स्वर्णकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्णकारः, पुं, (स्वर्णं स्वर्णालङ्कारं करोतीति । कृ + अण् ।) जातिविशेषः । सेकरा इति भाषा । तत्पर्य्यायः । नाडीन्धमः २ कलादः ३ रुक्मकारः ४ । इत्यमरः । २ । १० । ८ ॥ कणादः ५ । इति तट्टीकासारसुन्दरी ॥ हेमलः ६ । इति जटाधरः ॥ तस्योत्पत्तिर्यथा, -- “विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः । ततो बभूवुः पुत्त्राश्च नवैते शिल्पकारिणः ॥ मालाकारः कर्म्मकारः शङ्खकारः कुबिन्दकः । कुम्भकारः कंसकारः षडेते शिल्पिनां वराः ॥ सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च । पतितास्ते ब्रह्मशापादयाज्या वर्णसङ्कराः ॥ स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्मणानां द्विजोत्तम । बभूव सद्यः पतितो ब्रह्मशापेन कर्म्मणा ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे । १० । १९ -- २२ ॥ * ॥ तस्य कर्म्मविपाको यथा, -- “तैलचौरस्तैलकीटो मूर्द्ध्नि कीटस्त्रिजन्मकम् । ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ८५ । १२८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्णकार पुं।

स्वर्णकारः

समानार्थक:नाडिन्धम,स्वर्णकार,कलाद,रुक्मकारक

2।10।8।1।2

नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः। स्याच्छाङ्खिकः काम्बविकः शौल्बिकस्ताम्रकुट्टकः॥

वृत्ति : सुवर्णम्

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्णकार¦ पु॰ स्वर्ण्ण स्वर्णमयमलूङ्कारादि करोति कृ॰ अण्। (मेकरा) जातिभेदे।
“विश्वकर्मा तु शूद्रायां वीर्य्याधानंचकार सः। ततो बभूवुः पुत्राश्च नवैते शिल्पकारिणः। मालाकारः कर्मकारः शङ्खकारः कुविन्दकः। कुम्भ-कारः कंसकारः षडेते शिल्पिनां वराः। सूत्रधार-श्चित्रकरः स्वर्णकारस्तथैव च। पतितास्ते ब्रह्मशापा-दयाज्या वर्णसङ्कराः। स्वर्णकारः स्वर्णचौर्य्यात्ब्रह्मणानां द्विजोत्तम! बभूव सद्यः पतितो ब्रह्मशापेनकर्मणा” ब्रह्मवै॰ व्र॰ ख॰

१० अ॰।
“तैलचौरस्तैलकीटोमूर्ध्निकीटस्त्रिजन्मकम्। ततो भवेत् स्वर्णकारो जन्मैकंदुष्टमानसः” ब्रह्मवै॰ जन्मख॰

८५ अ॰। तज्जातिलाभकर्म।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्णकार¦ m. (-रः) A goldsmith. E. स्वर्ण gold, and कार maker, worker.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्णकार/ स्वर्ण--कार m. a -ggold-worker , -ggold smith (forming a partic. caste ; 759290 -ताf. ) Ya1jn5. R. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=स्वर्णकार&oldid=505936" इत्यस्माद् प्रतिप्राप्तम्