स्वधा

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधा, व्य, (स्वद्यतेऽनेनेति । स्वद आस्वादने + आ । “स्वदेर्धश्च ।” इति दस्य धः । इत्युणादि- वृत्तौ उज्ज्वलदत्तः ।) देवहविर्दानमन्त्रः । यथा, “स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा ॥” इत्यमरः । ३ । ४ । ८ ॥ “स्वाहा श्रीषट् वौषट् वषट् स्वधा एते पञ्च- शब्दा देवहविर्दाने वह्निमुखहुतौ वर्त्तन्ते देवाय हविषो दानं देवहविर्दानं तत्र देवा इन्द्रादयः । अत्र पितरो देवताः इति स्मृतेस्ते- ऽपि देवाः । हविर्दान इत्यनेन एते मन्त्रा इति सूचितम् । ‘अमन्त्रत्वे स्वाहयेव हविर्भुजम् ।’ इति रघुः । स्वाहाव्ययं मन्त्रभेदे स्त्रियां स्वाहाग्नियोषि- तीति कोषान्तरम् । स्वाहा दन्त्यादिः । श्रौषट् तालव्यादिमूर्द्धन्यमध्यम् । वौषट् वषट्द्वयं मूर्द्धन्यमध्यम् । स्वधा दन्त्यादि । इन्द्राय स्वाहा इत्यादिप्रयोगः ।” इति भरतः ॥ * ॥ पितृसम्प्रदानमन्त्रः । यथा, -- “दैत्येभ्योऽलं हरिः पूष्णे वषट् सद्भ्यो हितं सुखम् । स्वाहाग्नये स्वधा पित्रे स्वस्ति धात्रे नमः सते ॥” इति मुग्धबोधव्याकरणम् ॥ हरिर्दैत्येभ्योऽलं समर्थः पूष्णे वषट् सद्भ्यो हितं सद्भ्यः सुखं अग्नये स्वाहा पित्रे स्वधा धात्रे स्वस्ति एतानि स्पष्टानि । नमः सते इति सते नित्याय विष्णवे नमः इत्यर्थः । सर्व्वत्र भवते- र्गम्यमानत्वादकर्म्मकाद्वाक्यसमाप्तिः । वषट्- स्वाहास्वधानमसां त्यागार्थतया सम्प्रदानत्वैनैवेष्ट सिद्धौ पृथग्ग्रहणं मन्त्रान्तर्गतानामपि प्राप्त्यर्थं तेन शिखायै वषट् शिरसे स्वाहा पितॄभ्यः स्वधोच्यताम् । हृदयाय नमः । इत्यादि सिद्धम् इति तट्टीकायां दुर्गादासः ॥ पितॄणामन्नम् । यथा, -- “भुङ्क्ते त्वं यथा वै स्वधाख्या तद्वत् स्वाहा हव्यभोक्ता स्वयं देवि ।” इति ऋग्वेदे देवीसूक्तम् ॥ स्वधा वै पितॄणामन्नम् । इति स्मृतिश्च ॥

स्वधा, स्त्री, (स्वान् दधातीति । धा + क्विप् ।) दक्षकन्या । सा तु पितॄणां पत्नी । तस्या द्वे कन्ये । यमुना धारिणी च । एतयोस्तपस्विन्योः सन्ततिर्नास्ति । इति श्रीभागवतमतम् ॥ सा च ब्रह्मणो मानसी कन्या । यथा, -- श्रीनारायण उवाच । “शृणु नारद वक्ष्यामि स्वधोपाख्यानमुत्तमम् । पितॄणाञ्च तृप्तिकरं श्राद्धानां फलवर्द्धनम् ॥ सृष्टेरादौ पितृगणान् ससर्ज्ज जगतां विधिः । चतुरश्चतुर्म्मूर्त्तिमतस्त्रींश्च तेजःस्वरूपिणः ॥ दृष्ट्वा सप्त पितृगणान् सिद्धरूपान्मनोहरान् । आहारं संसृजे तेषां श्राद्धं तर्पणपूर्ब्बकम् ॥ स्नानं तर्पणपर्य्यन्तं श्राद्धान्तं देवपूजनम् । आह्निकञ्च त्रिसन्ध्यान्तं विप्राणाञ्च श्रुतौ श्रुतम् ॥ नित्यं न कुर्य्याद्यो विप्रस्त्रिसन्ध्यं श्राद्धतर्पणम् । बलिं वेदध्वनिं सोऽपि विषहीनो यथोरगः ॥ हरिसेवाविहीनश्च श्रीहरेरनैवेद्यभुक् । भस्मान्तं सूतकं तस्य न कर्म्मार्हः स नारद ॥ ब्रह्मा श्राद्धादिकं सृष्ट्वा जगाम पितृहेतवे । न प्राप्नुवन्ति पितरो ददति ब्राह्मणादयः ॥ सर्व्वे प्रजग्मुः क्षुभिता विषण्णा ब्रह्मणः सभाम् । सर्व्वं निवेदनं चक्रुस्तमेव जगतां विधिम् ॥ ब्रह्मा च मानसीं कन्यां ससृजे तां मनोहराम् । रूपयौवनसम्पन्नां शतचन्द्रसमप्रभाम् ॥ विद्यावतीं गुणवतीमतिरूपवतीं सतीम् । श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ॥ विशुद्धां प्रकृतेरंशां सम्मितां वरदां शुभाम् । स्वधाभिधानां सुदतीं लक्ष्मीलक्षणसंयुताम् ॥ शतपद्मदलन्यस्तपादपद्मञ्च बिभ्रतीम् । पत्नीं पितॄणां पद्मास्यां पद्मजां पद्मलोचनाम् ॥ पितृभ्यस्तां ददौ ब्रह्मा तुष्टेभ्यस्तुष्टिरूपिणीम् । ब्राह्मणांश्चोपदेशञ्च चकार गोपनीयकम् ॥ स्वधान्तं मन्त्रमुच्चार्य्य पितृभ्यो देहि चेति च । क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा ॥ स्वाहा शस्ता देवदाने पितृदाने स्वधा परा । सर्व्वत्र दक्षिणा शस्ता हतयज्ञमदक्षिणम् ॥ पितरो देवता विप्रा मुनयो मनवस्तथा । पूजां चक्रुः स्वधां शान्तां तुष्टाव परमादरम् ॥ देवादयश्च सन्तुष्टाः परिपूर्णमनोरथाः । विप्रादयश्च पितरः स्वधादेवीवरेण च ॥ इत्येवं कथितं सर्व्वं स्वधोपाख्यानमुत्तमम् । सर्व्वेषाञ्च तुष्टिकरं किं भूयः श्रोतुमिच्छसि ॥ * ॥ सा सुशीलाभिधागोपी पुरासोद्राधिकासखी । उवास दक्षिणे क्रोडे कृष्णस्य राधिकाग्रतः ॥ प्रध्बस्ता सा च तत्शापात् गोलोकाद्विश्वमा- गता । कृष्णालिङ्गनपुण्येन सा बभूव च दक्षिणा ॥ प्रेयसी सुरतौ दक्षा प्रशस्ता सव्वकर्म्मसु । उवास दक्षिणे भर्त्तुर्द्दक्षिणा तेन कीर्त्तिता ॥ बभूवुस्तिस्रो गोप्यश्च स्वधा च दक्षिणा तथा । कर्म्मिणां कर्म्मपूर्णार्थं पुरा चैवेश्वरेच्छया ॥ इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि । तस्थौ च सहसामात्यः स्वधा साविर्ब्बभूव ह ॥ तदा पितृभ्यः प्रददौ तामेव कमलालयाम् । तां संप्राप्य यतस्ते च पितरश्च सहर्षिताः ॥ स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः । स स्नातः सर्व्वतोर्थेषु वेदपाठफलं लभेत् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४१ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधा अव्य।

देवहविर्दानम्

समानार्थक:स्वाहा,श्रौषट्,वौषट्,वषट्,स्वधा

3।4।8।1।5

स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा। किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधा¦ अव्य॰ स्वद--आ पुषो॰ दस्य धः।

१ पितृदेवोद्देशेप्रहविस्त्यागे अमरः। स्वेन धयति धै--क आप्।

२ मातृ-काभेदे स्त्रा
“नमःस्वधायै स्वाहायै” इति पितृगाथा।
“निपातस्वधायोगे त्यागोद्देश्यपदात् चतुर्थी पितृभ्यः स्वधे-त्यादौ पित्र्यद्देश्यकस्त्याग इति बोधः। तदर्थश्च विषयतयाअन्न दावन्वयी तस्य निपातत्वेन तदर्थस्य भेदान्वयस्य व्युत्-पत्तिसिद्धत्वात्। इदमन्नं पित्रे स्वधेत्यादौ पित्र्युद्देशक-त्यागविषय इदमन्नमित्यादि वोधः। मातृभेदस्व्धा च दक्ष-कन्या ब्रह्मणो मानसी कन्था च पितृपत्नी। तन्नामोच्चारणेपित्रादिश्राद्धकरणरूपोऽस्यावरो ब्रह्मणा दत्तः।
“ब्रह्मा चमानसीं कन्यां ससृजे तां मनोहराम्”
“स्वधामिधानांसुदतीं लक्ष्मीलक्षणसंयुताम्”
“पितृभ्यस्तां ददौ ब्रह्मातुष्टेभ्यस्तुष्टिरूपिणीम्। ब्राह्मणानामुपदेशं चकार लोम-नायकः। स्वधान्तं मन्त्रमुव्वाय्य पितृभ्योदेहि चेति च। क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा” ब्रह्मयै॰ प्र॰[Page5378-a+ 38] स्वधानामकस्वधाशब्दस्यापि पितृदाने विनियोग इतिबोध्यम्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधा [svadhā], [स्वद्-आ-पृषो˚ दस्य धः]

One's own nature or determination, spontaneity.

One's own will or pleasure.

The oblation of food offered to the Pitṛis or Manes of deceased ancestors; स्वधासंग्रहतत्पराः R.1.66; Ms.9.142; Y.1.12.

The food offered to the Manes personified.

Food or oblation in general.

One's own portion or share.

A Śrāddha or funeral ceremony; Ms.2.142.

N. of Māyā or illusion.ind. An exclamation uttered on offering an oblation to the Manes (with dat.); पितृभ्यः स्वधा Sk. -Comp. -कर a. offering oblations to the Pitṛis; यदपत्यं भवेदस्यां तन्मम स्यात् स्वधाकरम् Ms.9.127. -कारः the exclamation Svadhā; पूतं हि तद्गृहं यत्र स्वधाकारः प्रवर्तते. -निनयनम् a formula or sacred text used in making the oblations to the Pitṛis; नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते Ms.2.172.

प्रियः Agni or fire;

black sesamum. -भुज् m.

a deceased or defied ancestor.

a god, deity.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधा/ स्व--धा See. p. 1278 , col. 1 , and s.v.

स्वधा/ स्व-धा f. (for स्वधाSee. p.1280) self-position , self-power , inherent power( accord. to some , N. of Nature or the material Universe ; स्व-धया" by self-power ") RV.

स्वधा/ स्व-धा f. own state or condition or nature , habitual state , custom , rule , law RV.

स्वधा/ स्व-धा f. ease , comfort , pleasure( अनु स्वधाम्, स्वधाम् अनुor स्वधा अनु, स्वधया, or स्वधाभिः, " according to one's habit or pleasure , spontaneously , willingly , easily , freely , undisturbedly , wantonly , sportively ") RV. AV. VS. TBr.

स्वधा/ स्व-धा f. own place , home( स्वधेdu. " the two places or homes " , heaven and earth Naigh. iii , 30 ) ib.

स्वधा/ स्व-धा f. " own portion or share " , the sacrificial offering due to each god , ( esp. ) the food or libation , or refreshing drink(See. 2. सु-धा)offered to the पितृs or spirits of deceased ancestors (consisting of clarified butter etc. and often only a remainder of the हविस्; also applied to other oblations or libations , and personified as a daughter of दक्षand wife of the पितृs or of अङ्गिरस्or of a रुद्रor of अग्नि) RV. etc.

स्वधा f. (for स्व-धाSee. p. 1278 , col. 1) an axe , knife TS.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of दक्ष and consort of अग्नीस्: (पितृस्-वा। प्।, and वि। प्।) gave birth to two daughters [page३-725+ २५] वयुना (मेना-वा। प्।) and धारिणी, who were Brahma- वदीन्स्. भा. IV. 1. ६३-4; वा. 1. ७७; १०. २८; ५२. ४०; ५५. ४३; Br. II. 9. ५७; १३. २९. Vi. I. 7. २५, २७; १०. १९.
(II)--a wife of Angiras--mother of पितृस्. भा. VI. 6. १९.
(III)--married Kavi Agni: her sons were काव्यस्: her daughter the source of पितृस् with forms. ^1 Br. I. 1. ६२; III. १०. ८५; वा. ७३. ३५; ७४. 3; ७५. ५६, ७७.
(IV)--a god of one of the ten branches of the Harita गण. Br. IV. 1. ८५; वा. १००. ८९.
(VI)--the essence milked by Antaka for पितृस्; फलकम्:F1:  M. १०. १९.फलकम्:/F out of this came पितृस् फलकम्:F1:  M. १०. १९.फलकम्:/F (Somapas). फलकम्:F2:  Ib. १५. २७, ३१; १६. ४४; १७. ५२; २२. ८८.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=स्वधा&oldid=505913" इत्यस्माद् पुनः प्राप्तिः