हस्तिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिनी, स्त्री, (हस्तिनः स्त्री । ङीप् ।) गज- पत्नी । हातिनी इति भाषा । तत्पर्य्यायः । करेणूः २ करेणुः ३ रेणुका ४ करेणुका ५ धेनुका ६ वासिता ७ वासा ८ करिणी ९ विशा १० । इति शब्दरत्नावली ॥ कटम्भरा ११ पुष्करिणी १२ कचा १३ वसा १४ गणिका १५ गजयोषित् १६ । इति जटाधरः ॥ इभी १७ पद्मिनी १८ मातङ्गी १९ । अस्या दुग्धगुणाः । मधुरत्वम् । वृष्यत्वम् । गुरुत्वम् । कषायत्वम् । स्निग्धत्वम् । स्थैर्य्यकरत्वम् । शीतत्वम् । चक्षु- ष्यत्वम् । बलवर्द्धनत्वञ्च ॥ तद्दधिगुणाः । कषायत्वम् । लघुत्वम् । उष्णत्वम् । पक्तिशूल- शमनत्वम् । रुचिप्रदत्वम् । दीप्तिदत्वम् । वलास- गदनाशित्वम् । वीर्य्यवर्द्धनत्वम् । उत्तमवल- प्रदत्वञ्च ॥ तन्नवनीतगुणाः । कषायत्वम् । शीतलत्वम् । लघुत्वम् । तिक्तत्वम् । विष्टम्भि- जन्तुपित्तकफक्रमिनाशित्वञ्च ॥ तद्घृतगुणाः । कफपित्तविषक्रमिनाशित्वम् । कषायत्वम् । विष्टम्भित्वम् । तिक्तत्वम् । अग्निकरत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ चतुर्ष्विधस्त्रीमध्ये स्त्री- विशेषः । तल्लक्षणं थथा, -- “स्थूलाधरा स्थूलनितम्बभागा स्थूलाङ्गुली स्थूलकुचा सुशीला । कामोत्सुका गाढरतिप्रिया च नितम्बखर्व्वा खलु हस्तिनी स्यात् ॥” इति रतिमञ्जरी ॥ हट्टविलासिनी । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिनी¦ स्त्री हस्तिनः योषा ङीप्।

१ करिण्याम् गजयो-षिति चतुर्विधस्त्रीमध्ये

२ स्त्रीविशेषे तल्लक्षणं यथा
“स्थूलाधरा स्थूलनितम्बभागा स्थूलाङ्गुली स्थूलकुचासुशीला। कामोत्मुका गाढरतिप्रिया च नितम्बखर्वाखलु हस्तिनी स्यात्”
“हये तुष्टा च हस्तिनी” रति-मञ्जरी।

३ हट्टविलासिन्यां शब्दच॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिनी [hastinī], 1 A female elephant.

A kind of drug and perfume.

A woman of a particular class, one of the four classes into which writers on erotical science divide women (described as having thick lips, thick hips, thick fingers, large breasts, dark complexion, and libidinous appetite); the Ratimañjarī thus describes her: स्थूलाधरा स्थूलनितम्बबिम्बा स्थूलाङ्गुलिः स्थूलकुचा सुशीला । कामोत्सुका गाढरतिप्रिया च नितान्तभोक्त्री (नितम्ब- खर्वा) खलु हस्तिनी स्यात् (करिणी मता सा) 8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिनी f. a female elephant AV. etc.

"https://sa.wiktionary.org/w/index.php?title=हस्तिनी&oldid=506364" इत्यस्माद् प्रतिप्राप्तम्