स्वेदः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेदः, पुं, (स्विद् + घज् ।) घर्म्मः इत्यमरः ॥ १ । ७ । ३३ ॥ स्वेदनम् । इति मेदिनी ॥ भावरा इति भाषा ॥ * ॥ उष्मा । तापः । अथातः स्वेदाव्यायं व्याख्यास्यामः । इति ह स्माह भगवानात्रेयः । “अथ स्वेदान् प्रवक्ष्यामि यैर्यथावत् प्रयोजितैः स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः ॥ स्नेहपूर्ब्बप्रयुक्तेन स्वेदेनावजितेऽनिले । पुरीषमूत्ररेतांसि न सज्जन्ति कदाचन ॥ शुष्काण्यपि च काष्ठानि स्नेहस्वेदोपपादनैः । नमयन्ति यथान्यायं किं पुनर्ज्जीवतो नरान् ॥ योगर्त्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च । द्रव्यवान् कल्पितो देशे स्वेदः कार्य्यकरो मतः ॥ व्याधौ शीते शरीरे च महान् स्वेदो महाबले ॥ दुर्व्वले दुर्ब्बलः स्वेदो मध्यमे मध्यमो हितः ॥ * ॥ वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते । स्निग्धरूक्षस्तथास्निग्धोऽरूक्षश्चाप्युपकल्पितः ॥ आमाशयपते वाते कफे पक्काशयाश्रिते । रूक्षपूर्ब्बो हितः स्वेदः स्नेहपूर्ब्बस्तथैव च ॥ वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु वा न वा । मध्यमं वंक्षणौ शेषमङ्गावयवमिष्टतः ॥ सुशुद्धैलक्तकैः पिण्ड्या गोधूमानामथापि वा । पद्मोत्पलपलाशैर्व्वा स्वेदः सम्बृत्य चक्षुषी ॥ मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि । जलार्द्रैर्जलजैर्हस्तैः खिद्यतो हृदयं स्पृशेत् ॥ शीतशूलव्युपरमे स्तम्भगौरषनिग्रहे । संजाते मार्द्दवे स्वेदे स्वेदनाद्विरतिर्म्मता ॥ पिपासा गात्रसदनं मूर्च्छापित्तप्रकोपणम् । दाहः स्वेदोऽङ्गदौर्ब्बल्यमतिस्विन्नस्य लक्षणम् ॥ कोष्णैः सूक्ष्मपटस्थितैः । भेषजैः स्वेदयेत् । किंवा स्विन्नैः कोष्णैः पटस्थितैः ॥ * ॥ द्रवस्वेद- माह । “द्रवस्वेदस्तु वातघ्नद्रव्यक्वाथेन पूरिते । कटाहे कोष्ठके वापि सूपविष्टोऽवगाहयेत् ॥ सौवर्णं राजतं वापि ताम्रं लौहञ्च दारुजम् । कोष्ठकं तत्र कुर्व्वीतोच्छ्राये षड्विंशदङ्गुलम् । आयामे तावदेव स्याच्चतुष्कोणस्तु चिक्वणम् ॥” पक्षान्तरमाह । “नाभेः षडङ्गुलं यावन्मग्नः क्वाथस्य धारया । कोष्णया स्कन्धयोः सिक्तस्तिष्ठेत् स्निग्धतनु- र्नरः ॥” अयमर्थः । प्रथमतो वातघ्नद्रव्यक्वाथेन कटाहं पूरिते कोष्ठके कटाहे वा सूपविष्टस्तिष्ठेत् अथवा नाभेः षडङ्गुलमूर्द्ध्वं यावत् क्वाथे मग्न उपविष्टः । पश्चात् क्वाथस्य धारया स्कन्धयोः सिच्यभानस्तिष्ठेत् । तथा च कोष्ठकं परिपूर्णं भवतीत्यर्थः । क्वाथपक्षे प्रथमतः स्नेहाभ्यक्त- तनुरुपविशेत् । “मुहूर्त्तैकं समारभ्य यावत् स्यात्तच्चतुष्टयम् । तावत्तदवगाहेत यावदारोग्यनिश्चयम् ॥ एवं तलेन दुग्धेन सर्पिषा स्वेदयेन्नरम् । एकान्तरो द्व्यन्तरो वा युक्तः स्नेहोऽवगाहने ॥ एतावता क्वाथो दुग्धञ्च नित्यमेव युज्यते ॥” स्नेहस्तु दिनमेकं द्वे वा दिने गमयित्वा युक्तः । अग्निमान्द्यशङ्कयेति भावः । “सिरामुखैर्लोमकूपैर्धमनीभिश्च तर्पयन् । शरीरे बलमाधत्ते युक्तः स्नेहोऽवगाहने ॥ जलसिक्तस्य वर्द्धन्ते यथा मूलेऽङ्कुरादयः । तथव धातुवृद्धिर्हि स्नेहसिक्तस्य जायते ॥ नातः परतरः कश्चिदुपायो वातनाशनः । शीतशूलव्युपरमे स्त्रम्भगौरवनिग्रहे । दीप्तेऽग्नी मार्द्दवे जाते स्नेदनाद्विरतिर्मता ॥” इति भावप्रकाशः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेदः [svēdḥ], [स्विद्-भावे घञ्]

Sweat, perspiration; अङ्गुलिस्वे- देन दूष्येरन्नक्षराणि V.2.

Heat, warmth.

Vapour.-Comp. -उदम्, -उदकम्, -जलम् perspiration. -चूषकः a cooling breeze (sucking up sweat). -च्छिद a. cooling. -ज a. generated by warm vapour or sweat (said of insects). -मातृ f. Chyle.

"https://sa.wiktionary.org/w/index.php?title=स्वेदः&oldid=264855" इत्यस्माद् प्रतिप्राप्तम्