हरितः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितः, पुं, (हरति नयनमनांसीति । हृ + “हृश्या- भ्यामितन् । “उणा० ३ । ९३ । इति इतन् ।) हरिद्वर्णः । इत्यमरः । १ । ५ । १४ ॥ सिंहः । इति केचित् ॥ मन्थानकतृणम् । इति राज- निर्घण्टः ॥ हारील इति लोके । तदर्थे पर्य्यायो यथा, -- “हारीतो रक्तपित्तः स्याद्धरितोऽपि स कथ्यते ॥” इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥) हरिद्वर्णयुक्ते, त्रि । इति मेदिनी ॥ (यथा, किराते । ५ । ३८ । “परिसरविषयेषु लीढमुक्ताः हरिततृणोद्गमशङ्कया मृगोभिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=हरितः&oldid=180742" इत्यस्माद् प्रतिप्राप्तम्