सामग्री पर जाएँ

हाला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाला, स्त्री, (हल्यते कृष्यते इव चित्तमनयेति । हल + घञ् । टाप् ।) मद्यम् । इत्यमरः । २ । १० । ३९ ॥ (पर्य्यायो यथा, -- “मद्यन्तु सीधुमैरेयमिरा च मदिरा सुरा । कादम्बरी वारुणी च हालापि बलवल्लभा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥) तालादिनिर्यासमद्यम् । इति राजनिर्घण्टः ॥ (यथा, माघे १० । २१ । “योषिदित्यभिललाष न हालां दुस्त्यजः खलु सुखादपि मानः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाला स्त्री।

सुरा

समानार्थक:सुरा,हलिप्रिया,हाला,परिस्रुत्,वरुणात्मजा,गन्धोत्तमा,प्रसन्ना,इरा,कादम्बरी,परिस्रुत्,मदिरा,कश्य,मद्य,वारुणी,मधु,हाल,अनुतर्ष

2।10।39।1।3

सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा। गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता॥

अवयव : सुराकल्कः,सुरामण्डः

वृत्तिवान् : शौण्डिकः

 : मधुकपुष्पकृतमद्यम्, इक्षुशाकादिजन्यमद्यम्, नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाला¦ स्त्रा हल--घञ्।

१ मद्ये अमरः

२ तालरसजे (ताडि)मद्ये च राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाला f. spirituous liquor (a provincial term accord. to Va1m. v , 1 , 13 )

"https://sa.wiktionary.org/w/index.php?title=हाला&oldid=271050" इत्यस्माद् प्रतिप्राप्तम्