स्रष्टा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्रष्टा, [ऋ] पुं, (सृजतीति । सृज + तृच् ।) ब्रह्मा । इत्यमरः । १ । १ । १७ ॥ (यथा, महानिर्व्वाणतन्त्रे । ३ । ४० । “कारणं सर्व्वभूतानां स एकः परमेश्वरः । लोकेषु सृष्टिकरणात् स्रष्टा ब्रह्मेति गीयते ॥”) शिवः । इति हलायुधः ॥ (विष्णुः । इति महाभारतम् । १३ । १४९ । ११९ ॥) सृष्टि- कर्त्तरि, त्रि । इति सृजधात्वर्थदर्शनात् ॥ (यथा, महाभारते । ७ । ७८ । ४५ । “स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् । देवदानवयक्षाणां मानवानाञ्च साधनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्रष्टा&oldid=179985" इत्यस्माद् प्रतिप्राप्तम्