हास्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हास्यम्, क्ली, (हस + ण्यत् ।) रसविशेषः । स च कौतुकोद्भवम् । तत्पर्य्यायः । हासः २ हसः ३ । इत्यमरः । १ । १ । १९ ॥ हसनम् ४ घर्घरः ५ हासिका ६ । इति हेमचन्द्रः ॥ * ॥ अथ हासः । “विकृताकारवाग्वेशचेष्टादेः कुतुकाद् भवेत् । हास्या हासः स्थायिभावः श्वेतः प्रमथदैवतः ॥ विकृताकारवाक्चेष्टं यदालोक्य हसेज् जनः । तदत्रालम्बनं प्राहुः तच्चेष्टोद्दीपनं मतम् ॥ अनुभावोऽक्षिसङ्कोचवदनस्मेरतादिकः ! निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ॥ ज्येष्ठानां स्मितहसिते मध्यानां विहसिता- वहसिते च । नीचानामपहसितं तथातिहसितञ्च षड्भेदाः ॥ ईषद्विकासि कथनं स्मितं स्यात् स्यन्दिताधरम् । किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः ॥ मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितम् । अपहसितं सास्राक्षविक्षिप्ताङ्गं भवत्यतिह- सितम् ॥” यथा मम । “गुरोर्गिरः पञ्च दिनान्यधीत्य वेदान्तशास्त्राणि दिनद्वयञ्च । अमी समाघ्राय च तर्कपादान् समागताः कुक्कुटमिश्रपादाः ॥” अस्य नाटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः । अत्र च । “यस्य हासः स चेत् क्वापि साक्षान्नैव निबध्यते । तथाप्येष विभावादिसामर्थ्यादुपलभ्यते ॥ अभेदेन विभावादि सावारण्यात् प्रतीयते । सामाजिकैस्तती हास्यरसोऽयमनुभूयते ॥” एवमन्येष्वपि रसेषु द्रष्टव्यम् । इति साहित्य- दर्पणे ३ परिच्छेदः ॥ * ॥ तस्य शुभाशुभलक्षणं यथा, -- “अकम्पं हसितं श्रेष्ठं मीलिताक्षमघापहम् । असकृद्धसितं दुष्येत् तत् सोन्मादस्य नैकधा ॥” इति गारुडे । ६५ । ३५ अध्यायः ॥ (हासयोग्ये, त्रि । यथा रघुः । २ । ४३ । संरुद्धचेष्टस्य मृगेन्द्र ! कामं हास्यं वचस्तद्यदहं विवक्षुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हास्य पुं।

नवरसेष्वेकः

समानार्थक:शृङ्गार,वीर,करुणा,अद्भुत,हास्य,भयानक,बीभत्स,रौद्र

1।7।17।1।5

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

हास्य नपुं।

हास्यरसः

समानार्थक:हस,हास,हास्य

1।7।19।1।2

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्. विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्.।

 : सोपहासम्, परस्यामर्षजनकहासम्, ईषद्_हासः, मध्यमहासः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हास्य¦ न॰ हस--ण्यत्।

१ हासे हसने अमरः

२ अलङ्का-रोक्ते रसभेदे च।
“अकम्पं हसितं श्रेष्ठं मीलिताक्ष-मघापहम्। असकृद्धसितं दुष्येत् तत् सोन्मादस्यनैकधा” गारुडे

६६ अ॰।
“ज्येष्ठानां स्मितहसिते मध्यानां विहसितावहसिते चनीचानामपहसितं तथाऽतिहसितञ्च षड्भेदाः”।
“ईष-द्विकासि नयनं स्मितं स्यात् स्पन्दिताधरम्। किञ्चित्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः। मधुरस्यरं विह-सितमास्यशिरःकम्पमवहसितम्। अपहसितं सास्राक्षंविक्षिप्ताङ्गं भवत्यतिहसितम्” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हास्य¦ mfn. (-स्यः-स्या-स्यं) Laughable, ridiculous. n. (-स्यं)
1. Laughter. laughing, mirth.
2. Ridicule, derision. E. हस् to laugh, ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हास्य [hāsya], a. [हस्-ण्यत्] Laughable, ridiculous; संरुद्ध- चेष्टस्य मृगेन्द्र कामं हास्यं वचस्तद्यदहं विवक्षुः R.2.43.

स्यम् Laughter; क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥ Y.1.84.

Mirth, amusement, sport; तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् Ms.9.227.

Jest, joke.

Derision, ridicule; तुष्टैर्बद्धं तदलघु रघु- स्वामिनः सच्चरित्रं क्रुद्धैर्नितस्त्रिभुवनजयी हास्यमार्गं दशास्यः Vikr. 18.17. -स्यः The sentiment of mirth or humour, one of the eight or nine sentiments in poetry; it is thus defined: विकृताकारवाग्वेषचेष्टादेः कुहकाद्भवेत् । हास्यो हास- स्थायिभावः (so must the line be read instead of हासो हास्य- स्थायिभावः) श्वेतः प्रमथदैवतः S. D.228. -Comp. -आस्पदम् a butt (of ridicule), laughing-stock. -कथा a funny tale. -कारः = हासकः q. v.; तथोपविष्टं राजानमुपासन्ते विचक्षणाः । कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥ Rām.7.43.1. -पदवी, -मार्गः ridicule, derision; Vikr.18.17. -रसः the sentiment of mirth or humour; see हास्य above.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हास्य mfn. to be laughed at , laughable , ridiculous , funny , comical MBh. Ka1v. etc.

हास्य mfn. laughing , laughter , mirth (in rhet. one of the 10 रसs or of the 8 स्थायि-भावs , qq. vv.) Ya1jn5. MBh. etc.

हास्य mfn. jest , fun , amusement Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=हास्य&oldid=506382" इत्यस्माद् प्रतिप्राप्तम्