स्वभाव

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभावः, पुं, (स्वस्य भावः ।) स्वकीयभावः । तत्पर्य्यायः । संसिद्धिः २ प्रकृतिः ३ स्वरूपम् ४ निसर्गः ५ । इत्यमरः । १ । ७ । ३८ ॥ भावः ६ । इति शब्दरत्नावली ॥ सर्गः ७ । इति जटा- धरः ॥ स्वत एव आविर्भावः । यथा, -- “बहिर्हेत्वनपेक्षी तु स्वभावोऽथ प्रकीर्त्तितः । निसर्गश्च स्वरूपञ्चेत्येषोऽपि भवति द्विधा ॥ निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते । अजन्यस्तु स्वतः सिद्धः स्वरूपं भाव इष्यते ॥” इत्युज्ज्वलनीलमणिः ॥ “वचनेषु च बुद्धौ च स्वभावे च चरित्रतः । आचारे व्यवहारे च ज्ञायते हृदयं नृणाम् ॥ * ॥ लोकाः कर्म्मवशीभूतास्तत् कर्म्म यत् कृतं पुरा । स्वकर्म्मणां फलं भुङ्क्ते जन्तुर्जन्मनि जन्मनि ॥ केचिद्वदन्तीति भवेत् स्वकृतेन च कर्म्मणा । केचिद्वदन्ति दैवेन स्वभावेनेति केचन ॥ त्रिविधाश्च मता वेदे वेदवेदाङ्गपारगाः ॥ स्वयञ्च कर्म्मजनकस्तत् कर्म्म दैवकारणम् । स्वभावो जायते नॄणामात्मनः पूर्ब्बकर्म्मणा ॥ * ॥ स एवात्मा संर्व्वसेव्यः सर्व्वेषाञ्च फलप्रदः । स च सृजति दैवञ्च स्वभावं कर्म्म एव च ॥ * ॥ अहो श्रीकृष्णदासानां कः स्वभावः सुनिर्म्मलः । हृतभार्य्यमुच्छितञ्च न शशाप रिपुं गुरुः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ५७ । २१ -- २८ । २१ । ४१ ॥ अपि च । “सुदिनं दुर्द्दिनञ्चैव सर्व्वं कर्म्मोद्भवे भव । तत् कर्म्म तपसां साध्यं कर्म्मणाञ्च शुभाशुभम् ॥ तपः स्वभावसाध्यञ्च स्वभावोऽभ्यासतो भवेत् । संसर्ग साध्योऽभ्यासश्च संसर्गः पुण्यतो भवेत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४३ । ५१ -- ५२ ॥ अन्यच्च । चाणक्यवाक्यम् । “स्वभावो यादृशो यस्य न यहाति कदाचन । अङ्गारः शतधौतेन मलिनत्वं न मुञ्चति ॥” “सर्व्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य हि गुणान् सर्व्वान् स्वभावो मूर्द्ध्नि वर्त्तते ॥” इति हितोपदेशे मित्रलाभनामप्रथमकथा- संग्रहः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभाव पुं।

स्वभावः

समानार्थक:संसिद्धि,प्रकृति,स्वरूप,स्वभाव,निसर्ग,अनूक,सर्ग,आत्मन्,धर्म,शील,भाव

1।7।38।1।2

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः। कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥

 : सुस्वभावः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभाव¦ पु॰ स्वस्य भावः।

१ निसर्गे अजन्ये स्वतःसिद्धे भावेच अमरः।
“वहिर्हेत्वनपेक्षी तु स्वभावोऽथ प्रकीर्त्तितः। निसर्गश्च स्वभावच इत्येष भवति द्विधा। निसर्गः सुदृढभ्यासजन्यः संस्कार उच्यते। अजनयस्तुस्वतः सिद्धः स्वरूपो भाव उच्यते” उज्ज्वलद॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभाव¦ m. (-वः)
1. Nature, natural state, property or disposition.
2. Purpose, intention. E. स्व own, and भाव property.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभाव/ स्व--भाव m. ( ifc. f( आ). )native place Vishn2.

स्वभाव/ स्व--भाव m. own condition or state of being , natural state or constitution , innate or inherent disposition , nature , impulse , spontaneity

स्वभाव/ स्व--भाव m. ( वात्or वेनor व-तस्or ibc. ) , (from natural disposition , by nature , naturally , by -oone's self , spontaneously) S3vetUp. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वभाव&oldid=505921" इत्यस्माद् पुनः प्राप्तिः