हरिहर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिहरः, पुं, (हरिणा सह हरः ।) संयुक्त हरिहरमूर्त्तिः । यथा, -- पुलस्त्य उवाच । “विमुक्तपापा देवेशं वासुदेवमथाब्रुवन् । क्वासौ वद जगन्नाथ ! शम्भुस्तिष्ठति केशव । यं क्षीराद्यभिषेण स्नापयामो विधानतः ॥ अथोवाच सुरान् विष्णुरेष तिष्ठति शङ्करः । मद्देहे किन्न पश्यध्वं योगप्रायं प्रतिष्ठितम् ॥ तमूचुर्नैव पश्यामस्त्वत्तो वै त्रिपुरान्तकम् । सत्यं वद सुरेशान ! महेशानः क्व तिष्ठति ॥ ततोऽव्ययात्मा स हरिः स्वहृत्पङ्कजशायिनम् । दर्शयामास देवानां मुरारिर्लिङ्गमैश्वरम् ॥ ततः सुराः क्रमेणैव क्षीरादिभिरनन्तरम् । स्नापयाञ्चक्रिरे लिङ्गं शाश्वतं ध्रुवमव्ययम् ॥ गोरोचनया त्वालिप्य चन्दनेन सुगन्धिना । विल्वपत्राम्वुजैर्द्देवं पूजयामासुरञ्जसा ॥ पूजयित्वा गुरुं भक्त्या निवेद्य परमौषधीः । जप्त्वाष्टशतनामानि प्रणामं चक्रिरे ततः ॥ इत्येवं चिन्तयन्तश्च देवा देवौ हराच्युतौ । कथं योगत्वमापन्नौ संराध्यतममात्मनः ॥ सुराणां चिन्तितं ज्ञात्वा विश्वमूर्त्तिरभूद्विभुः । सर्व्वलक्षणसंयुक्तः सर्व्वायुधधरोऽव्ययः ॥ सार्द्धं त्रिनेत्रं कमलाहिकुण्डलं जटामहाभारशिरोजमण्डितम् । हरिं हरञ्चैव नगेन्द्रभूषणं पीताजिनाच्छन्नकटिप्रदेशकम् ॥ चक्रासिहस्तं घनुःशार्ङ्गपाणिं पिनाकशूलाजगवान्वितञ्च । कन्दर्पखट्टाङ्गकपालघण्टा- सशङ्खचक्राब्जधरं महर्षे ! ॥ दृष्ट्वैव देवा हरिशङ्करं तं नमोऽस्तु ते सर्व्वगताव्ययेति ॥” इति वामनपुराणे ५९ अध्यायः ॥ * ॥ शिवविष्णोरभेदेनार्च्चकस्य रूपन्त्वेवम् । यथा, -- “निरामया नाम गणाः समायाता जगद्- गुरो । सार्द्धद्विनेत्राः पद्माक्षाः श्रीवत्साङ्कितवक्षसः ॥ समायाताः खगारूढा वृषभध्वजिनोऽव्ययाः । महापाशुपता नाम शूलचक्रधारास्तथा । भैरवो विष्णुना सार्द्धमभेदेनार्च्चितो हि यैः ॥” इति तत्रैव ६४ अध्यायः ॥ अन्यच्च । “अथवा विष्णुरूपेण पूजयेच्चेश्वरं सदा । शङ्करं वामभागस्थं सर्व्वकाममवाप्नुयात् ॥” इति देवीपुराणे १२ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिहर¦ पु॰ हरियुक्तो हरः। हरिहरयोः सं{??}ष्टार्द्ध-देहतया स्थिते मूर्त्तिभेदे देवप्रतिमाशब्दे
३७
०१ तन्यूर्त्ति-लक्षणं दृश्यम्। द्व॰।
२ शिवनारायणयोः द्वि॰ व॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिहर¦ m. (-रः) A particular form of deity consisting of VISHN4U and S4IVA conjointly.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिहर/ हरि--हर m. " विष्णु-शिव" , a partic. form of deity consisting of -V विष्णुand -S3 शिवconjoined Ka1v. RTL. 65
हरिहर/ हरि--हर m. ( du. or in comp. ) विष्णुand शिवHariv. Hit.
हरिहर/ हरि--हर m. N. of various persons Tattvas. Kshiti7s3. etc.
हरिहर/ हरि--हर m. of a river Pra7yaS3c.