स्वेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेदः, पुं, (स्विद् + घज् ।) घर्म्मः इत्यमरः ॥ १ । ७ । ३३ ॥ स्वेदनम् । इति मेदिनी ॥ भावरा इति भाषा ॥ * ॥ उष्मा । तापः । अथातः स्वेदाव्यायं व्याख्यास्यामः । इति ह स्माह भगवानात्रेयः । “अथ स्वेदान् प्रवक्ष्यामि यैर्यथावत् प्रयोजितैः स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः ॥ स्नेहपूर्ब्बप्रयुक्तेन स्वेदेनावजितेऽनिले । पुरीषमूत्ररेतांसि न सज्जन्ति कदाचन ॥ शुष्काण्यपि च काष्ठानि स्नेहस्वेदोपपादनैः । नमयन्ति यथान्यायं किं पुनर्ज्जीवतो नरान् ॥ योगर्त्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च । द्रव्यवान् कल्पितो देशे स्वेदः कार्य्यकरो मतः ॥ व्याधौ शीते शरीरे च महान् स्वेदो महाबले ॥ दुर्व्वले दुर्ब्बलः स्वेदो मध्यमे मध्यमो हितः ॥ * ॥ वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते । स्निग्धरूक्षस्तथास्निग्धोऽरूक्षश्चाप्युपकल्पितः ॥ आमाशयपते वाते कफे पक्काशयाश्रिते । रूक्षपूर्ब्बो हितः स्वेदः स्नेहपूर्ब्बस्तथैव च ॥ वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु वा न वा । मध्यमं वंक्षणौ शेषमङ्गावयवमिष्टतः ॥ सुशुद्धैलक्तकैः पिण्ड्या गोधूमानामथापि वा । पद्मोत्पलपलाशैर्व्वा स्वेदः सम्बृत्य चक्षुषी ॥ मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि । जलार्द्रैर्जलजैर्हस्तैः खिद्यतो हृदयं स्पृशेत् ॥ शीतशूलव्युपरमे स्तम्भगौरषनिग्रहे । संजाते मार्द्दवे स्वेदे स्वेदनाद्विरतिर्म्मता ॥ पिपासा गात्रसदनं मूर्च्छापित्तप्रकोपणम् । दाहः स्वेदोऽङ्गदौर्ब्बल्यमतिस्विन्नस्य लक्षणम् ॥ कोष्णैः सूक्ष्मपटस्थितैः । भेषजैः स्वेदयेत् । किंवा स्विन्नैः कोष्णैः पटस्थितैः ॥ * ॥ द्रवस्वेद- माह । “द्रवस्वेदस्तु वातघ्नद्रव्यक्वाथेन पूरिते । कटाहे कोष्ठके वापि सूपविष्टोऽवगाहयेत् ॥ सौवर्णं राजतं वापि ताम्रं लौहञ्च दारुजम् । कोष्ठकं तत्र कुर्व्वीतोच्छ्राये षड्विंशदङ्गुलम् । आयामे तावदेव स्याच्चतुष्कोणस्तु चिक्वणम् ॥” पक्षान्तरमाह । “नाभेः षडङ्गुलं यावन्मग्नः क्वाथस्य धारया । कोष्णया स्कन्धयोः सिक्तस्तिष्ठेत् स्निग्धतनु- र्नरः ॥” अयमर्थः । प्रथमतो वातघ्नद्रव्यक्वाथेन कटाहं पूरिते कोष्ठके कटाहे वा सूपविष्टस्तिष्ठेत् अथवा नाभेः षडङ्गुलमूर्द्ध्वं यावत् क्वाथे मग्न उपविष्टः । पश्चात् क्वाथस्य धारया स्कन्धयोः सिच्यभानस्तिष्ठेत् । तथा च कोष्ठकं परिपूर्णं भवतीत्यर्थः । क्वाथपक्षे प्रथमतः स्नेहाभ्यक्त- तनुरुपविशेत् । “मुहूर्त्तैकं समारभ्य यावत् स्यात्तच्चतुष्टयम् । तावत्तदवगाहेत यावदारोग्यनिश्चयम् ॥ एवं तलेन दुग्धेन सर्पिषा स्वेदयेन्नरम् । एकान्तरो द्व्यन्तरो वा युक्तः स्नेहोऽवगाहने ॥ एतावता क्वाथो दुग्धञ्च नित्यमेव युज्यते ॥” स्नेहस्तु दिनमेकं द्वे वा दिने गमयित्वा युक्तः । अग्निमान्द्यशङ्कयेति भावः । “सिरामुखैर्लोमकूपैर्धमनीभिश्च तर्पयन् । शरीरे बलमाधत्ते युक्तः स्नेहोऽवगाहने ॥ जलसिक्तस्य वर्द्धन्ते यथा मूलेऽङ्कुरादयः । तथव धातुवृद्धिर्हि स्नेहसिक्तस्य जायते ॥ नातः परतरः कश्चिदुपायो वातनाशनः । शीतशूलव्युपरमे स्त्रम्भगौरवनिग्रहे । दीप्तेऽग्नी मार्द्दवे जाते स्नेदनाद्विरतिर्मता ॥” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेद पुं।

प्रस्वेदहेतोस्तापः

समानार्थक:घर्म,निदाघ,स्वेद

1।7।33।2।3

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्. घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥

पदार्थ-विभागः : , शरीरजम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेद¦ पु॰ स्विद--भावे घञ्।

१ पाकभेदे (सेका)

२ घर्मेगात्रादितो जलादेः निष्यन्दने। णिच् भावे अच्। [Page5392-a+ 38] वर्मनिस्रावणे तत्प्रकारादिकं चरकेणाभिहितं यथा
“अतः स्वेदाः प्र क्ष्यन्ते यैर्यथावत् प्रयोजिताः। स्वेद-साध्याः प्रशाम्यन्ति गदा वातकफात्मकाः। स्नेहपूर्वंप्रयुक्तेन स्वेदेनावर्जितेऽनिले। पुरीषमूत्ररेतांसि नसज्जन्ति कथञ्चन। शुष्काण्यपि हि काष्ठानि स्नेदंस्वेदापपादनैः। गमयन्ति यथान्यायं किं पुनर्जीवतोमरान्। रोगर्त्तुव्याधितापेक्षोनात्युष्णोऽतिमृदुर्न च। द्रव्यवान् कल्पितो देशे स्वेदः कार्य्यकरो मतः। व्याधौशीते शरीरे च महान् स्वेदो महाबले। दुर्बले दुर्बलःस्वेदो मध्यमे मध्यमो हितः। वातश्लेष्मणि वाते वाकफे वा स्वेष्ट इष्यते। स्निग्धरूक्षस्तथा स्निग्धोऽरूक्षश्चाप्यपकल्पितः। आमाशयगते वाते कफे पक्वाशयाश्रिते। रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च। वृषणौहृदयं दृष्टी स्वेदयेन् मृदुनैव वा। मध्यमं वङ्क्षणौशेषमङ्गावयवमिष्टतः। सुशुद्धैर्नक्तकैः पिण्ड्या गोधूमाना-मथापि वा। पद्मोत्पलपलाशैर्वा स्वेद्यः संवृत्य चक्षुषी। मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि। जलार्द्रै-र्जलजैर्हस्तैः स्विद्यतो हृदयं स्पृशेत्। शीतशूलव्युप-रमे स्तम्भगौरवनिग्रहे। सञ्जाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता। पित्तप्रकोपो मूर्च्छा च शरीरसदनं तृषा। दाहः स्वेदाङ्गदौर्बल्यमतिस्निग्धस्य लक्षणम्। उक्तस्तस्याश्रितीये यो ग्रैष्मिकः सर्वशो विधिः। सोऽति-सिन्नस्य कर्त्तव्यो मधुरः स्निग्धशीतलः। कषायमद्य-नित्यानां गर्भिण्या रक्तपित्तिमाम्। पित्तिनां साति-साराणां रूक्षाणां मधुमेहिनाम्। विदग्धभ्रष्टनाडीनांविषमद्यविकारिणाम्। श्रान्तानां नष्टसंज्ञानां स्थूलानांपित्तमेहिनाम्। तृष्यतां क्षिधितानाञ्च क्रुद्धानां शोच-तामपि। कःमल्युदरिणाञ्चैव क्षतानामाढ्यरोगिणाम्। दुबेलातिविशुष्काणामुपक्षीणौजसां तथा। मिषक् तै-मिरिकाणाञ्च न स्वेदमवतारयेत्। प्रतिश्याये च कासेच हिक्काश्वामेष्वलाघ{??}। कर्णमण्यां शिरःशूले स्वरभेदेगलग्रहे। अर्दितैकाङ्गनर्पाङ्गपक्षाघाते विनामके। को-ष्ठानाहविबन्धेषु शुक्राघाते विजम्भके। पार्श्वपृष्ठकटी-कुक्षिसंग्रहे गृध्रसीपु च। मत्रकृच्छ्रे महत्त्वे च मुष्क-यारङ्गमर्दके। पादोरुजानुजङ्घार्त्तिसग्रहे श्वयथावपि। स्वल्लीषामेषु शीते च वेपथौ वातकण्टके। सङ्कोदायामशूलेषु स्तम्भगौरवसुप्तिषु। मर्वाङ्गेषु विकारेषु स्वेदनंहितमुच्यते। तिलमाषकुलत्थाम्लवृततैलामिषौदनैः। [Page5392-b+ 38] पायसैः कृशरैर्मांसैः पिण्डस्वेदं प्रयोजयेत्। गोखरोष्ट्र-वराहाश्वशकृद्भिः सतुषैर्यवैः। सिकतापांशुपाषाणकरी-षायसपूटकैः। श्लैष्मिकान् स्वेदयेत् पूर्वैर्वातिकान् समु-पाचरेत्। द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेष्वपि। भूगृहेषु च जेन्ताकेषूष्णगर्भगृहेषु च। विधूमाङ्गारतप्ते-ष्वभ्यक्तः स्विद्यति ना सुखम्। ग्राम्यानूपोदकं मांसंपयोवस्तशिरस्तथा। वराहमध्यपित्तासृकस्नेहवत्तिल-तण्डुलान्। इत्येतानि समुत्क्वाथ्य नाडीस्वेदं प्रयो-जयेत्। देशकालबिभागज्ञो युक्त्यपेक्षा भिषक्तमः। वारणाघृतकैरण्डशिग्रुमूलकसर्षपैः। वासावंशकरञ्जाकं-पत्रैरश्मन्तकस्य च। शोभाञ्जनकशेरीयमालतीसुरसा-र्जकैः। पत्रैरुत्क्वाथ्य सलिलं नाडीस्वेदं प्रयोजयेत्। भूतीकपञ्चमूलाभ्यां सुरया दधिलस्तुना। पत्रैरम्लैश्चसस्नेहैर्नाडीस्वेदं प्रयोजयेत्। अतएव च निर्य्यूहाःप्रयोज्या जालकोष्टके। स्वेदनार्थं घृतक्षीरतैलकोष्टांश्चकारयेत्। गोचूमशकलैश्चूर्णैर्यवानामम्लसंयुतैः। सस्नेह-किण्वलवणैरुपनाहः प्रशस्यते। गन्धैः सुरायाः किट्टेनजीवन्त्या शतपुष्पवा। उमया कुष्ठतैलाम्यां युक्तयाचोपनाहयेत्। चर्मभिश्चोपनद्धव्यः सलोमभिरपुतिभिः। उष्णवीर्य्यैरलाभे तु कौशेयाविकशास्टकैः। रात्रौ बद्धंदिवा मुञ्चेत् मुञ्चेद्रात्रौ दिवाकृतम्। विदाहपरिहारार्थंस्यात् प्रकर्षस्तु शीतले। सङ्करः

१ प्रस्तरो

२ नाडी

३ परि-षेको

४ ऽवगाहनम्

५ । जेन्ताको

६ ऽश्यथघनः

७ कर्षूः

८ कु-टी

९ भूः

१० कुम्भिकैव

११ च। कूपो

२१ दालाक

१३ इत्येतेस्वेदयन्ति त्रयोदश। तान् यथावत् प्रवक्ष्यामि सर्वा-नेवानुपूर्वशः” इति। तत्र वस्त्रान्तरितैरवस्त्रान्त-रितैर्वा पिण्डैर्यथोक्तैरुपस्वेदनं सङ्करस्वेद

१ इति वि-द्यात्। शूकशमीधान्यपुलाकानां वेशवारायसकृशरोत्-कारिकादीनां वा प्रस्तरे कौशेयाविकोत्तरप्रच्छदे पञ्चा-ङ्गुलोरुवकार्कपत्रप्रच्छेदे वा स्वभ्यक्त्रसर्वगात्रस्य शया-नस्योपरि स्वेदनं प्रस्तरस्वेद

२ इति विद्यात्। स्वेद-नद्रव्याणां पुनर्मूलफलपत्रभङ्गादीनां मृगशकुनपि शित-शिरस्पदादीनामुष्णस्वभावानां वा यथार्हमम्ललवण-स्नेहोपसंहितानां मूत्रक्षीरादीनां वा कुम्भ्यां वाष्पम-नुद्वमन्त्यामुत्क्वथितानां नाड्या शरेषीकावंशदलकरञ्जार्क-पत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदोर्घयाव्यामार्द्धदीर्घया वा व्यामचतुर्भागाष्टभागमूलाग्रपरिणाह-स्रोतसा सर्वतो वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिर्या विना-[Page5393-a+ 38] मितया वातहरसिद्धस्नेहाभ्यक्तगात्रो वाष्पवपहरेत्। वाष्पो ह्यनूर्द्धगामी विहतचण्डवेगस्त्वचमविदहन् सुस्थंस्वेदयतीति नाडीस्वेदः

३ । वातिकोत्तरवातिकानां पुनर्मूषादीनामुत्क्वाथैः सुखोष्णैः कुम्भीर्वाधुलिकाः प्रनाडीर्वा-पूरयित्वा यथार्हसिद्धस्नेहाभ्यक्तगात्रं वस्त्रावच्छन्नं परि-षेचयेदिति परिषेकः

४ । वातहरोत्क्वाथक्षीरतेलघृतपिशि-तरसोष्णसलिलकोष्ठकावगाहस्तु यथोक्त एवावगाहः”

५ ।
“अथ जेन्ताकं चिकीर्षुर्भूमिं परोक्षत इत्यादि”। (जेन्ताकशब्दे

३१

४४ पृ॰ अस्य लक्षणाद्युक्तप्रायम्

६ । )
“शयानस्य प्रमाणेन घनामश्ममयीं शिलाम्। तापयित्वामारुतघ्नैर्दारुभि सम्प्रदीपितैः। व्यपोज्झ्य सर्वा-नङ्गारान् प्रोक्ष्य चैवोष्णवारिणा। तां शिलामथकुर्वीत कौषेयाविकसंस्तराम्। तस्यां स्वभ्यक्तसर्वाङ्गशयानः स्विद्यते सुखम्। रौरवाजिनकौषेयप्रावा-राद्यैः सुसंवृतः। इत्युक्तोऽश्मथनस्वेदः

७ । कर्षू-स्वेदः प्रबक्ष्यते। स्वानयेच्छयनस्याधः कर्षूं स्थान-विभागवित्। दीप्तैरधूमैरङ्गारैस्तां कर्षूं पूरयेत् ततः। तस्यामुपरि शय्यायां स्वप्रन् स्विद्यति ना सुखम्

८ । अन-त्युत्सेधविस्तारां वृत्ताकारामलोचनाम्। घनभित्तिंकुटीं कृत्वा कुष्ठाद्यैः सम्प्रप्रलेपयेत्। कुटीमध्ये भिषक्शय्यां स्वास्तीर्णाञ्चोपकल्पयेत्। प्रावाराजिनकौषेयकुत्थ-कम्बलगोलकैः। हसन्तिकाभिरङ्गारपूर्णाभिस्ताञ्च सर्वशः। परिवार्य्यान्तरारोहेदभ्यक्तः स्विद्यते सुखम्

९ । य एवा-श्मघ॰ स्वे दबिधिर्भूमौ स एव तु। प्रशस्तायां निवातायासमायामुपदिश्यते

१० । कुम्भीं वातहरक्वाथपूर्णां भूमौनिखातयेत्। अर्द्धभागं रिभा गं वा शयनं तत्र चोपरि। स्थापयेदासनं वापि नातिसान्द्रपरिच्छदम्। अथ कुम्भ्यसुसन्तप्तान् प्रक्षिपेदयसोगुडान्। पाषाणान् वोष्मणातेन तत्स्थः स्विद्यति ना सुखम्

११ । सुसंवृताङ्गः स्वभ्यङ्गःस्नेहैरनिलनाशनैः। कूपं शयनविस्तारं द्विगुणञ्चापिवेधतः। देशे निवाते शस्ते च कुर्य्यादन्तः सुमाजितम्। हस्त्यश्वगोखरोष्ट्राणां करोषैर्दग्धपूरिते। स्ववच्छन्नः सुसं-स्तीर्णेऽभ्यक्तः स्विद्यति ना सुखम्

१२ । वीथीकान्तु करो-षाणां यथोक्तानां प्रदीपयेत्। शयनान्तः प्रमाणेन शय्या-मुपरि तत्र च। सुदग्धायां विधूमायां यथीक्तामुपकल्प-येत्। स्ववच्छन्नः स्वपंस्तत्राभ्यक्तः स्विद्यति ना सुखम्। दोलाकस्वेद

१३ इत्येष सुखः प्रोक्तो सहर्षिणेति”। इतित्रयादशविधः स्वेदोऽग्निगुणसंश्रयः। व्यायाम उष्णसदनं[Page5393-b+ 38] गुरुपावरणं क्षुधा। बहुपानं भयक्रोधावुपनाहाहवा-तपाः। स्वेदयन्ति दशैतानि नरमग्निगुणादृते। इत्युक्तोद्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च। एकाङ्गसर्वाङ्गगतःस्निग्धो रूक्षस्तथैव च। इत्येतत् त्रिविधं द्वन्द्वं स्वेद-मुद्दिश्य कीर्त्तितम्। स्निग्धः स्वेदैरुपक्रम्यः स्विन्नःपथ्याशनो भनेत्। तदहः स्विन्नगात्रस्तु व्यायामं वर्ज-येन्नरः” इति। तत्र श्लोकाः
“स्वेदा यथा कार्य्यकरो-हितो येभ्यश्च यद्विधः। यत्र देशे यथायोग्या देशो रक्ष्यश्चयो यथा। स्विन्नातिस्विन्नरूपाणि तथातिस्विन्नभेषजम। अस्वेद्याः स्वेदयोग्याश्च स्वेदद्रव्याणि कल्पना। त्रयोदश-विधः स्वेदो विना दशविधोऽग्निना। सग्रहेण च षट्स्वेदाःस्वेदाध्याये निदर्शिताः। स्वेदाधिकारे यद्वाच्यमुक्तमेतन्म-हर्षिणा। शिष्यैस्तु प्रतिपत्तव्यसपदेष्टा पुनर्वसुरि त”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेद¦ mfn. (-दः-दा-दं) Warm, perspiring. m. (-दः)
1. Warmth, heat.
2. Perspiration, sweat.
3. Vapour, steam. E. ष्विद् to perspire, &c., aff. घञ्, or causal verb, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेदः [svēdḥ], [स्विद्-भावे घञ्]

Sweat, perspiration; अङ्गुलिस्वे- देन दूष्येरन्नक्षराणि V.2.

Heat, warmth.

Vapour.-Comp. -उदम्, -उदकम्, -जलम् perspiration. -चूषकः a cooling breeze (sucking up sweat). -च्छिद a. cooling. -ज a. generated by warm vapour or sweat (said of insects). -मातृ f. Chyle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेद m. ( ifc. f( आ). )sweating , perspiring , sweat , perspiration( pl. " drops of -pperspiration ") RV. etc.

स्वेद m. a sudorific Car. Sus3r.

स्वेद m. warmth , heat L.

स्वेद m. warm vapour , steam(See. comp. )

स्वेद mfn. sweating , perspiring , toiling W.

स्वेद etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=स्वेद&oldid=505977" इत्यस्माद् प्रतिप्राप्तम्