हाव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हावः, पुं, (ह्वे + घञ् ।) आह्वानम् । इति जटा- धरः ॥ स्त्रीणां शृङ्गारभावजाः क्रियाः । यथा, “स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा । हेला लीलेत्यमी हावाः क्रियाः शृङ्गार- भावजाः ॥” इत्यमरः । १ । ७ । ३१ ॥ स्त्रीणां विलासादयः शृङ्गारभावजाः क्रियाः हावशब्देनोच्यन्ते । क्रियाः चेष्टाः । शृङ्गार- भावो रतिः तत्र जाताः शृङ्गारभावजाः । हूयन्ते रागिणोऽत्र हावः हुलि होमेऽदने आधारे घञ् । हूयन्ते रागिनः कामाग्नावने- नेति करणे वा घञ् । यदुक्तम् । “युवानोऽनेन हूयन्ते नारीभिर्म्मदनानले । अतो निरुच्यते हावस्ते विलासादयो मताः ॥” इति । हा कष्टं वयति शोषयतीति वै शोषे इत्यस्मात् डे वा । यदाह भरतः । “अलङ्काराश्च नाट्यज्ञैर्ज्ञेया भावरसाश्रयाः । यौवनेष्वधिकः स्त्रीणां विकारा वक्त्रगात्रजाः ॥” तथा । “लीला विलासो विच्छित्तिर्विभ्रमः किल- किञ्चितम् । मोट्टायितं कुट्टमितं विव्वोको ललितं तथा । विकृतञ्चेति मन्तव्या दश स्त्रीणां स्वभावजाः ॥” इत्यमरभरतौ ॥ * ॥ तल्लक्षणं यथा, -- “ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविकाशकृत् । भावादीषत्प्रकाशो यः स हाव इति कथ्यते ॥” इत्युज्ज्वलनीलमणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाव पुं।

स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

समानार्थक:विलास,बिब्बोक,विभ्रम,ललित,हेला,लीला,हाव

1।7।32।1।3

हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः। द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥

वैशिष्ट्य : स्त्री

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाव¦ पु॰ ह्वे--भावे घञ् नि॰ सम्प्र॰ हु--करणे घञ्।

१ आह्वाने

२ स्त्रीणां शृङ्गारभावजे चेष्टाभेदे च अमरः।
“युवा-नोऽनेन हूयन्ते नारीभिर्मदनानले। अतो निरुच्यतेहावस्ते विलासादयो मताः” भरतधृतवाक्यम्।
“ग्रीवा-रेचकसंयुक्तो भ्रूनेत्रादिविकाशकृत्। भावादीषत्प्रकाशोयः स हाव इति कथ्यते” उज्वलमणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाव¦ m. (-वः)
1. Any feminine act of amorous pastime, or tending to excite amorous sensations, coquetry, blandishment, dalliance.
2. Calling. E. ह्वेञ् to call, (to incite passion,) aff. घञ्; or हु, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हावः [hāvḥ], [ह्वे-भावे घञ् नि˚, संप्र˚ हु-करणे घञ् वा, ]

A call, calling.

Any feminine coquettish gesture calculated to excite amorous sensations, dalliance (of love), blandishments; हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः Śi.1.13; जगुः सरागं ननृतुः सहावम् Bk.3.43; गतैः सहावैः कलहंसविक्रमम् Ki.8.29. (हाव is thus defined by उज्ज्वल- मणि: ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविकासकृत् । भावादीषत् प्रकाशो यः स हाव इति कथ्यते ॥ see S. D.127 also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाव m. calling , alluring , dalliance , blandishment (collective N. of ten coquettish gestures of women , beginning with लीलाSee. ) , MBh. Ka1v. etc.

हाव etc. See. p.1294 , cols. 1 and 2.

"https://sa.wiktionary.org/w/index.php?title=हाव&oldid=271109" इत्यस्माद् प्रतिप्राप्तम्