स्वयंभू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयंभूः, पुं, (स्वयम्भवतीति । भू + क्विप् ।) ब्रह्मा । इत्यमरः । १ । १ । १६ ॥ जिनचक्र- वर्त्तिविशेषः । तत्पर्य्यायः । रुद्रतनयः २ इति हेमचन्द्रः ॥ कालः । इति शब्दरत्ना- बली ॥ कामदेवः । विष्णुः । शिवः । इति केचित् ॥ माषपर्णी । लिङ्गिनी । इति राजनिर्घण्टः ॥ (स्वयमुत्पन्ने, अपौरषेये च त्रि ॥ यथा मनुः । १ । ३ । “त्वमेकोऽह्यस्य सर्व्वस्य विधानस्य स्वयंभुवः । अचिन्तस्याप्रमेयस्य कार्य्यतत्त्वार्थवित् प्रभो ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्वयंभू&oldid=180155" इत्यस्माद् प्रतिप्राप्तम्