हपुषा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हपुषा, स्त्री, वणिग्द्रव्यविशेषः । तत्तु मरीच- वृन्तवद्दीर्घकृष्णवर्णवस्तु । हबुष् इति ख्यातम् । इति वैद्याः ॥ हौहवेर इति हिन्दीभाषा । तत् द्विविधम् । तन्मध्ये प्रथमं फलं मत्स्यसदृशं विस्रगन्धम् । द्वितीयमश्वत्थफलसदृशं मत्स्य- गन्धम् । तयोर्न्नामानि गुणाश्च । “हपुषा वपुषा विस्रा पराश्वत्थफला स्मृता । मत्स्यगन्धा प्लीहहन्त्री विषघ्नी ध्वाङ्क्षनाशिनी ॥ हपुषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः । पित्तोदरप्रमेहार्शोग्रहणीगुल्मशूलहृत् ॥ पराप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोरपि ॥” इति भावमिश्रकृतभावप्रकाशः ॥ * ॥ अपि च । “हपुषा हवुषा विस्रा विस्रगन्धा विगन्धिका । अन्या चासौ स्वल्पफला कच्छुघ्नी ध्वाङ्क्षनाशिनी ॥ प्लीहशत्रुर्विषघ्नी च कफघ्नी चापराजिता । पूर्ब्बा तु पञ्चनाम्नी स्यादपरा सप्तधाभिधा ॥ हपुषा कटुतिक्तोष्णा गुरुश्लेष्मवलासजित् । प्रदरोदरविष्टम्भशूलगुल्मार्शसां हरा ॥” इति श्रीनरहरिपण्डितविरचितराजनिर्घण्ठे शताह्लादिवर्गश्चतुर्थः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हपुषा¦ स्त्री हेति पुष्यति पुष--क। मरीचवृन्तवद्दीर्घकृष्णवर्ण-वस्तुनि बणिग्द्रव्यविशेषे। पृषो॰ षस्य सः तत्रार्थे।
“हपुषा हपुसा विश्रा पराऽश्वत्थफला स्मृता। मत्स्य-गन्धा प्लीहहन्त्री विषथ्नी धाङ्क्षनाशिनी। हपषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः। पित्तीदरप्रमेहार्शोग्रहणीगुल्मशूलहृत्। पराप्येतद्गुणा प्रोक्ता रूपभेदोद्वयोरपि” भावप्र॰।
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हपुषा or हबुषाf. N. of a partic. substance forming an article of trade (commonly called Habush , and said to be of a long form and black colour , and smelling like raw meat or fish ; it is of two kinds) Car. Sus3r. etc.