविषोन्मादग्रहापस्मारना-शिनी”। सुश्रुतः पुनरेवमाह
“या मात्रा प्रथमे यामेगते जीर्य्यति वासरे। सा मात्रा दीपयत्यग्निमल्पदोषेच पूजिता। या सत्रा वासरस्यार्द्धे व्यतीते परि-जीर्य्यति। सा वृष्या वृंहणी च स्यान्मव्यदोषे प्रपू-जिता। या मात्रा चरमे यामे स्थितेऽह्नः परिलीर्य्यति। सा मात्रा स्नेहनी ज्ञेया बहुदोषेषु पूजिता। केवलंपैत्तिके सर्पिर्वा{??}के लवणान्वितम्। देयं वहुकफे वह्नि-व्योषक्षारसमन्वितम्। रूक्षक्षतविषार्त्तानां वातपित्तविकारिणाम्। हीनमेध स्मृतीनाञ्च सपिःपानं प्रश-[Page5366-a+ 38] स्यते। कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः। पिबेयुस्तैलसात्म्यामे तैलं दार्ढ्यार्थिनस्तु ये। व्यायामाक-र्षिताः शुष्करेतोरक्तामहारुजाः”। क्रूराशयाः क्रूर-कोष्ठाः सर्वतः सर्वस्मात् मेहात्।
“शीतकाले दिवा मेहमुष्णकाले पिवेन्निशि। वातपित्ताधिके रात्रौ वातश्लेष्मा-धिके दिवा। नस्याभ्यञ्जनगण्डूषमूर्द्धकर्णाक्षितर्पणे। तैलं घृतं वा युञ्जीत दृष्ट्वा दोषवलाबलम्। घृते कोष्णजलं पेयं तैले यूषः प्रशस्यते। वसामज्जे पिबेन्मण्डमनुपानं सुखावहम्। स्नेहद्विषः शिशून् वृद्धान् सुकुमारान् कृशानपि। तृष्णालुकानुष्णकाले सह भक्तेनपाययेत्। सर्पिष्मती बहुतिला यवागूः स्वल्पतण्डुला। सुखोष्णा सेव्यमाना तु सद्यः स्नेहनकारिणी। शर्करा-चूर्णसंयुक्ते दोहनस्थे घृते तु गाम्। दुग्ध्वा क्षीरंपिबेद्रूक्षः सद्यः स्नेहनमुत्तमम्। मिथ्याचाराद् बहु-त्वाच्च यस्य स्नेहो न जीर्य्यति। विष्टम्भो वापि जीर्य्येतवारिणोष्णेन वामयेत्। स्नेहस्याजीर्णशङ्कायां पिवे-दुष्णोदकं नरः। तष्टोद्गारो भवेच्छुद्धो भक्तं प्रति रुचि-स्तथा। स्नेहेन पैत्तिकस्याग्निर्यदा तीक्ष्णतरीकृतः। तदास्योदीर्य्यते तृष्णा विषमा तस्य पाययेत्। शीतलंपायसं, तन तृष्णा तस्य प्रशाम्यति। दुर्बलोऽरोचकीस्थूलो मूर्च्छालुर्मेहपीडितः। दत्तवस्तिर्विरिक्तश्च वान्त-स्तृष्णाश्रमान्वितः। अकालप्रसवा नारी दुर्दिने चविवर्जयेत्। स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचित्तकाः। वृद्धवालकृशा रूक्षाः क्षीणास्राः क्षीणरेतसः। वाता-र्त्तास्तिमिरार्त्ता ये तेषां स्नेहनसुत्तमम्। वातानुलोम्यदीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्। मृदुस्निग्धाङ्गता म्लानिःस्नेहद्वेषोऽथ लाथवम्। विमलेन्द्रियता सम्यक् स्निग्धेरूक्षे विपर्य्ययः। भक्तद्वेषो मुखस्रावो गुदे दाहः प्रवा-हिका। तन्द्रातीसारखण्डत्वं भृशं स्निग्धस्य लक्ष-णम्। रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्। श्यामाकचणकाद्यैश्च तिलपिण्याकसक्तुभिः। दीप्ताग्निःशुद्धकोष्ठश्च पुष्टधातुर्दृढेन्द्रियः। निर्जरो बलवर्णाद्यःस्नेहसेवी भवेन्नरः। स्नेहे व्यायामसंशीतवेगाघातप्रजागरान्। दिवास्वप्नमभिष्यन्दि रूक्षान्नञ्च विषर्जयेत्”। करणे--ल्युट्। स्नेहसाधने त्रि॰। स्त्रियां ङीप्। उदा॰अत्रैव दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहन¦ n. (-नं)
1. Unctuousness, being or becoming oily, &c.
2. Anoint- ing, unction, rubbing with unguents, oil, &c.
3. An emollient, an unguent or liniment. f. (-ना) Adj.
1. Anointing, lubricating.
2. Destroying. m. (-नः) S4IVA. E. ष्णिह् to be unctuous, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहन [snēhana], a. [स्निह्-णिच् ल्यु ल्युट् वा]

Anointing, lubricating.

Destroying.

नम् Anointing, unction, rubbing or smearing with oil or unguents.

Unctuousness.

An unguent, emollient.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्नेहन mf( ई)n. anointing , lubricating Sus3r. Bhpr.

स्नेहन m. " feeling affection " , N. of शिव(See. अ-स्न्) MBh.

स्नेहन n. unction , lubrication , rubbing or smearing with oil or unguents Car.

स्नेहन n. unctuousness , being or becoming oily Dha1tup.

स्नेहन n. feeling affection Sa1y.

"https://sa.wiktionary.org/w/index.php?title=स्नेहन&oldid=255899" इत्यस्माद् प्रतिप्राप्तम्