हरिद्वार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्वारम्, क्ली, (हरेस्तत्प्राप्तेर्द्वारमिव ।) स्वनाम- ख्यातनगरम् । तत्तु तीर्थविशेषः । यथा, -- “शृणु देवि महामाये पठेच्चण्डीं शृणोत्यपि । गयायाञ्चैव यत् पुण्यं काश्यां विश्वेश्वराग्रतः ॥ प्रयागे मुण्डनाच्चैव हरिद्वारे हरेर्गृहे । तुल्यं पुण्यं भवेद्देवि सत्यं दुर्गे शिवे रमे ॥” इति रुद्रयामले हरगौरीसंवादे रुद्रचण्डी ॥ * ॥ तत्र गङ्गावतरणात् गङ्गाद्वारमिति ख्यातम् । तत्र स्नानादिफलं यथा, -- “ततो गच्छेत धर्म्मज्ञ नमस्कृत्य महागिरिम् । स्वर्गद्वारेण तत्तुल्यं गङ्गाद्वारं न संशयः ॥ तत्राभिषेकं कुर्व्वीत कोटितीर्थे समाहितः । लभते पुण्डरीकन्तु कुलञ्चैव समुद्धरेत् ॥ तत्रैकरात्रिवासेन गोसहस्रफलं लभेत् ॥” इति पाद्मे भूमिखण्डे १२ अध्यायः ॥ अपिच । “सर्व्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ सवासवाः सुराः सर्व्वे गङ्गाद्वारं मनोरमम् । समागत्य प्रकुर्व्वन्ति स्नानदानादिकं मुने ! ॥ दैवयोगान्मुने तत्र ये त्यजन्ति कलेवरम् । मनुष्यपक्षिकीटाद्यास्ते लभन्ते परं पदम् ॥” इति तत्रैव क्रियायोगसारे ३ अध्यायः । * ॥ पुस्तकान्तरे गङ्गाद्वारस्थाने हरिद्वारमिति पाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्वार¦ न॰ हरेस्तत्प्राप्तेः द्वारं सेवनात्। स्वनामख्याते तीर्थभेदे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्वार¦ n. (-रं) The town of HARIDWA'R. where the Ganges descends into the level land of HINDUSTHAN, the sacred bathing-place of the Hindus. E. हरि VISHN4U, and द्वार gate; being the road to VAIKUNT'HA or VISHN4U'S heaven.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्वार/ हरि--द्वार n. " विष्णु's gate " , N. of a celebrated town and sacred bathing-place (commonly called Hardvar , where the Ganges finally leaves the mountains for the plains of Hindustan , whence it is sometimes called Gangadvara ; it is called " हरि's gate " , as leading to वैकुण्ठor विष्णु's heaven) Rudray. Buddh.

"https://sa.wiktionary.org/w/index.php?title=हरिद्वार&oldid=506315" इत्यस्माद् प्रतिप्राप्तम्