स्वतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वतः [स्] व्य, (स्व + तसिल् ।) आत्मनः । आपन हैते इति भाषा । यथा । स्रोतोऽम्बुसरणं स्वतः । इत्यमरः । १ । १० । ११ ॥ (यथा, रघुः । ३ । ५८ । “अतिप्रबन्धप्रहितास्त्रवृष्टिभि- स्तमाश्रयं दुष्प्रसहस्य तेजसः । शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः ॥” धनात् । यथा, मनुः । ८ । १६६ । “ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतोऽव्ययः । दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वतः ॥”) अस्य अव्ययत्वप्रमाणं यथा । तद्धितश्चासर्व्व- विभक्तिः । यस्मात् सर्व्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्त्तव्यम् । तसिलादयः प्राक् पाशपः । इति सिद्धान्त- कौमुदी ।

"https://sa.wiktionary.org/w/index.php?title=स्वतः&oldid=180077" इत्यस्माद् प्रतिप्राप्तम्